________________
२१८
पारस्करगृह्यसूत्रम् ।
[ चतुर्थी
अङ्गालम्भनत्र्यायुपकरणयोः सूत्रकारान्तरप्रदर्शितौ मन्त्रौ ग्राह्यौ । तद्यथा - अङ्गान्यालभ्य जपत्यङ्गानि च म आप्यायन्तां वाक् प्राणश्चक्षुः श्रोत्रं यशोवलमिति । त्र्यायुपाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणेसे हृदि च त्र्यायुपमिति प्रतिमन्त्रम् । तत्र वाक् च म आप्यायतामिति क्रियाविपरिणामं कुर्यात् । अथाभिवादने प्रकारः । तत्र याज्ञवल्क्यः -- ततोऽभिवादयेद्दृद्धानसा वह मिति ब्रुवन् । ततोऽग्निकार्यादनन्तरमित्यर्थः । ब्रह्मपुराणं - - - उत्थाय मातापितरौ पूर्वमेवाभिवादयेत् । आचार्यश्च ततो नित्यमभिवाद्यो विजानता । मनुः लौकिकं वैदिक चापि तथाऽऽध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ अभिवादात्परं विप्रो ज्यायांसमभिवादयेत् । असौ नामाSहमस्मीति स्वं नाम परिकीर्तयेत् ॥ विप्रति द्विजोपलक्षणम् । आपस्तम्बः - स्वदक्षिणं वा श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयेत् । चरः समं राजन्यो मध्यसमं वैश्यो नीचैः शृङ्गः प्राञ्जलिः । मनुःभोगब्द कीर्तयेदन्ते खस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावो हि भोशन्द ऋषिभिः स्मृतः ॥ आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ अकारश्चास्य नानोऽन्त इत्यस्यायमर्थः --- अस्याभिवादकस्य नाम्नोऽन्ते योऽयमकारः अकार इति स्वरमात्रोपलक्षणम् । सर्वेषां नानामकारान्तत्वनियमाभावात् । स एवान्त्यस्वरः पूर्वाक्षरः पूर्वाणि नामगतान्यक्षराणि यस्य स तथोक्तः । एवंविधः प्लुतो वाच्यो न पुनरन्य एवाकारो नानोऽन्ते वाच्य इति । तथाच वसिष्ठः --- आमन्त्रिते स्वरोन्त्योऽस्य प्लुक्त इति । मामन्त्रिते कर्तव्ये अभिवाद
नानोऽन्ते यः स्वरः स प्लवते । त्रिमात्रो भवतीत्यर्थः । ततश्चाभिवादनप्रत्यभिवादनयोरेवं प्रयोगो भवति । अभिवादये चैत्रनामाहमस्मि भो इति । आयुष्मान् भव सौम्य विष्णुशर्मा३न् इति । क्षत्रियवैश्ययोस्तु वर्मगुप्तशब्दप्रयोग इति मदनपारिजाते । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । आयुष्कामो न गृहीयाज्ज्येष्ठपुत्रकलत्रयोरित्यादि निपेधस्तु अभिवादनस्थलव्यतिरिक्तविपय इति विज्ञेयम् । अभिवादनं च हस्तद्वयेन कार्यम् । अन्यथाकरणे विष्णुना दोपसंकीर्तनात् । जन्मप्रभृति यत्किचिचेतसा धर्ममाचरेत् । सर्वं तन्निष्फलं याति एकहस्ताभिवादनात् ॥ एतदपि वि• द्विपयम् । यतः स एवाह ——अजाकर्णेन विदुषो मूर्खाणामेकपाणिनेति । अजाकर्णेन श्रोत्रसमौ करौ कृत्वा पुनः संपुटितेन करद्वयेनेत्यर्थः । अजाकर्णी संपुटितौ यथा तथैव संपुटितं करद्वयमपीत्यजाकणौं । मनु: - यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ यमः -- अभिवादे तु यो विप्र माशिपं न प्रयच्छति । श्मशाने जायते वृक्ष. कङ्कत्रोपसेवितः ॥ शातातप:- पाखण्डं पतितं व्रात्यं महापातकिनं शटम् । सोपानत्कं कृतघ्नं च नाभिवादेत्कदाश्चन ॥ धावन्तं च प्रमत्तं च मूत्रोत्सर्गकृतं तथा । भुञ्जानमाचमनार्हं च नास्तिकं नाभिवादयेत् ॥ वमन्तं जृम्भमाणं च कुर्वन्तं दन्तधावनम् । अभ्यक्तशिरसं चैव स्नान्तं नैवाभिवादयेत् ॥ वृहस्पतिः --- जपयज्ञगणस्थं च समित्पुष्पकुशानलान् । उदपात्रार्धमै शान्नहस्तं तं नाभिवादयेत् ॥ उदक्या सूतिकां नारी भर्तृघ्नीं ब्रह्मघातिनीम् । अभिवाद्य द्विजो मोहादहोरात्रेण शुध्यति ॥ जमदग्निः - देवताप्रतिमां दृष्ट्वा तं दृष्ट्वा त्रिदण्डिनम् । नमस्कारं न कुर्याच्चेत्प्रायश्चित्ती भवेन्नरः ॥ मनुःअभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुः प्रज्ञा यशो बलम् ॥ एतचाभिवादनमधिकवयसामेव कार्यम् । तथाच मनुः - ज्यायांसमभिवादयेदिति । स्मृत्यर्थसारेगुरवो माता स्तन्यधात्री च पिता पितामहादयो मातामहचान्नदाता भयन्त्राताऽऽचार्यश्चोपनेता च । मन्त्रविद्योपदेष्टा च तेषां पत्न्यश्चोपसंग्राह्या । समावृत्तेन च । बाले समवयस्के चाध्यापके गुरुवचरेत् । मातुलाच पितृव्याश्च श्वशुराश्च यवीयांसोऽपि प्रत्युत्थायाभिवाद्याः । उपाध्याय ऋत्विजो ज्येष्ठा भ्रातरश्च सर्वेषां पत्न्यश्वव । मातृष्वसा च सवर्णा भ्रातृभार्या च नित्यमभि