________________
कण्डिका]
२२१ द्वितीयकाण्डम् । धेन । भिक्षाचर्या स्थित्यर्था । 'मधु'"जयेत् । मजनं हृददेवतीर्थस्नानं प्रतिपिध्यते । उद्धृतोदकेन न वार्यते । उपर्यासनमासनस्योपरि मसूरिकादि । स्त्रीगमनं स्त्रीणां मध्येऽवस्थानम् । वक्ष्यति हि ब्रह्मचर्यमुपरिष्टात् । अनृतमदत्तादानं चेति प्रसिद्धमेव । 'अष्टा' "रेत् । अस्मिन्पक्षे चतुर्णामपि वेदानामेक एव व्रतादेशः सर्वा वेदाहुतयो हूयन्ते । 'द्वाद'वेदम् । ब्रह्मचर्यचरणम् । अत्र यथास्वं वेदाहुतयः । 'याव"वा वेदस्य वेदयोर्वेदानां वा ब्रह्मचर्यचरणम् । 'वासा 'कानि' ब्रह्मचारिणां भवन्ति । ऐणे"णस्य । ऐणेयं हारिणं चर्म तद्राह्मणस्योत्तरीयं भवति । 'रौर""न्यस्य ' रुरुनाम आरण्यः सत्वविशेषः तदीयं राजन्यस्य भवति । 'आज' 'श्यस्य' उत्तरीयं भवति । 'सर्वे "त्वात् । असति यथाचोदिते चर्मणि सर्वेषां वा गव्यं भवति । कुत एतत् । पुरुपप्रधानत्वात् गव्यस्य चर्मणः, पुरुपप्रधानं हि गव्यं चर्म श्रुतौ पठ्यते । तेऽवच्छाय पुरुपं गन्येतां त्वचमधुरिति । 'मौजी"णस्य ' भवति । 'धनु"न्यस्य ' ज्याशब्देन गुणोऽभिधीयते । 'मौवीं वैश्यस्य ' मुरुरिति तृणविशेषः । 'मुखा"जानाम्। संवन्धिनी रशना भवति । 'पाला' 'दण्डः' भवति । 'वैल्वो "र्वेषाम् । सर्वेषामनियमेन भवन्ति । 'आचा""णुयात् । आचार्येणासीन आहूत आसनादुत्याय प्रतिशृणुयात् । 'शया "सीनः शयानं चेदाहूयते आसीनः प्रतिशृणुयात ' आसी "तिष्ठन् । प्रतिशृणुयात् । 'तिष्ठ''क्रामन् । ' अभिः 'धावन् । अस्यार्थवादोऽयम् ‘स ए'''नातकः' उच्यते । ' समावति । अर्वाक् षोडशवर्षा ब्राह्मणस्य नातीत एवोपनयनस्य कालः । 'आद्वा"न्यस्य' नातीतः कालो भवति । 'आच"श्यस्य ' नातीतः कालो भवति । 'अत'''भवन्ति । अतश्च 'नैना' 'वत् कालव्यतिक्रमे सति यन्नियतेपु विहितं श्रौतेपु अनाम्नातं नैमित्तिकेषु यद्विहितं स्मात तदेव भवति । तच्च प्रतिमहान्याहृति सर्वाभिश्चतुर्थ सर्वप्रायश्चित्तमिति । कालव्यतिक्रमादन्यत्रापि भ्रषे उत्पन्ने एतदेव भवति । नैमित्तिकान्तराविधानात् । 'त्रिपु."यीरन् । संस्कारमिच्छन्त्रात्यस्तोमेनेष्वा आद्रियेत अधीयीत च । 'व्यव"चनात् । ॥५॥
(जयरामः)-अत्रेति । अक्सरे भिक्षाचर्य भिक्षावृत्तिः तस्य चरणमनुष्टानं कर्तव्यमिति शेषः । कथं भवत्पूर्वामिति भवच्छब्दः संबुद्धयर्थः । हे भवन हे भवति वेत्येवमुक्तः पूर्वो यस्यां ताम् ब्राह्मणो मिक्षेत भिक्षा देहीति याचेत । काः या अप्रत्याख्यायिन्यस्ताः तिन इत्यादौ पूर्वत्रापूर्तावुत्तरः पक्षः । एके प्रथमां भिक्षा मातरमेव भिक्षेतेति इच्छन्ति । अयं च प्रथमाहधर्मः । आचार्याय भिक्षानिवेदनं नित्यम् । अहःशेष वाग्यतो मौनी तिष्ठेत आसीत फलातिशयार्थम् । एकीयशब्दाद्विकल्पः । अहिंसन् अभञ्जयन् स्वयंभन्नाः समिध आहृत्य तस्मिन्नुपनयनहोमाधिकरणेऽनौ पूर्ववदाधानं कृत्वा । वाग्विसों वाक्संयमपक्षे । अधाशयनादीनि कार्याणि । तत्र दुण्डधारणं समिदाधानं सर्वदा । अग्निपरिचर्या च सायंप्रातः, उभयकालमग्निं परिचरेदिति श्रवणात् । गुरुशुश्रूषणं च स्वाध्यायानुरोधेन । भिक्षाचर्या च स्थित्यर्था । मध्वादीनि च वर्जयेत् । तत्र मजनं ह्रददेवतीर्थस्नानं प्रतिषिष्यते । नतूद्धृतोदकस्नानं वय॑ते । उपर्यासनं चासनोपर्यासनं मसूरिकादि । स्त्रीणां मध्ये गमनमवस्थानम् । ब्रह्मचर्यस्याग्रे वक्ष्यमाणत्वात् । अनृतमदत्तादानं च प्रसिद्धम् । अष्टाचत्वारिंशत्पक्षे चतुर्णामपि वेदानामेक एव व्रतादेशः । सर्ववेदाहुतिहोमश्च । द्वादश द्वादशेति प्रतिवेदं ब्रह्मचर्यचरणम् । तत्र यथास्वं वेदाहुतयः । यावणं वा वेदस्य वेदयोर्वेदानां ब्रह्मचर्यचरणम् । वासांसि च यथाक्रमं शाणादीनि भवन्ति । ऐणेयम् एण्याश्चर्म । रौरवम् , रुरोश्चित्रमृगस्य चर्म । आजम् अजस्य । गन्यं गोः । सर्वेषां वर्णानामुदिते चर्मण्यसति गव्यं चर्म भवति । कुतः पुरुषप्रधानत्वाद् गन्यस्य चर्मणः । पुरुषप्रधानत्वं चास्य श्रुतिराहतेऽवच्छाय पुरुषं गव्येतां त्वचमदधुरिति । मौजी मुखमयी रशना मेखला । ज्या प्रत्यञ्चा मुरुरिति तृणविशेषः । तन्मयी