________________
२२०
पारस्करगृह्यसूत्रम् ।
[ पश्चमी
ब्राह्मणस्य ॥ १७ ॥ रौरव राजन्यस्य || १८ | आज गव्यं वा वैश्यस्य ॥ १९ ॥ सर्वेषां वा गव्यमसति प्रधानत्वात् ॥ २० ॥ मौञ्जी रशना ब्राह्मणस्य ॥ २१ ॥ धनुर्ज्या राजन्यस्य ॥ २२ ॥ मौर्वी वैश्यस्य ॥२३॥ मुखाभावे कुशाश्मन्तकबल्वजानाम् ॥ २४ ॥ पालाशो ब्राह्मणस्य दण्डः ॥ २५ ॥ बैल्वो राजन्यस्य ॥ २६ ॥ औदुम्बरो वैश्यस्य ॥ २७ ॥ [ केशसंमितो ब्राह्मणस्य, ललाटसंमितः क्षत्रियस्य, प्राणसंमितो वैश्यस्य ] सर्वे वा सर्वेषाम् ॥ २८ ॥ आचार्येणाहूत उत्थाय प्रतिश्रृणुयात् ॥ २९ ॥ शयानं चेदासीन आसीनं चेत्तिष्टस्तिष्ठन्तं चेदभिक्रामन्नभिक्रामन्तं चेदभिधावन् ॥ ३० ॥ स एवं वर्तमनोऽमुत्राद्य वसत्यमुत्राद्य वसतीति तस्य स्नातकस्य कीर्तिर्भवति ॥ ३१ ॥ त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति ॥ ३२ ॥ समाप्य वेदमसमाप्य व्रतं यः समावर्तते स विद्यास्नातकः ॥ ३३ ॥ समाप्य व्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः ॥ ३४ ॥ उभय समाप्य यः समावर्तते स विद्याव्रतस्नातक इति ॥ ३५ ॥ आ षोडशाद्वर्षा ब्राह्मणस्ये नातीतः कालो भवति ॥ ३६ ॥ आ द्वाविशाद्राजन्यस्य ॥ ३७ ॥ आ चतुर्विशाद्वैश्यस्य ॥ ३८ ॥ अत ऊर्ध्वं पतितसावित्रीका भवन्ति ॥ ३९ ॥ नैनानुपनयेयुर्नाध्यापयेर्युन याजयेयुर्न चैभिर्व्यवहरेयुः ॥ ४० ॥ कालातिक्रमे नियतवत् ॥ ४१ ॥ त्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनं च ॥ ४२ ॥ तेषा ं संस्कारेप्सुर्वात्यस्तोमेनेष्टा काममधीयीरन्व्यवहार्यां भवन्तीति वचनात् ॥ ४३ ॥ ॥ ५ ॥ ॥ ॥
( कर्कः ) - ' अत्र 'रणम् ' कर्तव्यमिति सूत्रोपः । अत्रेतिशब्दोऽवसरार्थः । 'भव"वैश्यः' ' तिस्रो "यिन्यः ' भिक्षेत । यत्र प्रत्याख्यानं न क्रियते । 'पट्ता वेति' विकल्पः । 'मात'' 'मेके' भिक्षन्ते । अयं च प्रथमाहर्धर्मः । 'आचा "त्येके' आचार्याय भिक्षानिवेदनं कृत्वा वाग्यतोऽहः शेपमासीत नवेति विकल्प: । 'अहिठ' 'जते' अहिंसन्निति स्वयं भग्नाः समिधः तस्मिन्नन्नौ पूर्ववदाधानं कृत्वा वाग्विसर्ग करोति यदि वाग्यमो गृहीतः । 'अब... चर्या ' एतानि कर्तव्यानि । दण्डधारणं सर्वदा । अग्निपरिचरणं सायं प्रातः । उभयकालमग्निं परिचरेदिति स्मृत्यन्तरात् । गुरुशुश्रूषा स्वाध्यायानुरो
१ स्यानतीत इत्यपि पाठः ।
·