________________
२१६ पारस्करगृह्यसूत्रम्
[ चतुर्थी विकल्पमाह-एपाते अग्ने समिदित्यादि आचप्यासिपीमहीत्यन्तेन वा मन्त्रेण । अथवा अग्नये समिधमित्येषात इतिद्वयोमन्त्रयोः समिदाधाने समुच्चयः ऐक्यम् । ततश्च मन्त्रद्वयान्ते समित्प्रक्षेपः । इति त्रयो मन्त्रविकल्पाः । ' पूर्वव"क्षणे । पूर्ववत् अग्ने सुश्रव इत्यादिभिः पञ्चभिर्मन्त्रैः परिसमूहनं पर्युक्षणमपि पूर्ववत्कुर्यात् । 'पाणी'""विति' पाणी हस्तौ प्रतप्य तूष्णीमन्नौ तापयित्वा तनूपा अग्नेसीत्यादिभिः सप्तभिर्मन्त्रैः प्रतिमन्त्रं पाणिभ्यां मुखं विमृष्टे । ललाटादिचिबुकान्तं प्रोञ्छति । तत्र मेधां मे देवः सविता मेघां देवी सरस्वती अनयोरादधात्वित्यध्याहारः । अनावलमिति । अडानि च म इत्यनेन मन्त्रेण शिरःप्रभृतीनि पादान्तानि अमान्यालभते, एवं वाक् इत्यनेन मुखं प्राण इत्यनेन नासिके युगपत् चक्षुरित्यनेन चक्षुपी युगपत् श्रोत्रमित्यनेन अवणे मन्त्रावृत्त्या यशोबलमित्यस्य पाठमात्रम् । 'व्यायु मन्त्रम् । तिलकानि करोति । व्यायुपमित्येतेश्चतुर्मिमन्त्रपादैः अनामिकागृहीतेन भस्मना ललाटे ग्रीवायां दक्षिणेऽसे हृदये प्रतिपादं व्यायुपाणि कुरुते । अत्र च्यायुषकरणं सूत्रकारानुक्तमपि प्रसिद्धत्वात् शिष्टपरम्पराचरितत्वास्क्रियते । ततो ब्रह्मचारी संध्यामुपास्याग्निकार्य कृत्वा गुरुपूपसंग्रहणं वृद्धतरेष्वभिवादनम् वृद्धेपु नमस्कारं कुर्यात्पर्यायेण । अत्र स्मृत्यन्तरोक्तमभिवादनं लिख्यते-ततोऽभिवादयेद्धानसावहमिति ब्रुवन् । इतियाज्ञवल्क्यादिस्मृतिप्रणीतस्याभिवादनप्रयोगो यथा उपसंग्रहणं नाम अमुकगोत्रोऽमुकेत्येतावत्प्रवरः अमुकशर्माऽई भो ३ श्रीहरिहरशर्मन् त्वामभिवादये इत्युक्त्वा कौँ स्पृष्ट्वा दक्षिणोत्तरपाणिभ्यां दक्षिणपाणिना गुरोदक्षिणं पादं सव्येन सव्यं गृहीत्वा शिरोऽवनमनम्। अभिवादने पादग्रहणं नास्ति पादस्पर्शनं कार्यम् आयुष्मान भव सौम्यामुक [ शर्मा३न् ] इति प्लुतान्तमुक्त्वा अमुक शर्मन्निति प्रत्यभिवाद: कार्यः । आयुष्मान् भव सौम्येति प्रत्यभिवादः । अत्र गुरवो माता स्तन्यदात्री च पिता पितामहः प्रपितामहो मातामहोऽन्नदाता भयत्राता आचार्यश्चोपनेता च मन्त्रविद्योपदेष्टा च तेपा पल्यश्वोपसंग्राह्याः एतेन समावृत्तेन च ॥ वाले समवयस्के वाऽध्यापके गुरुवञ्चरेत् । मातुलाश्च पितृव्याश्च श्वशुराश्च यवीयांसोऽपि प्रत्युत्थायाभिवाद्याः उपाध्याया ऋत्विजो ज्येष्टभ्रातरश्च सर्वेपां पल्यश्च एवं मातृष्वसा सवर्णा पितृष्वसा च सवर्णा भ्रातृभार्या च नित्यमभिवाद्याः । विप्रोष्य तूपसंग्राह्या ज्ञातिसंवन्धियोषितः । विप्रोष्य विप्रं कुशलं पृच्छेन्नृपमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमागेग्यमेव च ॥ न वाच्यो दीक्षितो नाम्ना यवीयानपि सर्वथा । पूज्यैस्तमभिभाषेत भोभवन् कर्मनामभिः ॥ परपत्नीमसम्वन्धां भगिनी चेति भापयेत् । त्रिवर्षपूर्वः श्रोत्रियोऽभिवाद्यः । अत्रिवः संबन्धिनग्ध स्वल्पेनापि स्वयोनिजः । अन्ये च ज्ञानवृद्धाः सदाचाराश्वाभिवाद्याः । उदक्यां सूतकां नारी भर्तृन्नी गर्भपातिनीम् । पापण्डं पतितं ब्रात्यं महापातकिनं शठम्। नास्तिकं कितवं स्तेनं कृतनं नाभिवादयेत् ॥ मत्तं प्रमत्तमुन्मत्तं धावन्तमशुचिं नरम् । वमन्तं जृम्भमाणं च कुर्वन्तं दन्तधावनम् ॥ अभ्यक्तं शिरसि स्नानं कुर्वन्तं नाभिवादयेत् । इति शातातपः । बृहस्पतिस्तु-जपयज्ञजलार्थ च समित्युप्यकुशानलान् । उदपात्राय॑भक्षान्नं वहन्तं नाभिवादयेत् । अभिवाद्य द्विजश्चैतानहोरात्रेण शुष्यति । क्षत्रियवैश्याभिवादने विप्रस्यैवम् । शूद्राभिवादने त्रिरात्रम् । कायं तु रजकादिपु ' चाण्डालादिपु चान्द्रं स्यादिति संग्रहकृत्स्मृतम् । जमदग्निः-देवताप्रतिमां दृष्ट्वा यतिं चैव त्रिदण्डिनम् । नमस्कारं न कुर्याचेदुपवासेन शुध्यति ॥ सर्वे वाऽपि नमस्कार्याः सर्वावस्थासु सर्वदा । अभिवादे नमस्कारे तया प्रत्यभिवादने ॥ आशीर्वाच्या नमस्कायवयस्यस्तु पुनर्नमेत् । स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ता. ॥ ॥३॥ ॥*॥ ॥*॥ ॥*1
(गदाधरः)-उपनयनाङ्गभूतं समिदाधानमाह ' अत्र समिदाधानम्.' अत्रास्मिन् प्रकृतेऽनौ समिदाधानं समिधा तिरमृणां प्रक्षेपो ब्रह्मचारिकर्तृको भवति । अनावसरे इति केचित् तन्न पाठादेव