________________
कण्डिका] द्वितीयकाण्डम् ।
२०९ सर्वा च सावित्रीमनुवर्तयन् आवर्तयन् पठेत् । अत्राह मदनपारिजाते लौगाक्षि:-भूर्भुवःस्वरित्युक्त्वा तत्सवितुरिति सावित्री निरन्वाह पच्छोड़र्चशः सर्वामन्तत इति । तां वै पच्छोन्वाहेत्युपक्रम्य अथार्द्धर्चश अथ कृत्स्नामिति श्रुतेः । सावित्रीप्रदानस्य कालविकल्पानाह 'संवत्सरे' 'वा' उपनयनदिनमारभ्य संवत्सरे पूर्णे वा पण्मास्ये मासपट्टे वा चतुर्विंशत्यहे वा द्वादशाहे पडहे वा व्यहे वा सावित्रीमनुब्रूयादाचार्यः । तां ह स्मै तां पुरा संवत्सरेऽन्वाहुरित्युपक्रम्य अथ पट्सु मासेष्वथ चतुर्विंशत्यहे अथ द्वादशाहे अथ पडहे अथ त्र्यहे इति श्रुतत्वात् । क्षत्रियवैश्ययोरेते कालविकल्पाः ब्राह्मणस्य तु वक्ष्यमाणत्वात् । एते कालविकल्पा आचार्यशुश्रूपादिशिष्यगुणतारतम्यापेक्षा इति हरिहरः । षण्मास्ये इति षडेव मासाः पण्मास्यं स्वार्थे तद्धितरछान्दसश्च वृद्धिलोपः । छन्दोवत्सूत्राणि भवन्तीति वचनात् । ब्राह्मणस्य कालमाह । 'सद्य"श्रुतेः' तु पुनः ब्राह्मणाय सद्य एव गायत्रीमनुब्रूयात् उपदिशेत् कुतः । 'आग्ने"श्रुतेः' आग्नेयः अग्निदेवत्य इति अतोऽस्मै सद्यएवोपदेशो युक्तः । आग्नेयो वै ब्राह्मणः सद्यो वा अग्निर्जायते तस्मात्सद्य एव ब्राह्मणायानुवूयादिति श्रुतेः । 'त्रिष्टुभराजन्यस्य' त्रिष्टुप् छन्दो यस्याः सा त्रिष्टुप् तां सावित्री त्रिष्टुभं देवसवितरित्यादिकां राजन्यस्य क्षत्रियस्यानुयात् । पारिजाते-देवसवितरिति राजन्यस्येति । ताई सवितुरिति भर्तृयज्ञनोदाहृता । 'जगती वैश्यस्य' जगतीछन्दस्का सावित्री विश्वारूपाणि प्रतिमुञ्चत इत्यूचं वैश्यस्यानुयात् । जगती छन्दो यस्याः सा जगती ताम् । युञ्जते मन इति भर्तृयज्ञभाष्ये । विश्वारूपाणीति वैश्यस्येति पारिजाते । 'सर्वेःत्रीम्' गायत्री छन्दो यस्याः सा गायत्री तां सावित्रीं सर्वेषां ब्राह्मणक्षत्रियविशां तत्सवितुरित्यूचमनुब्रूयात् । वा शब्दो विकल्पार्थः ॥ इति तृतीया कण्डिका ।। ३॥ ॥ * ॥
(विश्व०)-'प्रदक्षि 'शति । आचार्यस्य दक्षिणतो वटुरिति शेपः । तत उपयमनकुशादानादि पर्युक्षणान्तमाचार्यस्य कृत्यम् । 'अन्वा' 'नान्ते ' कुशहस्तेन वटुनान्वारब्धः आधारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं प्रायश्चित्त स्विष्टकृञ्चेत्येता आज्याहुतीर्तुत्वा संस्रवप्राशनादि दक्षिणादानान्ते क्रियाकलापे जात इत्यर्थः । 'अथैनर सरशास्ति । वटुमाचार्यः । किमत आह–'ब्रह्मचा''शानेति' वटुश्च असानि, अनानि, करवाणि, न दिवा स्वपानि, यच्छानि, आदधानि, अनानि, इति प्रत्याचार्यवचनं ब्रूयात् । प्रणवेन वा प्रत्युत्तरयति । ततो वहिहोमः प्रणीताविमोकः कर्मापवर्गसमित्प्रक्षेप उत्सर्जनं ब्रह्मण उपयमनकुशानामग्नौ प्रक्षेपः । ततो दश ब्राह्मणान्संकल्प्य भोजयेत् । एवं वर्हिहोमादि ब्राह्मणभोजनान्तां कर्मसमाप्ति विध्यात् । इत्युपनयनम् । इदानी सावित्रव्रतादेशमाह-' अथास्मै 'न्वाह ! अस्मै वटवे आचार्यः । कीदृशाय वटवे सावित्रव्रतादेश इत्याकाड्वायामाह-' उत्त "ताय । उपलिप्त उद्धतावोक्षितेऽग्निस्थापनादि वहिस्तरणान्तमुत्तरतोऽग्नेरित्युक्तेः । नचोपस्थितवह्नः परित्यागे वीजाभावात्तस्यैवोत्तरत इति वाच्यम् । समाप्तिव्रतादेशादौ वह्निरक्षाविधायकविधेरभावात्तदुपशमे प्रायश्चित्तायुपायानुपदेशाच्च वह्नयन्तरोपस्थितेरावश्यकत्वात् । तेन वर्हिस्तरणान्ते आचार्येण कृते सति ब्रह्मचारी दक्षिणहस्तेनोदकमादायाग्निं प्रति वदेत् । क्षत्रियाद्युपदेशसमयस्य नानात्वेऽप्याग्नेयो वै ब्राह्मण इत्यादिविधिना ब्राह्मणायोपदेशस्य तात्कालिकत्वसमर्थनात्तथैव प्रयोगो लिख्यते । अग्ने व्रतपते व्रतं चरिष्यामि सावित्रं सद्यःकालं तच्छकेयं तन्मे राध्यतामिति व्रतं गृहीत्वोपविश्याचार्य कुशैरन्चारमेत्सर्वास्वाहुतिपु । सर्वेषु ब्रह्मचर्यव्रतेषु च । तत आचार्य उपयमनकुशादानाद्याज्यभागान्तं कुर्यात् । एतदेव बतादेशनविसर्गेष्वित्युक्तेः पृथिव्याः अग्नय इत्याद्याहुतिचतुष्टयं प्रतिवेदमेवं पोडश, प्रजापतय इत्यादि सप्त, महाव्याहृत्यादिस्विष्टकृदन्ता (श्चतुर्) दश । एताः सर्वेषु व्रतादेशेषु विसर्गेषु च सप्तत्रिंशदाहुतयः । ततः संस्रवप्राशनानि दक्षि