________________
afusar ]
द्वितीयकाण्डम् |
२२५
1
स्तम्ब:--
वित्येके । कर्मस्वनधिकारात्पातित्यं नास्ति । तदपत्यं तु संस्कार्यम् । ब्राह्मण्यां ब्राह्मणेनोत्पन्नो ब्राह्मण एवेति स्मृतेः । अन्येतु तावपि संस्कार्यावित्याहुः । होमं तावदाचार्यः करोति । उपनयनं च विधिना आचार्यसमीपानयनमग्निसमीपानयनं वा सावित्रीवाचनं वा । अन्यदङ्गं यथाशक्ति कार्यम् । विवाहश्च कन्यास्वीकारोऽन्यदङ्गमिति । औरसक्षेत्रजाश्चैषां संस्कार्या भागहारिणः । औरसः पुत्रिकापुत्रः क्षेत्र गूढजस्तथा । कानीनश्च पुनर्भूजो दत्तः क्रीतश्च कृत्रिमः । दत्तात्मा च सहोदश्च त्वपविद्धसुतस्ततः । पिण्डदोऽशहरश्चैषां पूर्वाभावे परः परः । एते द्वादशपुत्राश्च संस्कार्याः स्युर्द्विजातयः । केचिदाहुर्द्विजैर्जातौ संस्काय कुण्डगोलकौ । अमृते च मृते पत्यौ जारजौ कुण्डगोलकौ । शङ्खलिखितौ — नोन्मत्तमूकान् संस्कुर्यात् । विष्णु:-- नापरिक्षितं याजयेत् नाध्यापयेन्नोपनयेत् | आप:- शूद्राणामदुष्टकर्मणामुपनयनम् । एतच्च रथकारविपयकम् । तस्य तु मातामहीद्वारकं शूद्रत्वम् । अदुष्टकर्मणां मद्यपानरहितानामिति कल्पतरुकारः । इति सूत्रार्थः । अथोपनयनप्रयोगः । तत्र ब्राह्मणस्याष्टवार्षिकस्य गर्भाष्टवार्षिकस्य वा क्षत्रियस्यैकादशवार्षिकस्य वैश्यस्य द्वादशवार्षिकस्योपनयनं कुर्यात् । यथामङ्गलं वा सर्वेषामुपनयनम् । अथोदगयने शुकपक्षे पुण्येऽहनि मातृपूजापूर्वकमाभ्युदधिकं श्राद्धं कुर्यात् । कुमारस्य वपनं कारयित्वा ब्राह्मणत्रयं भोजयित्वा कुमारं च भोजयित्वा वहि:शालायां पञ्च भूसंस्कारान् विधाय लौकिकाग्निं स्थापयित्वा पर्युप्तशिरसमलंकृतं कुमारमाचार्यपुरुपा आचार्यसमीपमानयन्ति । तत आचार्य आनीतं कुमारं पञ्चाग्नेः स्वस्य दक्षिणेऽवस्थाप्य ब्रह्मचर्यमागामिति ब्रूहीति कुमारं प्रति वदति । ब्रह्मचर्यमागामिति कुमारः प्रतिब्रूयात् । ब्रह्मचार्य - सानीति ब्रूहीत्याचार्येणोक्ते ब्रह्मचार्यसानीति माणवको ब्रूयात् । अथाचार्यों माणवकं येनेन्द्राय बृहस्पतिर्वासः पर्यद्धादमृतम् । तेन त्वा परिदधाम्यायुपे दीर्घायुत्वाय बलाय वर्चस इत्यनेन मन्त्रेण यथोक्तं वासः परिधापयति । तत आचार्यो माणवकस्य कटिप्रदेशे मेखलां चन्नाति । इयं दुरुक्तं परिबाधमाना वर्ण पवित्रं पुनती म आगात् । प्राणापानाभ्यां वलमादधाना स्वसा देवी सुभगा मेखले - यमिति मन्त्रं पठितवतः । युवासुवासाः परिवीतआगात्स उ श्रेयान् भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाथ्यो मनसा देवयन्त इति वा मन्त्रम् । तूष्णीं मन्त्रवर्ज वा । ततः यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज इति मन्त्रं पठितवतो माणवकस्य दक्षिणवाहुमुद्धृत्य वामस्कन्धे यज्ञोपवीतं निवेशयति । यज्ञोपवीतलक्षणं तु छन्दोग परिशिष्टे - त्रिवृतं कार्य तन्तुत्रयमधोवृतम् । त्रिवृतं चोपवीतं स्यात्तस्यैको ग्रन्थि - रिष्यते । वामावर्ते त्रिगुणं कृत्वा प्रदक्षिणावृत्तं नवगुणं विधाय तदेव त्रिसरं कृत्वा ग्रन्थिमेकं विदध्यात् । यथा पृष्ठवंशे च नाभ्यां च धृतं यद्विन्दते कटिम् । तद्धार्यमुपवीतं स्यान्नातिलस्वं नचोच्छ्रितम् । वामस्कन्धे धृते नाभिहृत्पृष्ठवंशयोर्धृतं यथा कटिपर्यन्तं प्राप्नोति तावत्परिमाणं कर्तत्र्यमित्यर्थः । कार्पासक्षौमगोवालशाणवल्क तृणादिकम् । सदा संभवतो धार्यमुपवीतं द्विजातिभिः ॥ १ ॥ शुचौ देशे शुचिः सूत्रं संहताङ्गुलिमूलके । आवेष्ट्य षण्णवत्या तत् त्रिगुणीकृत्य यत्नतः ॥ २ ॥ अब्लिङ्गकैस्त्रिभिः सम्यक् प्रक्षाल्योर्ध्ववृतं च तत् । अप्रदक्षिणमावृत्तं सावित्र्या त्रिगुणीकृतम् ॥ ३ ॥ अधः प्रदक्षिणावृत्तं समं स्यान्नवसूत्रकम् ॥ त्रिरावेष्ट्य दृढं बद्धा हरित्रह्मेश्वरान्नमेत् ॥ ४ ॥ यज्ञोपवीतं परममिति मन्त्रेण धारयेत् ॥ सूत्रं सलोमकं चेत्स्यात्ततः कृत्वा विलोमकम् ॥ ५ ॥ सावित्र्या दशकृत्वोऽद्भिर्मन्त्रिताभिस्तदुक्षयेत् ॥ विच्छिन्नं वाऽप्यधोयातं भुक्खा निर्मितमुत्सृजेत् ॥ ६ ॥ स्तनादूर्ध्व मधोनाभेर्न धार्य तत्कथभ्वन || ब्रह्मचारिण एकं स्यात्ज्ञातस्य द्वे बहूनि वा ॥ ७ ॥ तृतीयमुत्तरीयं वा वस्त्राभावे तदिष्यते । ब्रह्मसूत्रे तु सव्येऽसे स्थिते यज्ञोपवीतिता ॥८॥ | प्राचीनावीतिताऽ सन्ये कण्ठस्थे तु निवीतिता ॥ वस्त्रं यज्ञोपवीतार्थं त्रिवृत्सूत्रं च कर्मसु ॥ ९ ॥
२९