________________
२२४ पारस्करगृह्यसूत्रम्।
[पञ्चमी भवति इति यथोक्तधर्मानुष्ठातुर्ब्रह्मचारिणः फलकथनम् । 'त्रयः" तक इति' त्रयस्त्रि प्रकाराः स्नातका भवन्ति । कथम् एको विद्यास्नातकः अपरो व्रतस्नातकः अन्यो विद्याव्रतस्नातकः । एतेषां लक्षणमाह- समा"तक इति ' समाप्य समाप्ति पाठतोऽर्थतश्चावसानं नीत्वा वेदं वेदस्य मन्त्रब्राह्मणात्मिकामेकां शाखां यः समावर्तते स्त्राति स ब्रह्मचारी विद्यास्नातको भवति । एवं समाप्य व्रतं द्वादशवर्षादिकं ब्रह्मचर्यमसमाप्य असंपूर्णमधीत्य वेदमेकां शाखां यो ब्रह्मचारी समावर्तते स्नानं करोति स व्रतस्नातको भवति । उभयं वेदं ब्रह्मचर्य च समाप्य अन्तं नीत्वा यः नाति स विद्यावतस्नातको भवति । 'आपो"श्यश्य ' उपनयनकालस्य परमावधिमाह आपोडशापोडशाद्वात्प्राक् ब्राह्मणस्य विप्रस्य अनतीतः न अतीतः उपनयनस्य कालः समयो भवति । आद्वाविंशात् द्वाविंशाद्वर्षात्पूर्व क्षत्रियस्य आचतुर्विंशाचतुर्विशाद्वर्षादर्वाक् वैश्यस्योपनयनस्य कालः अनतीतो भवतीति सर्वत्र संवध्यते । अत''वन्ति । अतः पञ्चदशात् एक विशात् त्रयोविशाद्वदूर्द्धम् अनुपनीता ब्राह्मणक्षत्रियवैश्याः यथासङ्ख्यं पतितसावित्रीका भवन्ति पतिताः स्खलिता अधिकाराभावानिवृत्ता सावित्री गायत्री येभ्यस्ते पतितसावित्रीका भवन्ति संपद्यन्ते । 'नैना'""रेयुः । एतान् पतितसावित्रीकान् न उपनयेयुः उपनयनसंस्कारेण न संस्कुयुः । शिष्टाः कैश्चिदतिक्रान्तनिषेधैरुपनीतानपि न अध्यापयेयुः न वेदं पाठयेयुः । तथा न याजयेयुः। कैश्चिदतिक्रान्तनिषेधैर्वेदमध्यापितानपि न याजयेयुः न यज्ञं कारयेयुः । एभिः पतितसावित्रीकैरनुपनीतैरुपनीतैर्वा सह न व्यवहरेयुः । स्नानासनशयनभोजनविवाहादिभिः कर्मभिर्न व्यवहारं कुर्युः । 'काला "वत् । गर्भाधानादीनि उपनयनान्तानि कर्माणि नियतकालान्यभिहितानि । यदि दैवापुरुषापराधाद्वा दोपाद्वा तेषां नियतस्य कालस्य अतिक्रमो भवति । तदा किं कर्तव्यमिति संदेहे निर्णयमाह-कालातिक्रमे यस्य संस्कारकर्मणः शास्त्रेण नियमितो यः कालः तस्यातिक्रमे लङ्घने नियतवत् नित्यवत् नित्ये श्रौतकल्पे नित्येपु (१) यद्विहितं तद्वत् अनादिष्टं प्रायश्चित्तं भवति । ततः कृतप्रायश्चित्तस्यातिक्रान्तकाले संस्कारकर्मण्यधिकारः संपद्यते अनादिष्टप्रायश्चित्तेतिकर्तव्यता च प्रयोगे वक्ष्यते । अत्र कालातिक्रम इत्युपलक्षणम् । अतोऽन्येपामपि कर्मणां नाशे इमनादिष्टमेव सर्वप्रायश्चित्तम् । गृहकारेण प्रायश्चित्तान्तरस्यानुपदिष्टत्वात् । कितु औतानामतिदेशे प्राप्ते अविज्ञाते प्रतिमहाव्याहृति सर्वाभिश्चतुर्थः सर्वप्रायश्चित्तं चेत्यस्यैव कालातिकमे नियतवदित्यनेनातिदेशः कृतो नतूपदेशः कृतो गृह्यकारेण । तत्राविज्ञावमप्रत्यक्षश्रुतिमूलम् किमिदमाग्वैदिकं याजुबैदिक सामवैदिकं वेत्यनिश्चितं स्मात कर्म तस्य श्रेषे औतकल्पे व्याहृतिचतुष्टयं पञ्चवारुणहोमं प्रायश्चितमुद्दिष्टमत्र गृह्यसूत्रे गृह्योक्तकर्मणामपि स्मार्तत्वात् तभ्रेपे तस्यैवातिदेशो युक्तः, न पुनः प्रत्यक्षवेदमूलकर्मभ्रेपोपदिष्टानाम् । इदानी पतितसावित्रीकविषये संस्कारप्रतिप्रसवमाह 'त्रिपु''पन च' त्रिपुरुषं त्रीन् पुरुषान् यावत् ये पतितसावित्रीकाः पितृपुत्रपौत्रास्तेषामपत्ये पुत्रे संस्कारः उपनयनं भवति न पुनश्चतुर्थादीनां तेषां च उपनीतानामपि अध्यापनं न भवति [ निपिद्धस्य पुनरतुज्ञापनं प्रतिप्रसव इति । उपनयनस्यैव प्रतिप्रसवात् । ] 'तेषा'चनात् । तेषां पतितसावित्रीकाणां मध्ये यः संस्कारप्सुः आत्मानं संस्कारयितुकामः स ब्रात्यस्तोमेन यज्ञविशेषेण इष्टा व्रात्यस्तोम यज्ञं कृत्वा व्यवहार्यों भवति । अधीयीत चेति शेषः । उपनयनादिसंस्कारयोग्यो भवति । तस्मास्काममिच्छया ब्रात्यस्तोमेनेष्टा अधीयीरन् वेदं पठेयुः व्यवहार्याः लोके शिष्टानामन्यापनादिषु कर्मसु योग्या भवन्तीति वचनात् श्रुतेः। संस्कार्यप्रसङ्गात् स्मृत्यन्तरोक्ता अपि संस्कार्या लिख्यन्ते । पण्डान्धवधिरस्तब्धजडगदगदपॉपु । कुजवामनरोगार्तशुष्काङ्गिविकलाभिषु । मत्तोन्मत्तेपु मुकेषु शयनस्थे निरिन्द्रिये । ध्वस्तपुंस्त्वेऽपि चैतेपु संस्काराः स्युर्यथोचिताः । मूकोन्मत्तौ न संस्कार्या