________________
कण्डिका द्वितीयकाण्डम् ।
२१७ तसिद्धेः । अत्रशब्दोऽग्निपरो द्रष्टव्यः । समिदाधानस्येतिकर्तव्यतामाह 'पाणिनाग्नि""समिति' ब्रह्मचारी पाणिना दक्षिणहस्तेनाग्निं प्रकृतमुपनयनाङ्गहोमाधिकरणं परिसमूहति शुष्कगोमयखण्डादीन्धनप्रक्षेपेण संधुक्षयति, अग्नेसुश्रवःसुश्रवसंमाकुर्वित्यादिभिः पञ्चमन्त्रैः । कारिकायां विशेप:प्रतिमन्त्रं त्रिभिः काष्ठैरग्ने सुश्रव आदिभिः । अग्ने सुअव इत्येकं यथा त्वं स्थाद् द्वितीयकम् ।। यथात्वमग्ने देवानां मन्त्रेणापि तृतीयकम् । कृत्वा पर्युक्षणं वहेरुत्थाय समिदाहुतिरिति ।। पाणिनेत्येकवचनमेकत्वनियमार्थम् । उमाभ्यामपि दृश्यते संधुक्षणम् । मन्त्रार्थः-हे अने हे सुश्रवः शोभनकीर्ते मा मां सुश्रवसं शोभनकीर्ति कुरु । किञ्च हेअग्ने सुश्रवःसौश्रवसं सुअवाश्च सौअवसश्च तम् । तत्र सुअवाः स्वयम् सुश्रवा गुरुस्तस्यायं सौअवसः ममाचार्यमपि सुअवसं कृत्वा तदीयत्वेन मां सौश्रवसं कुवित्यर्थः । किंच हे अग्ने यथा वं देवानामिन्द्रादीनां मध्ये यस्य च क्रतोर्निधिं हविर्द्रव्यम् पासि रक्षसि । एवमहं मनुष्याणां मध्ये वेदस्य श्रुतेनिधिरधिकरणम् भूयासं भवेयम् । 'प्रदक्षि"स्वाहेति' ततो ब्रह्मचारी प्रदक्षिणं यथा स्यात्तथा सन्धुक्षितमग्निं दक्षिणहस्तगृहीतेनोदकेन परिपिच्योत्थाय प्राङ्मुखस्तिटन् समिधमादधाति अग्नौ प्रक्षिपति अग्नये समिधमित्यादि स्वाहाकारान्तेन मन्त्रेण । समिध्यते दीप्यते अग्निरनयेति समित् । तल्लक्षणं चास्माभिः समिधोऽभ्याधाय पर्युक्ष्य जुहुयादिति सूत्रार्थे उक्तम् । ननु तिष्ठन्समिधः सर्वत्रेति श्रौतसूत्रे उक्तत्वादुत्थायेति ग्रहणं व्यर्थम् । सत्यम्, नायं होमः समिदाधानमित्येतत्सूचनार्थमुत्थायेति ग्रहणमित्यदोषः । अतोऽत्र त्यागाभावः । यद्वा इहोत्यायेति ग्रहणमन्यत्र स्माते परिसङ्ख्यार्थमिति कारिकायाम् । प्रयोगरत्ने तु त्यागो लिखितः । मन्त्रार्थ:-हे देवाः इमा समिधमग्नये अग्न्यर्थमाहार्षम् आहृतवानस्मि । किंभूताय वृहते महते । जातान् जातान् वेत्ति इति जातवेदास्तस्मै । यथा येन प्रकारेण समिधा अनया दीप्यमानया त्वं हे अग्ने समिध्यसे दीप्यसे एवमहमायुषा जीवनेन मेधयाऽतीतादिधारणवत्या बुद्ध्या वर्चसा तेजसा प्रजया पुत्रादिमिः पशुभिः गवादिभिः ब्रह्मवर्चसेन तेजसा कृताध्ययनसंपत्त्या एतैरहं समिन्धे समृद्धो भवामि । आचार्य विषयं फलमप्याशंसते। जीवपुत्रो दीर्घायुरपत्यो ममाचार्यों भवतु जीवन्तः पुत्रा यस्य । मेधावी अहमसानि भवामि । अनिराकरिष्णुर्गुरूपदिष्टधर्माद्यविस्मरणशीलः । यशस्वी तेजस्वी ब्रह्मवर्चसी अन्नादः अन्नमत्तीत्यन्नादः भूयासम् भवेयम् । स्वाहा सुहुतमस्तु । ' एवं 'याम् ' एवमनेनैव मन्त्रेण द्वितीयां समिधमादधाति । तथैवानेन मन्त्रेण तृतीयां समिधमाद्धाति । तिस्रः समिध आदधात्यग्नये समिधमाहार्पमित्युच्यमाने मन्त्रान्ते युगपत्तिमृणामाधानं प्राप्नोति तन्निवृत्त्यर्थमेवं द्वितीयां तथा तृतीयामिति सूत्रणां ।' एपात इति वा । अथवा एपा ते अग्ने समित्तयेति मन्त्रेण समिदाधानम् अत्रापि मन्त्रावृत्तिः । 'समुच्चयो वा' अथवा अग्नये समिधम् , एषात इति च द्वयोमन्त्रयोः समुच्चय ऐक्यं समिदाधाने स्यात् । अत्रापि प्रतिसमिदाधान मन्त्रयोरावृत्तिः । 'पूर्व "पर्युक्षणे । परिसमूहनं अग्ने सुअव इत्यादिना सन्धुक्षणम् । पर्युक्षणं अग्नेः सर्वतो अलासेकः । परिसमूहनपर्युक्षणे पूर्ववत्प्राग्वदग्नेः कर्तव्ये। 'पाणी "जाविति ' पर्युक्षणानन्तरं ब्रह्मचारी पाणी उभौ हस्तौ प्रतप्य तूष्णीमग्नौ तापयित्वा तनूपा अग्नेऽसीति सप्तभिमन्त्रवाक्यमुखं विमृष्टे पाणिभ्यां मार्जयति । वाक्यभेदाच प्रतिवाक्यं पाण्योः प्रतपनं मुखविमार्जनं च । तनूपा इत्येतस्य स्वशाखीयत्वात्प्रतीक्रग्रहणे प्राप्ते मन्त्रवाक्यचतुष्टयस्योपयोगात्सर्वपाठः । मेघां मे देवः सविता मेघां मे देवीसरस्वतीत्यनयोर्मन्त्रयोराधावित्यध्याहारः साकाङ्क्षत्वात् । मन्त्रार्थ:-तनूपा अग्नेऽसीत्यादयः स्पष्टाः । मेधामित्यस्यार्थः-देवो द्युतिमान् सविता सूर्यो मे मा मेघां धारणावतीं बुद्धिं तथा देवी दीप्यमाना सरस्वती आधातु । तथा अश्विनौ देवौ मे मां मेधां आपत्ता संपादयेतां पुष्करस्रजौ पद्ममालाधारिणौ । अत्राङ्गालम्भनन्यायुपकरणाभिवादनानि गृह्यकारानुक्तान्यायाचारतोऽनुष्ठेयानि.। तत्राभिवादनं गोत्रनामोच्चारपूर्वकं पादोपसंग्रहः ।
२८