________________
कण्डका ]
द्वितीयकाण्डम् |
पश्चिमानने । विन्यसेन्मूर्ध्नि याकारं सर्वव्यापिनमीश्वरम् । तथा पदन्यासः --- - शिरोभ्रूमध्यनयनवक्रकठेषु वै क्रमात् । हृन्नाभिगुह्यजानूनां पादयोश्च क्रमान्न्यसेत् । त्रिकेणैव जपः कार्यों जपयज्ञप्रसिद्धये । प्रणवव्याहृतियुतां स्वाहान्तां होमकर्मणि । त्रिको नाम प्रणवो व्याहृतयस्तिस्रो गायत्री चेति । एवकारस्तु प्रकारान्तरनिषेधाय । मथ जपसंख्या - ब्रह्मचारी गृहस्थश्च शतमष्टोत्तरं जपेत् । वानप्रस्थो यतिश्चैव द्विसहस्राधिकं जपेत् । जपानन्तरं विश्वतश्चक्षुरिति विश्वकर्मा भौवन ऋपिः विश्वकर्मा देवता उपस्थाने विनियोगः । विश्वतश्चक्षुरित्युपस्थानं ततः प्रदक्षिणा । देवागातुविद इति मनसस्पतितो विराद गायत्रीविसर्जने । देवागातु० वातेधाः । गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि नहि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परो रजसे सावदों३ विसर्जनम् । अनेन जपेन रुद्ररूपी सूर्य: प्रीयतामित्युक्त्वा भूर्भुवः स्वरिति हस्तगृहीतमुदकं क्षिपेत् । संध्याप्रार्थनं --- यदक्षरपरिभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देवि क ( श्य) पिप्रिय (नि) वासिनि । ततः संध्या विसर्जनम् — उत्तरे शिखरे जाता भूम्यां पर्वतवासिनि । ब्रह्मणा समनुज्ञाता गच्छ देवि यथासुखमित्युदकप्रक्षेपः । इति मध्याह्रसंध्या ॥ ॥ अथ सायंप्रातः संध्ययोर्विशेषः - उपात्तदुरितक्ष्यार्थं ब्रह्मावास्यै सायंसंध्योपासन महं करिष्ये इति संकल्पः। वृद्धां सरस्वतीं कृष्णां पीतवस्त्रां चतुर्भुजाम् । शङ्खचक्रगदाशाङ्खपद्महस्तां गरुडवाहिनीम् । वदर्याश्रमवासां तां वनमालाविभूषिताम् । वैष्णवी त्र्यक्षरां शांतां देवीमावाहयाम्यहम् । प्रातः संध्या तु गायत्री सावित्री मध्यमा स्मृता । या भवेत्पश्चिमा संध्या सा च देवी सरस्वती । आगच्छ वरदे देवि त्र्यक्षरे विष्णुवादिनि । सरस्वति छन्दसां मातर्विष्णुयोने नमोऽस्तु ते । ततः प्राणायामादि | अग्निश्वमेति नारायण ऋषिः अग्निर्देवता प्रकृति छंदः आचमने विनियोगः | अग्निश्व मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्तां यदहा पापमकार्ष मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना, अहस्तदवलुम्पतु यत्किंच दुरितं मयि इदमहं माममृतयोनौ सत्ये ज्योतिपि जुहोमि स्वाहा । ततो द्विराचमनादि । इस मे वरुणेति चतसृभिरुपस्थानम् । देवलः - मित्रस्य चर्पणी तिस्रो वसवस्त्वेति चोदये । इमंमेति चतुष्केण सायं कुर्यादुपस्थितिः । अथवा माध्याह्निकमेवोपस्थानम् । व्यासः --- संध्यात्रयेऽप्येकमेव उपस्थानं प्रचक्षते । अथोद्वयमथोदुत्यं चित्रं तचक्षुरित्यपि । तिष्ठेद्दिवाकरं प्रातः सायं मध्याह्न एव च । केचित्तद्वयमित्याद्युपस्थानं सायंप्रातः संध्यायोरु कोपस्थानानन्तरं भवतीत्याहुः । सायंसंध्याङ्गभूतेन गायत्र्या जपेन च । यथासंख्येन जाप्येन विष्णुमें प्रीयतामिति । विशेषञ्च संकल्पावाहनाचमनोपस्थान निवेदनेषु । इति सायं संध्या || || प्रात: संध्यायां तु विशेष:--- उपात्तदुरितक्षयार्थं ब्रह्मावास्यै प्रातः संध्योपासनमहं करिष्ये । सूर्यश्वमेति नारायण ऋषिः सूर्यो देवता अनुष्टुप् छन्दः आचमने विनियोगः | सूर्यश्च मामन्युश्च मन्युपतयश्च ० सूर्ये ज्योतिषि जुहोमि स्वाहा । मित्रस्य चर्षणी घृत इति तिसृभिर्वसवस्त्वेति चोपस्थानम् । अथवा मध्याह्नसंध्यावत् समुच्चितं वा । अनेन गायत्रीजपेन प्रातः संध्याङ्गभूतेन ब्रह्मस्वरूपी सविता देवता प्रीयताम् । शेषं मध्याह्नसंध्यावत् । इति प्रातः संध्या ॥ ॥ अथ संक्षेपतः संध्यावन्दनविधि:- आचमनमिदंविष्णुरिति मार्जनं प्राणायामः आचमनं पात्रे उदकं गृहीत्वा ऑकारेण सावित्र्या आपोहिष्टतितिसृभिश्च मार्जनं द्रुपदादिवेत्याद्यघमर्पणम् ॐकारेण व्याहृत्या सावित्र्या च सूर्यार्घः उद्वयमुदुत्यं चित्रं तच्चक्षुरित्युपस्थानं ततो यथाशक्ति गायत्रीजपः जपनिवेदनम् । इति मध्याह्न संध्या | एवं सायंप्रातःसंध्ययोरप्यूहनीयः संक्षेपः । आग्नेयव्रतस्थवटोर्व्रतस्य संध्यावन्दनकर्तव्यताधीनत्वासंध्यावंदनं व्यलेखि । इति तृतीया कण्डिका ॥ ३ ॥
अत्र समिदाधानम् ॥ १ ॥ पाणिनाऽग्निं परिसमूहति अग्ने सुश्रवः
२१३