________________
कण्डिका] द्वितीयकाण्डम् ।
२२३ त्वेन सदा चिह्नरूपं कुर्यात् । अग्नेः परिचरणं सायंप्रातः परिसमूहनपूव ज्यायुपकरणान्तेन समिदाधानम् । गुरुशुश्रूषा गुरोः शुश्रूपा परिचर्या तां कुर्यात् । भिक्षाथै चर्या भिक्षाचर्या भैक्षचरणमिति यावत् । मधु क्षौद्रं मांसं पललं मजनं नद्यादावाप्लवनं, स्नानं तूद्धृतोदकेन । उपरि खट्वादो आसनमुपवेशनम् । आसनस्योपरि मसूरिकाद्यासनं च । स्त्रीगमनं स्त्रीणां मध्येऽवस्थानम् । अभिगमनस्योपरि वक्ष्यमाणत्वात् । अनृतमसत्यवदनम् । अदत्तानां परद्रव्याणामादानं ग्रहणम् स्तेयमित्यर्थः एतानि मध्वादीनि वर्जयेत् । अष्टा""चरेत् । अष्टाभिरधिकानि चत्वारिंशत् अष्टाचत्वारिंशत् तानि अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्य वेदग्रणाथै ब्रह्मचर्यमुक्तलक्षणं चरेत् अनुतिष्ठेन् । अस्मिन्पक्षे चतुर्णासपि चेदानामेक एव व्रतादेशः सर्ववेदाहुतिहोमश्च ।'द्वाद' 'णं वा' अनुकल्पमाह । तावदशक्तौ द्वादश द्वादश वर्षाणि प्रतिवेदं वेदे वेदे ब्रह्मचर्य चरेदित्यनुवर्तते । तत्राप्यशक्तौ यावद्हणं यावद्वेदस्य वेदयोदानां वा ग्रहणम् आचार्यात्पाठतोऽर्थतश्च स्वीकरणं तावद्वा ब्रह्मचर्य चरेत् । वर्णव्यवस्थया वास:प्रभृतीनि व्यवस्थितान्याह 'वासाउं.""कानि' ब्राह्मणक्षत्रियविशां ब्रह्मचारिणां यथासंख्यं शाणक्षौमाविकानि वस्त्राणि परिधेयानि भवन्ति । तत्र शणमयं शाणं, क्षोमं क्षुमा अतसी तद्विकारमयं क्षौमम् , आविकमवेर्मेपस्य विकार आविकमूर्णामयमित्यर्थः । ऐणे'णस्य ' एणी हरिणी तस्या इदं ऐणेयमजिनं कृत्तिरुत्तरीयं भवति ब्राह्मणस्य ब्राह्मचारिणः । 'रौर 'न्यस्य । रुरुमंगविशेपः चित्रमृग इतिप्रसिद्धः तस्येमजिनं रौरवं राजन्यस्य क्षत्रियस्योत्तरीयं भवति । 'आज'श्यस्य' अजस्य वस्तस्येदमाजम् अजिनं कृत्तिः वैश्यस्य उत्तरीयं भवति । अथवा गव्यं गोः इदं गन्यमजिनं वैश्यस्य उत्तरीयं भवति । पक्षान्तरमाह-सर्वे 'वात् । सर्वेषां ब्राह्मणक्षत्रियविशां गव्यमजिनं वा उत्तरीयं भवति । कदा असति मुख्य अविद्यमाने कुतः प्रधानत्वात् । गव्यं हि अजिनानां प्रधानम् एणेयाद्यजिनप्रकृतीनामेण्यादीनां गोः प्राधान्यं यतः । यद्वा गव्यस्य चर्मणः पुरुषसंवन्वित्वेन प्रधानत्वात् । तथाच श्रुतिः-तेऽवच्छाय पुरुपं गव्येतां त्वचमधुरिति । मौनी 'जानाम् । मौखी मुखं तृणविशेषस्तन्मयी मौनी रशना मेखला ब्राह्मणस्य ब्रह्मचारिणो भवति । धनुा चापस्य ज्या गुणः रशना राजन्यस्य ब्रह्मचारिणः । मौर्वाति मुरुस्तृणविशेपस्तन्मयी रशना वैश्यस्य भवति । मुञ्जस्याभावे अलाभे ब्रह्मणस्य कुशानां कुशमयी रशना भवति । धनुर्ध्यामा क्षत्रियस्य अश्मन्तक्रमयी भवति । मौा अभावे वाल्वजी वैश्यस्य । मुलाभावशब्दोऽत्र धनुर्ध्यामौळभावोपलक्षणार्थः । 'पाला"श्यस्य पालाशः पलाशवृक्षोद्भवः ब्राह्मणस्य ब्रह्मचारिणो दण्डो भवति । वैल्वः बिल्ववृक्षोद्भवः क्षत्रियस्य । औदुम्बरः उदुम्बरवृक्षोद्भवो वैश्यस्य । 'केश''श्यस्य ' स च केशसंमितः पादादिकेशमूलावधिप्रमाणकः ब्राह्मणस्य, क्षत्रियस्य ललाटसंमितः ललाटावधिपरिमाणः भ्रूमध्यावधिरित्यर्थः । वैश्यस्य ब्रह्मचारिणः पादादिरोष्टावधिको दण्डः । 'सर्वेषाम् । यद्वा सर्वेषां ब्राह्मणक्षत्रियविशां ब्रह्मचारिणां सर्वे पालाशवैल्बौदुम्बरा अनियमेन दण्डा भवन्ति नियमोऽत्र नास्ति मुख्यालामे यथालाभमुपादेयम् । 'आचा''यात्' आचार्येण गुरुणा आहूत आकारित उत्थाय ऊवों भूत्वा प्रतिशृणुयात् प्रतिवचनं दद्यात् ब्रह्मचारी । 'शया"सीनः । वेद्यदि शयानं स्वपन्तं ब्रह्मचारिणं गुरुराह्वयति तदा आसीन: उपविष्टः सन् प्रतिवचनं दद्यात् । 'आसी"ठन्। आसीनमुपविष्टं चेदाह्वयति तदा तिष्ठन्नुत्थितः । ‘तिष्ट "मम् । यदि तिष्ठन्तमुत्थितमाह्वयति तदा अभिकामन गुरुमभिमुखं गच्छन् प्रतिशृणुयात् । अमिवन् । अभिक्रामन्तमभिमुखमागच्छन्तमाचार्यः ब्रह्मचारिणं यदि आह्वयति तदा स ब्रह्मचारी अभिधावन्नभिमुखं धावन्सन् प्रतिशृणुयान् । ' स ए' 'सतीति' स ब्रह्मचारी एवमुक्तेन मार्गेण ब्रह्मचर्ये वर्तमानस्तिष्ठन् अमुन्न स्वर्गे अद्य इहैव स्थितः सन् वसति तिष्ठति द्विरुक्तिः स्तुत्यर्था । तस्य वति' तस्य ब्रह्मचारिणः स्नातकस्य समावृत्तस्य कीर्तिर्यतो