________________
२१४ पारस्करगृह्यसूत्रम्।
[चतुर्थी सुश्रवसं मा कुरु यथा त्वममे सुश्रवः सुश्रवा अस्येवं मा सुश्रवःसौश्रवसं कुरु यथा त्वमग्ने देवानां यज्ञस्य निधिपा अस्येवमहं मनुष्याणां वेदस्य निधिपो भूयासमिति ॥ २॥ प्रदक्षिणमग्निं पर्युक्ष्योत्तिष्ठन्त्समिधमादधाति अग्नये समिधमहार्षे बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन समिन्धे जीवपुत्रो ममाचार्यों मेधाव्यहमसान्यनिराकारिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्चस्यन्नादो भूयासस्वाहेति ॥ ३ ॥ एवं द्वितीयां तथा तृतीयाम् ॥ ४ ॥ एषात इति वा समुच्चयो वा ॥ ५॥ पूर्ववत्परिसमूहनपर्युक्षणे ॥ ६ ॥ पाणी प्रतप्य मुख विमृष्टे तनूपा अमेऽसि तन्वं मे पाह्यायुर्दा अग्नेऽस्यायुर्मे देहि व्वक़दा अग्नेऽसि व्वर्गों मे देहि । अग्ने यन्मे तन्वा ऊनं तन्म
आपण ॥ ७ ॥ मेधां मे देवः सविता आदधातु मेधां मे देवी सरस्वती आदधातु मेधामश्विनौ देवावाधत्तां पुष्करस्रजाविति ॥ ८ ॥ ४ ॥ (अङ्गान्यालभ्य जपत्यङ्गानि च म आप्यायन्तां वाक्प्राणश्चक्षुः श्रोत्रंयशोबलमिति व्यायुषाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणेसे हृदि च त्र्यायुषमिति प्रतिमन्त्रम् )॥ ॥४॥
(कर्कः)-'अत्र''नम् ' अत्रावसर इति केचित् तन्न पाठादेव तत्प्राप्तः । तेनात्रशब्दोऽग्निपरो द्रष्टव्यः । 'पाणिना''असीति' एवमादिभिर्मन्त्रैः प्रतिमन्त्रं परिसमूहनं च संधुक्षणम् । पाणिनेत्येकवचनमेकत्वनियमार्थम् । उभाभ्यामपि संधुक्षणप्रसिद्धिरस्ति । 'प्रदक्षि' 'धाति । अग्निं पर्युक्ष्य तिष्ठन् समिधमादधाति । 'अग्नये "मिति' स्वाहाकारान्तेन । ‘एवं तृतीयां' समिधमादधाति । एषात इति वा' मन्त्रेण समिदाधानम् । समुच्चयो वा द्वयोरपि मन्त्रयोः । 'पूर्वव "क्षणे ' अग्नेः कर्तव्ये । 'पाणी..ऽसीति' वाक्यभेदाच प्रतिवाक्यं पाणी प्रतप्य मुखविमार्जनम् । मेधां मे देवः सविता मेघां मे देवी सरस्वती इत्यनयोरादधात्वित्यध्याहारः साकावत्वात् । अत्र प्रसिद्ध्या व्यायुपकरणानन्तरं गोत्रनामपूर्वकं वैश्वानरादीनामभिवादनम् । व्यायुपकरणमनुक्तमपि सूत्रकारेण ॥ ४ ॥ ॥*॥ ॥*॥ ॥ॐ॥
(जयरामः )-'अत्र 'धानम् अत्रेत्यग्नावेव नत्ववसरे पाठादेव तत्प्राप्तेः। तत्समिदाधानं कथं कर्तव्यमित्यपेक्षायामाह-पाणिनेति । तत्रैकवचनमेकत्वनियमार्थम् । उभाभ्यामपिदृश्यते सन्धुक्षणम् । तच समूहनशब्देनाभिधीयते । तत्केन मन्त्रेण भवतीति मन्त्रो वक्ष्यते । अग्ने सुश्रव इत्यादिभिः पञ्चमन्त्रैः। अथ मन्त्रार्थः-तत्र प्रजापतिर्यजुः अग्निः तत्समिन्धने० । हे अग्ने हे सुश्रवः शोभनकी मा मां सुअवसं सुकीर्ति कुरु। किञ्चहे अग्ने सुश्रवः यथा येन गुणेन त्वं सुश्रवा असि । एवं गुणाधानेन मा मां सुश्रवःसौश्रवसम् सुश्रवाश्चासौ सौअवसश्च तम् । तत्र सुश्रवाः वटुः स्वयम् । सुश्रवा गुरुस्तस्यायं