________________
२२२
पारस्करगृह्यसूत्रम् ।
[ पञ्चमी
मौर्वी मुजादीनामभावे कुशादीनां संबन्धिनी रशना क्रमेण भवति । अत्राचार्येणासूत्रितमपि दण्डमानमुपयुक्तत्वाद विरोधित्वाच्छाखान्तरीयं ग्राह्यम् । तच्च केशसंमितो ब्राह्मणस्य, ललाटसंमितः क्षत्रियस्य, घ्राणसंमितो वैश्यस्येति दण्डं प्रक्रम्योक्तम् । यद्यपि श्रुत्या मुखसंमितो भवत्येताव - दित्यादिकया ब्राह्मणमधिकृत्य मुखसंमितत्वमुक्तम् तच्छ्रौतदण्डविषयम् । मुखसंमितमौदुम्बरं दण्डं प्रयच्छतीत्यौदुम्वरमभिधायात्र पालाशस्य विधानात् । सर्वे वा दण्डाः सर्वेषामनियमेन भवन्ति । आचार्येणासीनः सन्नाहूतस्तदा आसनादुत्थाय प्रतिशृणुयात् । शयानं चेदाह्वयति तदाऽऽसीनः प्रतिशृणुयात् । एवमासीनं चेत्तिष्ठन् प्रतिशृणुयात् । तिष्ठन्तं चेदभिक्रामन् अभिमुखं गच्छन् । अभिक्रामन्तं चेद्धावन् । अस्यार्थवादः स एवमिति । अमुत्र वसतिश्व स्तुतिपरा । तस्य च कीर्ति - र्भवतीति च । स्नातकस्य त्रैविध्यमाह - विद्यास्नातक इति । तदेव विवृणोति समाप्य वेदमित्या - दिना । उच्यत इति सर्वत्राध्याहारः । आषोडशात् अर्वाक् पोडशाद्वर्षाद्राह्मणस्यानतीतः अनतिक्रान्त उपनयनस्य कालो भवति । आद्वाविंशादाचतुर्विंशाच क्षत्रियविशोरनतीतः । अतः परं पतितसावित्रीका भवन्त्येते । ततश्च नैनान् ब्रात्यान् अकृतत्रात्यस्तोमप्रायश्चित्तान् । प्रायश्चित्ताचरणानन्तरं तेपामुपनयनाद्यधिकार इत्यर्थः । कालातिक्रमे गर्भाधानादिनियतकालानां कर्मणां नियतकालव्यतिक्रमे सति प्रायश्चित्तं नियतवत् नित्यवत् । नियते श्रौतकल्पे नैमित्तिकेषु यद्विहितं स्मार्त तदेवानादिष्टं भवति । तच्च अविज्ञाते प्रतिमहाव्याहृतिसर्वाभिचतुर्थः सर्वप्रायश्चित्तं चेत्यस्यैवातिदेशो नतूपदेशो गृह्यकारस्य । एवमन्यत्रापि भ्रेषे जाते एतदेव भवति नैमित्तिकान्तरानभिधानात् । त्रिपुरुषमित्येषां त्रयाणामपत्ये चतुर्थे पुरुषे कृतप्रायश्चित्ते केवलमुपनयनाख्यः संस्कारो नाध्यापनादिः । तेपां त्रिपुरुषं पतितसावित्रीकाणां मध्ये य आत्मनः संस्कारमिच्छति स व्रात्यस्तो - मेनेष्ट्वा काममधीयीत । कुत: ? अधीयीरन् व्यवहार्या इत्यादेः ॥ ॥ ५ ॥ 11 11
( हरिहर : ) - ' अत्र रणम्' अत्रावसरे भिक्षाचर्यानुष्ठानम् । तद्यथा - 'भव "वैश्यः ' भवत्पूर्वाम् भवच्छन्दः पूर्वो यस्याः सा भवत्पूर्वा तां भिक्षां ब्राह्मणः द्विजोत्तमः भिक्षेत याचेत । तथैव भवच्छन्दो मध्ये यस्याः सा भवन्मध्या तां राजन्यः क्षत्रियः भिक्षेतेत्यनुषङ्गः । तथा अन्ते भवः अन्त्यः भवच्छन्दो यस्याः सा भवदन्त्या तां वैश्यः तृतीयो वर्णः भिक्षां भिक्षेतेत्यनुवर्तते । ‘तिस्रो‘‘मेके ' भिक्षेर्धातोर्द्विकर्मत्वात् द्वितीयं कर्माह - तिस्रः खियो भिक्षां भिक्षेत । कथं भूताः अप्रत्याख्यायिन्यः प्रत्याख्यातुं निराकर्तुं शीलं यासां ताः प्रत्याख्यायिन्यः न प्रत्याख्यायिन्यः अप्रत्याख्यायिन्यः ताः अप्रत्याख्यायिनीः । अत्र द्वितीयार्थे प्रथमा भिक्षेतेति कर्तृप्रत्ययान्तस्याख्यातस्य कर्मकारकापेक्षत्वात् । पद्वादशापरिमिता वा । षट् वा स्त्रियो द्वादश वा अपरिमिता वा असंख्याता वा भिक्षेतेति सर्वत्रानुषङ्गः । एते भिक्षाविकल्पाः आहारपर्यात्यपेक्षया । एके आचार्याः मातरं जननीं प्रथमा भिक्षेतेत्याहु: । अयं च प्रथमाहधर्म इतिभाष्यकारोक्तेः । 'आच‘'त्येके' आचार्याय गुरवे भैक्षं लब्धा भिक्षां निवेदयित्वा निवेद्य इयं भिक्षा मया लब्धेति समर्प्य वाग्यतो मौनी अहः शेषं भिक्षानिवेदनोत्तरतो यावदस्तमयं तिष्टेनोपविशेन्न च शयीत । रागत इत्येके सूत्रकारा वर्णयन्ति । वयं तु अनियमं मन्यामहे । ततश्च विकल्पः । 'अहिठ' "जते ' अहिंसन् अच्छिन्दन् स्वयं भग्ना इत्यर्थः । अरण्यान् न ग्रामान् समिध: पूर्वोक्तलक्षणा आहृत्य आनीय तस्मिन्ननौ यत्र उपनयनाङ्गहोमः कृतस्तस्मिन् पूर्ववत्परिसमूहनादि त्र्यायुपकरणान्तं यावत् आधाय हुत्वा वाचं विसृजते मौनं त्यजति वाग्यपक्षे । 'अधः 'र्जयेत्' अत ऊर्ध्व ब्रह्मचारिणो यमनियमानाह - अधः शयितुं शीलमस्य असावथ.शायी स्यान् । तथा अक्षारं अलवणं चाश्नातीत्येवंशीलोऽक्षारालवणाशी भवेत् । दण्डधारणम् । दण्डस्य स्ववर्णविहितस्य धारणं कुर्यात् । दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । इत्येतदुपलक्षण