________________
द्वितीयकाण्डम् । कण्डिका]
२०७ सावित्रीम । तस्मादेतां गायत्रीमेव सावित्रीमनुवयादिति वचनात् । । दक्षिण' के एके आचार्याः सावित्रीमन्वाहुः । एकीयशब्दाद्विकल्पः । ' पच्छो "र्तयन्। पच्छ इनि पादं पादं पुनरर्द्धमद्धे तृतीयेन सी सहानुवर्तयन् । ' संवत्स' 'व्यहेवा' सावित्र्युच्यते एवमेव हि श्रूयत इति । 'सद्य'' इति श्रुतेः । आग्नेयो वै ब्राह्मणः सद्यो वा अग्निर्जायते तस्मात्सद्य एव ब्राह्मणायानुनूयादिति । इतरेषां विच्छया कालः । 'त्रिष्टुभराजन्यस्य ' सावित्रीमनुब्रूयात् । 'जगतीं वैश्यस्य । सावित्रीमनुयात् । ' सर्वेषां वा गायत्रीमनुत्रूयात् ' वाशब्दो विकल्पार्थः ॥ ३॥ * ॥
(जयरामः )-एवं वस्त्रादिना संस्कृतः, अग्नि प्रदक्षिणं कृत्वा पश्चादग्नेराचार्यस्योत्तरत उपविशति कुमारः । अन्वारब्धे ब्रह्मणा आचार्य आधारादिस्विष्टकृदन्ताश्चतुर्दशाहुतीर्तुत्वा संस्रवप्राश. नान्ते ब्रह्मचार्यसीत्येवमादिभिः प्रैषवाक्यैरेनं कुमारमनुशास्ति शिक्षयति । तत्र ब्रह्मचार्यसीत्युक्ते असानीत्याह कुमारः । अपोशानेत्युक्ते अश्नानीति । कर्म कुरु इत्युक्ते करवाणीति । मा दिवा सुपुष्था इत्युक्ते न स्वपानीति । वाचं यच्छेत्युक्ते यच्छानि । समिधमाघेहीत्युक्ते आदधानीति । पुनरपोशानेत्युक्ते अश्नानीत्येतदनुशासनम् । समीक्षमाणाय गुरुं समीक्षितश्च तेनैव । उपसदनं च पादोपसंग्रहणपूर्वकम् । सावित्री सवितृदेवत्यां गायत्रीच्छन्दस्कामृचम् । तस्मादेतां गायत्रीमेव सावित्रीमनुयादिति श्रवणात् । एके आचार्या अग्नेर्दक्षिणतस्तिष्ठते स्थिताय आसीनाय वा सावित्रीमबाहुः । एकीयशब्दाद्विकल्पः । कथमन्वाहुः । पच्छः प्रथमं पादं पादं ततोऽर्द्धर्चशः अर्द्धर्चमर्द्धर्चम् । ततस्तृतीयेन सर्वां सह बटुना सममनुवर्तयन् पठन् । संवत्सर इति सावित्रीप्रदानस्यैते कालविकल्पाः । ब्राह्मणाय तु सद्यो ब्रूयात् । श्रूयते च सद्यस्त्वेवेति । आग्नेयो वै ब्राह्मणः सद्यो वा अग्नि - यते । तस्मात्सद्य एव ब्राह्मणायानुयात् । इतरेषां विच्छया विकल्पः । त्रिष्टुभं सावित्रीमनुयात् । जगती सावित्रीमनुब्रूयात् । तत्र तत्सवितुरिति विश्वामित्रः प्रतिष्टा गायत्री सविता होमानन्तरमाहवनीयेक्षणजपे० । क्षत्रियाय तु देवसवितरिति वृहस्पतित्रिष्टुप् सविता वाजपेयाज्यहोमे० । वैश्यस्य च विश्वारूपाणि प्रतिमुञ्चत इति प्रजापतिर्जगती सविता उपासंभरणे रुक्मपाशप्रतिमोके । सर्वेषां गायत्री वेति विकल्पः । ॥३॥ ॥ * ॥
(हरिहरः)-' प्रदक्षि'शति ' एवं वस्त्रदानादिभिराचार्येण संस्कृतो माणवकः अग्नि प्रदक्षिणं यथा भवति तथा परीत्य परिक्रम्य पश्चादग्नेराचार्यस्योत्तरत उपविशति आस्ते । 'अन्वा "नान्ते' ततो ब्रह्मणाऽन्वारव्ध आचार्यः आधारादिस्विष्टकृदन्ताश्चतुर्दशाहुतीर्तुत्वा संस्रवप्राशनान्ते । अत्र पुनरन्वारम्भानुवादश्चतुर्दशाहुतिहोमव्यतिरिक्तहोमप्रतिपेधार्थः । 'अथैन "नेति' अथानन्तरमाचार्यः एनं माणवकं संशास्ति शिक्षयति । कथं ब्रह्मचारी असि असानीति माणवकेन प्रत्युक्तः । अपः अशान पिब इति । अनानीति प्रत्युक्तः । कर्म स्नानादिकं स्ववर्णाश्रमविहितं कुरु विधेहि करवाणीति प्रत्युक्तः । मा दिवा दिवसे सुपुष्थाः स्वाप्सीरिति न स्वपानीति प्रत्युक्तः । वाचं गिरं यच्छ नियमयेति यच्छानीति प्रत्युक्तः । समिवं वक्ष्यमाणप्रकारेण आधेहि अग्नौ प्रक्षिपेति आदधानीति प्रत्युक्तः । अपोऽशानेति पूर्ववत् ! ' अथास्मै 'यन् । अथ शासनानन्तरमस्मै ब्रह्मचारिणे सावित्री सवितृदेवत्यां गायत्रीच्छन्दुस्कां विश्वामित्रदृष्टां ऋचमन्वाह उपदिशति । कथंभूताय प्रत्युड्मुखाय पश्चिमाभिमुखाय । पुनः कथंभूताय उपविष्टाय च अग्नेरुत्तरस्यां दिशि तथा उपसन्नाय पादोपसंग्रहणादिना भजमानाय । तथा समीक्षमाणाय सम्यक् आचार्यमवलोकयते । तथा आचार्येण सम्यगवलोकिताय । पक्षान्तरमाह दक्षिणतः अग्नेर्दक्षिणस्यां दिशि तिष्ठते ऊर्ध्वाय ऊ:भूताय वा आसीनाय उपविष्टाय इत्येके आचार्याः सावित्रीपदानं मन्यन्ते । कथमन्वाह पच्छ: पादं पादं अर्द्धर्चशः तदनु अर्द्धर्चमड़र्चम् तदनु च सा तृतीयेन वारेण सह मिलित्वा आवर्तयन्