________________
२११
कण्डिका ]
द्वितीयकाण्डम् |
ततः आवाहनं, सावित्रीं त्र्यक्षरां शुद्धां शुक्लवखां त्रिलोचनाम् । त्रिशूलहस्तां वृषभादिधिरूढां रुद्राणी रुद्रदेवतां । यजुर्वेदकृतोत्सङ्गां जटामुकुटमण्डिताम् । वरदां त्र्यक्षरां साक्षाद्देवीमावाहयाम्यहम् । त्र्यक्षां प्रणवात्मिकाम् । ततो भूर्भुवः स्वरिति गायत्र्या च शिखां स्पृशेत् । उपवीती बद्धशिखः समाचम्य यथागमम् । पवित्रपाणिः सोंकारं नारायणमनुस्मरेत् । अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पासुरे । दर्भेण सोदकेनैव दद्यादासनमात्मनः । पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् | ऑकारस्य ऋपिर्ब्रह्मा देवोऽग्निस्तस्य कथ्यते । गायत्री च भवेच्छन्दो नियोगः सर्वकर्मसु । त्रिमात्रस्तु प्रयोक्तव्य आरम्भे सर्वकर्मणाम् । व्याहृतीनां च सर्वेपा
चैव प्रजापतिः । गायत्र्युष्णिगनुष्टुप् च वृहती त्रिष्टुबेव च । पतिश्च जगती चैव छन्दांस्येतानि प्र्वास्तथा सूर्यो बृहस्पतिरपांपतिः । इंद्रश्च विश्वेदेवाश्च देवताः समुदाहृताः । प्राणस्यायमने चैव विनियोग उदाहृतः । एतास्तु व्याहृतीः सप्त यः स्मरेत्प्राणसंयमे । उपासितं भवेत्तेन विश्वं भुवनसप्तकम् । भूर्लोकं पादयोर्न्यस्य भुवर्लोकं च जानुनोः । स्वर्लोकं गुह्यदेशे तु नाभिदेशे महस्तथा । जनलोकं च हृदये कण्ठदेशे तपस्तथा । भ्रुवोर्ललाटसंधौ च सत्यलोकं प्रतिष्ठितम् । सविता देवता यस्या मुखमग्नित्रयात्मकम् । विश्वामित्र ऋषिश्छन्दो गायत्री सा विशिष्यते । जपहोमोपनयने विनियोगो विशिष्यते । भूर्विन्यस्य हृदये भुवः शिरसि विन्यसेत् । स्वरितीदं शिखायां च गायत्र्याः प्रथमं पदम्। विन्यसेत्कवचे धीमान् द्वितीयं नेन्नयोर्न्यसेन् । तृतीयेनाखविन्यास एष न्यासोऽघनाशनः । ॐभूः पादयोः।भुवः जानुनोः । स्वः गुह्ये । महः नाभौ । जनः हृदये । तपः कण्ठे । सत्यं भ्रूललाटसंधौ । भूः हृदयाय नमः | भुवः शिरसे स्वाहा | स्वः शिखायै वषट् । तत्सवितुर्वरेण्यं कचाय हुँ । भर्गोदेवस्य धीमहि नेत्रत्रयाय वौषट् । धियोयोनः प्रचोदयात् अस्त्राय फट् । शिरोन्यासः । ॐ आपोगुह्ये । ज्योति
क्षुपी । रसो मुखम् | अमृतं जानुनी । ब्रह्म हृदये । भूः पादयोः । भुवः नाभौ । स्वर्ललाटे । ॐकारं मूर्ध्नि । एवं ऋष्यादिकं स्मृत्वा न्यासं कृत्वा करौ संपुटीकृत्य मध्याह्नसंध्यां सावित्रीं रुद्राणीं रुद्रदेवतामाह्वयामि । आगच्छ वरदे देवि त्र्यक्षरे रुद्रवादिनि । सावित्रि छन्दसां मातः रुद्रयने नमोस्तु ते । ततो भूर्भुवः स्त्ररित्यपोऽभिमन्त्र्य शिरसः प्रदक्षिणं परिक्षिपेत् । अथ प्राणायामः । याज्ञवल्क्यः——सव्याहृतिकां सप्रणवां गायत्री शिरसा सह । त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते । स्मृत्यन्तरे—दक्षिणे श्वासमाहृत्य वामे चैव विसर्जयेत् । अनेन विधिना चैव प्राणायाम विधीयते । अनामिका कनिष्ठा तु अङ्गुष्ठस्तु तृतीयकः । नासिकायां निरुन्धीत तर्जनीमध्यमामृते । अङ्गुष्ठेन पुढं ग्राह्यं नासाया दक्षिणं पुनः । कनिष्ठानामिकाभ्यां तु वामं प्राणस्य संग्रहे । आदानरोधमुत्सर्ग बायोस्त्रिखिः समभ्यसेत् । ब्रह्माणं केशवं शम्भुं ध्यायेदेताननुक्रमात् । रक्तं प्रजापतिं ध्यायेद्विष्णुं नीलोत्पलप्रभम् । शंकरं त्र्यम्बकं श्वेतं ध्यायन्मुच्येत बन्धनात् । पोडशाक्षरकं ब्रह्म गाययात्र्यास्तु शिरः स्मृतम् । सशिरा चैव गायत्री यैर्विप्रैरवधारिता । तेजः संवन्धनिर्मुक्ताः परं ब्रह्म विशन्ति ते । आपोज्योतिरित्येष मन्त्रो वै तैत्तिरीयके । अस्य प्रजापतेरा छन्दोहीनं यजुर्यतः । ब्रह्माग्निवायुसूर्याश्च देवताः प्राणायामे विनियोगः । प्राणायामत्रयं कार्यं संध्यासु च तिसृष्वपि । नित्ये देवार्चने होमे संध्यायां श्राद्धकर्मणि । स्नाने दाने तथा घ्याने प्राणायामास्त्रयः स्मृताः । प्राणस्यायमनं कृत्वा आचामेत्प्रयतोऽपि सन् । आपः पुनन्त्वित्याचमनमन्त्रः । अस्य नारायण ऋषिः आपो देवता अनुष्टुप् छन्दः आचमने विनियोगः । आपः पुनन्तु पृथ्वि पृथ्वी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूतं पुनातु माम् । यदुच्छिष्टमभोज्यं वा यद्वा दुश्चरितं मम । सर्वे पुनन्तु मामापो असतां च प्रतिग्रहस्वाहा । शौनकः- सायमग्निश्चमेत्युक्त्वा प्रातः सूर्येत्यपः पिवेत् । आपः पुनन्तु