________________
२१५ फण्डिका]
द्वितीयकाण्डम् । सौश्रवसः ममाचार्यमपि सुश्रवसं कृत्वा तदीयत्वेन मां सौअवसं कुर्वित्यर्थः । किञ्च हे अग्ने यथा त्वं दीन्यन्ति प्रकाशयन्त इति देवा अङ्गानि इन्द्रादयो वा यज्ञस्य चाहिनो वेदस्य विष्णोर्वा निधिपाः निधीनां मन्त्राणामधिष्ठानमसि । एवमहं वेदस्य सागस्य मनुष्याणां च तदध्येतृणां निधिपाः वेदस्य निधिरधिकरणम् मनुष्याणां पालकश्च भूयासमिति । प्रदक्षिणं पर्युक्ष्य समिधमादधाति अग्नौ प्रक्षिपति। 'अग्नये "स्वाहेत्यन्तेन' मन्त्रेण । अस्यार्थः-तत्र प्रजापतिराकृतिः समित् तदाधाने हे देवाः इमां समिधमग्नये अग्न्यर्थम् अहार्षम् आहृतवानस्मि । किंभूताय । बृहते परिपूर्णाय जातवेदसे जातं वेदो धनं यस्मात्तस्मै समिन्धे दीप्ये । अनिराकरिष्णुः गुरूपदिष्टधर्माद्यविस्मरणशीलः ब्रह्मवर्चसी याजनादितेजोयुक्तः । शिष्टं स्पष्टम् । एवं द्वितीयां समिधमादधाति तथा तृतीयाम् । 'एपा' 'वा' समिदाधाने मन्त्रः । समुच्चयो वा उभयोः । परिसमूहनपर्युक्षणे प्राग्वत् अग्नेः कर्तव्ये । पाणी अग्नौ प्रतप्य ताभ्यां स्वं मुखं विमृष्टे मार्जयति । तनूपाः प्रभृतिभिः सप्तभिर्मन्त्रवाक्यैर्वाक्यभेदात् प्रतिवाक्यम् पाण्योः प्रतपनं मुखविमार्जनं च । तनूपा इत्येतस्य स्वशाखीयत्वात्प्रतीकग्रहणे प्राप्ते मन्त्रवाक्यचतुष्टयस्योपयोगात्सर्वपाठः तत्र तनूपा अग्नेऽसीत्यादयः स्पष्टाः तत्र प्रजापतिर्यजुः अग्निराहवनीयोपस्थाने० । मेधामित्यस्यार्थः-तत्र प्रजापतिरनुष्टुप् लिङ्गोक्ता मुखविमार्जने० । देवो द्युतिमान् सविता सूर्यों में मह्यं मेधाम् धारणवतीं बुद्धिम् तथा देवी दीप्यमाना सरस्वती मेधां साकासत्वादुभयोरादधात्वित्यध्याहारः । तथा देवौ कान्तौ अश्विनौ दसौ मे मह्यम् मेधां आधत्ताम् संपादयताम् । एतानि सप्तवाक्यानि । अनाङ्गालम्भनव्यायुषकरणाभिवादनानि ग्रन्थकारानुक्तान्यप्याचारतोऽनुष्टे. यानि अविरोधात् । तत्राभिवादनं गोत्रनामोच्चारपूर्वकम् पादोपसंग्रहोऽग्न्यादीनाम् अड्डालम्भत्र्यायुषयोमन्त्रौ सूत्रकारान्तरप्रदर्शितौ ग्राह्यौ । तद्यथा अङ्गान्यालभ्य जपत्यङ्गानि च म आग्यायन्ताम् वाक् प्राणश्चक्षुः श्रोत्रं यशोवलमिति व्यायुषाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणेऽसे हृदि च व्यायुषमिति प्रतिमन्त्रम् । तत्र वाकू च म आप्यायतामिति क्रियाविपरिणामं कुर्यात् । अस्यार्थः सुगमः । तत्र प्रजापतिर्यजुलिङ्गोक्ता अड्डाप्यायने० । व्यायुपमिति नारायण उष्णिक् लिड्डोक्ता भस्मतिलके०॥ ॥४॥ ॥*॥ .
(हरिहरः)- अत्र समिदाधानम् । अत्र सावित्रीप्रदानोत्तरकाले समिधामाधान प्रक्षेपः ब्रह्मचारिणो भवति । अत्राग्नाविति भाष्यकारः । अत्रावसरस्य पाठादेवसिद्धेः । 'पाणि "हति' पाणिना दक्षिणहस्तेन अग्नि प्रकृतहोमाधिकरणं परिसमूहति सन्धुक्षयति । इन्धनप्रक्षेपेण वक्ष्यमाणैः पञ्चभिर्मत्रैः यथा । ' अग्ने ''भूयासम् । केचित्परिसमूहने त्रीन्मत्रान् मन्यन्ते । तद्यथा अग्ने सुश्रव इत्यारभ्य सुश्रवसं माकुरु इत्येकम् । यथात्वमग्ने इत्यारभ्य सौश्रवसं कुरु इत्येवं द्वितीयम् । यथात्वममे देवानामित्यादि भूयासमित्यन्तं तृतीयमिति । 'प्रद' "मिति । ततः प्रदक्षिणं यथाभवति तथाऽग्नि पर्युक्ष्य दक्षिणहस्तगृहीतेनोदकेन परिषिच्य उत्थाय ऊर्वीभूय प्राड्मुखस्तिष्ठन् समिधं समिध्यते दीप्यते अग्निरनयेति समित् तां समिधं आदधाति प्रक्षिपति । समिल्लक्षणं छन्दोगपरिशिष्टे-नाङ्गुष्ठादधिका कार्या समित्स्थूलतया कचित् ।न वियुक्ता त्वचा चैव न सकीटा न पाटिता ।। प्रादेशान्नाधिका न्यूना न तथा स्याद्विशाखिका । न सपर्णा न निर्वीर्या होमेपु च विमानता ।। ब्रह्मपुराणे-पलाशाश्वत्थन्यग्रोधप्लक्षवैकङ्कतोद्भवाः। अश्वत्थोदुम्बरो विल्वश्चन्दनः सरलस्तथा ॥ शालश्च देवदारुश्च खादिरश्चेति याज्ञिकाः । मरीचिः-विशीर्णा विदला ह्रस्वा वक्राः ससुषिराः कृशाः । दीर्घाः स्थूला धुणैर्जुष्टाः कर्मसिद्धिविनाशिकाः ॥ अस्य पूर्वश्लोक:-प्रागग्राः समिधो देयास्ताश्च काम्येष्वपादिताः । काम्येषु च सवल्कार्दा विपरीता जिघांसत इति । केन मन्त्रेण । । अग्नये 'वा' एवमनेनैव मन्त्रेण द्वितीयां समिधमादधाति तथा तेनैव मन्त्रेण तृतीयाम् । मन्त्र