________________
२१२ पारस्करगृह्यसूत्रम्।
[तृतीया मध्याहे एतैश्वाचमनं चरेत् । ततो द्विराचमनम् । अथ मार्जनम् । ब्रह्माण्डपुराणे-नद्यां तीर्थे हदे वाथ भाजने मृन्मयेऽथवा । औदुम्बरेऽथ सौवर्णे राजते दारवे जलम् । कृत्वाथ वामहस्तेन संध्योपास्ति समाचरेत् । आपोहिष्ठेति तिमृमिनग्भिस्तु प्रयतः शुचिः । नवप्रणवयुक्ताभिर्जलं शिरसि निक्षिपेत् । प्रतिपाद प्रणवान्वयान्नवप्रणवता । पक्षान्तरमपि-वरगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः । आपोहिष्टेत्यूचा कार्य मार्जनं तु कुशोदकैः । तच्च मार्जनजलं. प्रणवव्याहृतिपूर्विकया गायन्या स्पृशेत् । वौधायनः-दत्त्वा चाभिमुखं तोयं मूर्ति ब्रह्ममुखेन तु । आपोहिष्ठेतिसूक्तेन दभैर्मार्जनमाचरेत् । यस्यश्यायेति अलं सकुशं प्रक्षिपेत्त्वधः । आपोहिष्ठेति तिसृणां सिंधुद्वीप ऋपिः आपो देवता जलादानक्षेपयोविनियोगः । द्रुपदादिवेति प्राजापत्यश्विसरस्वत्य ऋपयः । आपो देवता । अनुष्टुप् छन्दः अञ्जलिप्रक्षेपे विनियोगः । ऋतं च सत्यं चेत्यघमर्पण पिः । भाववृत्तिर्देवता अनुष्टुप्छन्दः प्रक्षेपे विनियोगः ऋतं च सत्यंचा०मथोस्वः। कात्यायन:-द्रुपदा नाम गायत्री यजुदे प्रतिष्ठिता । सकृदेव जपात्तस्या ब्रह्महत्यां व्यपोहति । वरतंचेतिपठन्त्यस्मात्पापमामरणान्तिकम् । मनोवाकायजं सर्वमर्पयेघमर्पणम् । आपः पचतीत्यनेन गायत्रीशिरसा चाधमर्पणं । ॐ आपः पचति भूतानि गुहायां पुरुपोत्तमः । त्वं ब्रह्म त्वं यज्ञस्त्वं विष्णुस्त्वं रुद्रस्त्वं वपट्कारः ॐ आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् । अथ सूर्यार्घः-प्रणवेन व्याहत्या गायच्या चामलिनाम्बुमिश्राणि पुष्पाणि सूर्याभिमुखंस्तिष्ठन् क्षिपेत् एकमञ्जलिम् । कात्यायनः-उच्छाया प्रति प्रोहेत्रिकेणाञ्जलिमम्भसः । व्यासः-कराभ्यां तोयमादाय गायव्या चाभिमन्त्रितम् । आदित्यामिमुखस्तिष्ठस्त्रिरू संध्ययोः क्षिपेत् । मध्याह्ने तु सकृदेव क्षेपणीयं द्विजातिभिः । तेनाञ्जलिमित्येकवचनं मध्याह्नविपयम् । अथ सूर्योपस्थानम्-ऊर्द्धवाहुः सूर्यमुदीक्षन्नुद्वयमुदुत्यं चित्रं तचक्षुरिति । उद्वयं प्रस्कण्व ऋपिः सूर्यो देवता अनुष्टुप्छन्दः । उदुत्यं प्रस्कण्व ऋपिः सूर्यो देवता गायत्री छन्दः । चित्रंदेवानां कुश ऋषिः । सूर्यो देवता । अनुष्टुप् छन्दः । तच्चक्षुरिति वसिष्ठ ऋपिः सूर्यो देवता । परोष्णिक् छन्दः । चतुर्णामपि सूर्योपस्थाने विनियोगः । उद्वयं०-उपस्थानम् । अथ जपः । तेजोऽसीति परमेष्ठी आज्यं गायत्री आवाहने । तुरीयस्य विमल ऋषिः परमात्मा देवता गायत्री छन्दः उपस्थाने विनियोगः । ततो गायत्रीजपः । प्रणवन्यासः । अकारं नाभौ । उकारं हृदये । मकारं मूनि । महान्याहृतित्रयन्यासः । भूः अङ्गुष्ठयोः । भुवस्त निकाद्वये । ज्येष्टाङ्गु लिये धीमान स्वापदं विनियोजयेत् । भूः हृदये । भुवः शिरसि । स्वः शिखायम् । तत्सविण्यं कत्रचे । भगोंदे०हि नेत्रयोः। धियो त् दिग्विदिक्षु । अथ वर्णन्यासः । तकारं पादाङ्गुष्ठयोः । सकारं गुल्फयोः । विकारं जबन्योः । तुकारं जान्वोः । वकारमूर्वोः । रेकारं गुदे । णिकारं लिड्ने । यकारं कट्याम् । भकारं नाभौ । गोकारसुदरे । देकारं स्तनयोः । वकारं हृदि । स्यकारं कण्ठे । धीकारं मुखे। मकारं तालुदेशे। हिकारं नासिकाने । धिकार नेत्रयोः । योकारं भ्रुवोः । द्वितीयं योकारं ललाटे । नकारं प्राड्मुखे । प्रकारं दक्षिणे मुखे । चोकारं पश्चिमे मुखे । दकारमुत्तरे मुखे । याकारं मूर्ध्नि । व्यजनतकारं सर्वतः । पदन्यासः-तत् शिरसि । सवितुः भ्रूमध्ये । वरेण्यं नेत्रयोः । भर्गः वक्रे । देवस्य कण्ठे। धीमहि हृदये । धियः नाभौ ।यः गुह्ये । नः जान्बोः । प्रचोदयात् पादयोः। तकारं चिन्तयेत्स्वाः पादाङ्गुष्ठद्वये द्विजः। सकारं गुह्यदेशे तु विकारं जश्योन्यसेत् । जान्वोस्तु विद्धि तुकारं वकारं चोरुदेशतः। रेकारं विन्यसेगृह्ये णिकारं वृपण न्यसेत् । कटिदेशे तु यंकारं भकार नाभिमण्डले । गोकारं जठरे योगी देकारं स्तनयोर्यसेत् । वकारं हृदये न्यस्य स्यकारं कण्ठदेशतः । धीकारं तु मुखे विद्यान्मकारं तालुदेशतः । हिकारं नासिकाग्रे तु धिकारं नयनद्वये । भ्रुवोर्मध्ये तु योकारं लालटे तु द्वितीयकं । पूर्वानने नकारं च प्रकारं दक्षिणानने । उत्तरास्ये च चोकारं इकारं