________________
२०८ पारस्करगृह्यसूत्रम् ।
[तृतीया पठन् । 'संव""गायत्रीम् ' सावित्रीप्रदानस्य कालं विकल्पेनाह-संवत्सरे उपनयनमारभ्य पूणे वर्षे षण्मास्ये षडेव मासाः षण्मास्यं स्वार्थे तद्धितश्छान्दसो वृद्धिलोप: " छन्दोवत्सूत्राणि भवन्तीति वचनात् " तस्मिन् पण्मास्ये चतुर्विशत्यहे चतुर्विंगत्या अहोभिरुपलक्षितः कालः चतुर्विशत्यहः तस्मिन् द्वादशाहे द्वादशभिरहोभिरुपलक्षितः कालो द्वादशाहः तस्मिन् षडहे पड्भिरहोभिरुपलक्षितः कालः पडहः तस्मिन् व्यहे त्रिभिरहोभिरुपलक्षितः कालख्यहः तस्मिन् । वाशब्दः सर्वेषु संवत्सरादिषु संवध्यते । एते कालविकल्पाः आचार्यस्य शुश्रूषादिशिष्यगुणतारतम्यापेक्षाः । एवं सामान्येन सावित्रीप्रदानस्य कालविकल्पानभिधायाधुना ब्राह्मणस्य विशेपमाह । तुशब्दः पक्षव्यावृत्तौ । ब्राह्मणस्य नैते कालविकल्पाः कितु क्षत्रियवैश्ययो. । सद्य एव गायत्रीं ब्राह्मणायानुवूयान् कथयेत् कुतः आग्नेयो वै ब्राह्मण इति श्रुतेः । आग्नेयो अग्निदेवत्यः ब्राह्मण इति वेदवचनात् । 'त्रिष्टुभह-राजन्यस्य जगतीं वैश्यस्य सर्वेषां वा गायत्रीं' राजन्यस्य क्षत्रियस्य त्रिष्टुभं त्रिष्टुप् छन्दो यस्याः सा त्रिष्टुप् तां त्रिष्टुभं सावित्रीम्, जगती छन्दो यस्याः ऋचः सा जगती तां जगती सावित्री वैश्यस्य विशः, सावित्रीमनुयादित्यनुषज्यते । सर्वेषां वा गायत्री यद्वा सर्वेषां ब्राह्मणक्षत्रियविशां गायत्रीमेव गायत्रीछन्दस्कामेव सावित्री सवितृदेवताकां तत्सवितुरिति सकलवेदशाखाम्नातां ऋचमनुब्रूयात् ॥ ३॥ ॥* ॥
- (गदाधरः)-'प्रद""शति' परिदानानन्तरं कुमारोऽग्निं प्रदक्षिणं यथास्यात्तथा परीत्य परिक्रमणं कृत्वाऽग्नेरुत्तरत उपविशति । पश्चादग्नेराचार्यस्योत्तरत उपविशतीति जयरामहरिहरौ । पश्चादग्नेरुपवेशनमिति भर्तृयज्ञकारिकाकारौ । आचार्यस्य दक्षिणत इति गर्गपद्धतौ । आचार्यस्योत्तरत इति वासुदेवः । 'अन्वा"नेति' तत आचार्यों ब्रह्मणाऽन्वारब्ध आधारादिस्त्रिप्टकृदन्ताश्चतुर्दशाज्याहुतीर्तुत्वा संस्रवप्राशनान्ते ब्रह्मचार्यसीत्येवमादिमिः सप्तप्रैपवाक्यैरेनं कुमारमनुशास्ति शिक्षयति । अत्र ब्रह्मोपवेशनादि दक्षिणादानान्तं कर्म कृत्वाऽनुशासनं कार्यम् । तचैवम्-ब्रह्मचार्यसीत्याचार्य आह । भवानीति ब्रह्मचारी प्रत्याह । अपोशानेत्याचा० । अनानीति त्र० । कर्म कुंव/त्याचा० । करवाणीति व्रमा दिवा सुयुप्था इत्याचा०।न स्वयानीति ३० । वाचं यच्छेत्याचा० । यच्छानीति ७०। समिधमाधेहीत्याचा० । आधानीति ७० 1 अपोशानेत्याचा० । अनानीति ३० । ब्रह्मचार्यसीत्यादिप्रैषाणामयमर्थ:-ब्रह्म कर्म चरतीत्येवं शीलो ब्रह्मचारी असि भवसि । अपः अनान पिव । कर्म स्नानादिकं स्ववर्णाश्रमविहितं कुरु विधेहि । दिवसे मा स्वाप्सी. । स्मृत्युक्तकाले वाचं गिरं यच्छ नियमय । समिधं वक्ष्यमाणप्रकारेण आधेहि अग्नौ सर्वदा प्रक्षिप । प्रथममाचमनमशिष्यन् द्वितीयं चाशित्वा । अशिष्यन्नाचामेदशित्वाऽऽचामेदिति श्रुतेः । कर्मकरणमविशेषोपदिष्टमप्याचार्याय । आचार्याय कर्म करोतीति श्रुतत्वादिति भर्तृयज्ञः । सावित्र्युपदेशमाह 'अयास्मै 'ताय' अथाचार्योऽस्मै ब्रह्मचारिणे सावित्री सवितृदेवताकां गायत्रीरन्दस्कां तत्सवितुरित्यूचमन्वाहोपदिशति । किंभूताय प्रत्यङ्मुखाय पश्चिमाभिमुखाय । पुनः किंलक्षणाय उपविष्टाय आसीनाय । क इत्यपेक्षायामुत्तरतोऽन्नेः अग्नरुत्तरस्यां दिशि । उपसन्नाय पादोपग्रहणादिना मजमानाय । पुनः किंभूताय गुरु समीक्षमाणाय । पुनः किंभूताय समीक्षिताय गुरुणा सम्यगवलोकिताय । श्रुतिः-तस्मादेतां गायत्रीमेव सावित्रीमनुयादिति । मदनपारिजाते शातातपः-तत्सवितुर्वरेण्यमिति सावित्री ब्राह्मणस्येति । 'दक्षिण. वैके' एके आचार्या अग्नेक्षिणतो दक्षिणस्यां दिशि तिष्ठते स्थिताय :भूताय ब्रह्मचारिणे आसीनायोपविष्टाय वा सावित्रीप्रदानमाहुः । अथ हैके दक्षिणतस्तिष्ठते वाऽऽसीनाय वाऽन्वाहुरिति श्रुतत्वात् । एकमहणाद्विकल्पः । 'पच्छोर्तयन् ' सावित्रीप्रदानेऽयं प्रकारः। प्रथमं तावत्पच्छः पादं पादं , ततोऽर्द्धर्चशः अर्धचे अर्द्धर्चम् , ततस्तृतीयेन वारण सह वटुना