________________
२२६ पारस्करगृह्यसूत्रम् ।
[पञ्चमी कुशमुअबल्बजतन्तुरज्वा वा सर्वजातिपु । ततस्तथैव तूष्णी माणवकस्य यथोक्तमजिनमुत्तरीयं कारयति । तत आचार्यों माणवकाय दण्डं ददाति । माणवकश्च यो मे दण्डः परापतद्वैहायसोऽधिभूम्याम् । तमहं पुनरादद आयुषे ब्रह्मणे ब्रह्मवर्चसायेत्यनेन मन्त्रेण तं प्रतिगृह्णाति । दीक्षावद्वा दण्डं ददाति प्रतिगृह्मात्युच्छ्रयति च । अथाचार्यः स्वकीयमञ्जलिं जलेन पूरयित्वा तेन जलेनाक्षलिस्थेन माणवकस्याञ्जलिं पूरयति आपोहिष्ठेति तृचेन । ततो गुरुर्माणवकं प्रेषयति सूर्यमुदीक्षवेति माणवकश्च प्रेषितस्तच्चक्षुरिति मन्त्रेण सूर्यमुदीक्षते । अथाचार्यों माणवकस्य दक्षिणांसस्योपरि स्वं दक्षिणं हस्तं नीत्वा हृदयमालभते । मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु । मम वाचमेकमना जुषस्व बृहस्पतिष्ठा नियुनक्तु मह्यमिति मन्त्रेण । अथाचार्योऽस्य माणवकस्य दक्षिणं हस्तं साङ्गुष्ठं गृहीत्वा को नामासीत्याह । एवं पृष्टः कुमारः अमुकशर्माऽहं भो३ इति प्रत्याह । पुनराचार्यों माणवकं पृच्छति कस्य ब्रह्मचार्यसीति भवत इति माणवकेनोच्यमाने इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवामुकशर्मन्नित्याचार्यः पठेत् । अथैनं कुमार भूतेभ्यः परिददात्याचार्यः प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददाम्यङ्ग्यस्त्वौषधीभ्यः परिबदामि द्यावापृथिवीभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्टया इत्यनेन मन्त्रेण । अथ कुमारः अग्नि प्रदक्षिणीकृत्य आयार्यस्योत्तरत उपविशति । आचार्यश्च ब्रह्मोपवेशनादिपर्युक्षणान्तं कृत्वा आधाराद्याः स्विष्टकृदन्ताश्चतुर्दशाज्याहुतीब्रह्मान्वारन्धो हुत्वा हुतशेष प्राश्य पूर्णपात्रं वरं वा ब्रह्मणे दद्यात् । अथानन्तरमेनं ब्रह्मचारिणं संशास्ति कथं ब्रह्मचार्यसीत्याचार्यों वदति भवानीति ब्रह्मचारी । अपोशानेत्याचार्यः अनानीति ब्रह्मचारी । कर्म कुर्वित्याचार्यः । करवाणीति ब्रह्मचारी। मा दिवा सुषुप्था इत्याचार्यः । न खपानीति ब्रह्मचारी । वाचं यच्छेत्याचार्यः । यच्छानीति ब्रह्मचारी। समिधमाघेहीत्याचार्यः । आदधानीति ब्रह्मचारी । अपोशानेत्याचार्यः । अनानीति ब्रह्मचारी । अथास्मै एवं शासिताय ब्रह्मचारिणे आचार्यः सावित्रीमन्वाह । कीशाय उत्तरतोऽग्नेः प्रत्यङ्मुखायोपविष्टाय पादोपसंग्रहपूर्वकमुपसन्नाय आचार्य समीक्षमाणाय स्वयमप्याचार्येण समीक्षिताय । कथमन्वाह ? ॐकारव्याहृतिपूर्वकमे. कैकं पादं तथा द्वितीयमङ्घर्चशः तथैव तृतीयं सर्वी स्वयं च ब्रह्मचारिणा सह पठन् । केषांचित्पक्षे दक्षिणतोऽस्तिष्ठते आसीनाय वा आचार्य उक्तप्रकारेण सावित्रीमन्वाह । संवत्सरे वा घण्मास्ये वा चतुर्विशत्यहे वा द्वादशाहे वा षडहे वा व्यहे वा • काले क्षत्रियवैश्ययोब्रह्मचारिणोराचार्यः सावित्री ब्रूयात् । ब्राह्मणाय तु सद्य एव गायत्री गायत्रीछन्दस्का सावित्रीं सवितृदेवत्याम् अचं विश्वामित्रदृष्टां सायमग्निहोत्रहोमानन्तरं गार्हपत्याग्न्युपस्थाने विनियुक्तां तत्सवितुरिति सर्ववेदशाखाम्नातां ब्रह्मदृष्टगायत्रीछन्दस्कपरमात्मदैवतवेदारम्भादिविनियुक्तप्रणवसहितप्रजापतिदृष्टामिवायुसूर्यदैवतगायच्युष्णिगनुष्टुप्छन्दस्काग्न्याधानविनियुक्तभूर्भुवःखरितिमहाव्याहृतिपूर्विकां ब्राह्मणाय ब्रह्मचारिणे आचार्योऽनुयात् । क्षत्रियाय त्रिष्टुप्छन्दस्कां बृहस्पतिदृष्टा सवितृदेवत्यां देवसवितुरित्यादिकां वाजपेये आज्यहोमे विनियुक्तां तथा वैश्याय प्रजापतिदृष्टां जगतीछन्दस्कां सवितृदेवत्यां रुक्मपाशप्रतिमोचने उषासम्भरणे विनियुक्तां विश्वारूपाणि प्रतिमुञ्चत इत्येतामृचं ब्रूयात् । सर्वेषां वा ब्राह्मणक्षत्रियविशां गायत्रीमेव गायत्रीछन्दस्का सावित्रीमुक्तलक्षणां ब्रूयात् । अत्रावसरे ब्रह्मचारी समिदाधानं करोति । तत्र पूर्व दक्षिणहस्तेन अग्ने सुश्रवः सुश्रवसं मा कुरु, यथा त्वमग्ने सुश्रवः सुश्रवा असि, एवं माथं सुश्रवः सौश्रवसं कुरु । यथा त्वमग्ने देवानां यज्ञस्य निधिपा असि, एवमहं मनुष्याणां वेदस्य निधिपो भूयासमित्येतैः पञ्चभिर्मन्त्रैः प्रतिमन्त्रमिन्धनप्रक्षेपेणाग्निं संधुक्षयति । हस्ताभ्यां वा संधुक्षणप्रसिद्धिरस्ति । ततोऽग्निं प्रदक्षिणं दक्षिणहस्तेनानिः पर्युक्ष्योत्थाय तिष्ठन्