________________
पारस्करगृह्यसूत्रम् ।
[तृतीया प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमत्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं वलमस्तु तेजः । यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामीति । मन्त्रार्थ:-ब्रह्मसूत्रं त्वर्थ सृष्टमसि । अत एव वटो क्रतोर्यज्ञोपवीतेन त्वां वनामि । कीदृशं यज्ञस्य उपवीतं परमं परः आत्मा मीयते येन पावनं यदा असाधारणं पावनं पूर्वमेव ब्रह्मणोत्पत्तिसमानसमयोत्पत्तिकम् अत एव श्रेष्टमायुर्मयि कीर्त्यपि कीय॑न्वितं स्वच्छं स्थापय । त्वमेव वलाधायकं तेजसः आधायकं च भव । ऐणेयमजिनमुपवीतानन्तरं धारयति । तत्र मन्त्रः-मित्रस्य चक्षुर्घरुणं वलीयस्तेजो यशस्वि स्थविर समिद्धम् । अनाहनस्य वसनं परीदं वाज्यजिनं दधेयमिति । एतच्चाजिनधारणं यज्ञोपवीतपरिधानानन्तरमाचम्य । ' दण्ड प्रयच्छति' वक्ष्यमाणलक्षणं दण्डं माणवकायाचार्यः प्रयच्छति । 'तं प्रति' 'सायेति । माणवकश्चाचार्यहस्तात्तं दण्डं प्रतिगृह्णाति यो मे दण्ड इतिमन्त्रेण । 'दीक्षावदेके ' मुखसंमितमौदुम्बरं दण्डं प्रयछतीति कात्यायनोक्तप्रकारेण दण्डादानं प्रतिग्रहणं च माणवकस्य । तत्र हेतुमाह-'दीर्घ "नात् । दीर्घसत्रं वा एष उपैति यो ब्रह्मचर्यमुपैतीत्यादिवाक्यादित्यर्थः । अथा "सृभिः आचार्यः खानलिना जलमापोहिष्ठेतितिसृमिर्माणवकाजलौ प्रक्षिपतीत्यर्थः । ' अथैनर 'क्षुरिति ' सूर्यमुदीक्षस्वेति आचार्यस्य बटुं प्रति प्रेषः । स च तच्चक्षुरिति सूर्यमीक्षते । 'अथास्य' ''मह्यमिति' वटोर्दक्षिणांसस्योपरि स्वदक्षिणहस्तं नीत्वा वटोर्हृदयमालभ्य मम व्रत इतिमन्त्रं पठेदित्यर्थः । अथा""प्रत्याह' अमुकगोत्रः अमुकशर्मा अहं भो३ इति कुमारः स्वनामाचार्य प्रति कथयतीत्यर्थः । अथैन""सीति' एनं वटुमाचार्यः कस्य ब्रह्मचार्यसीत्याहेत्यर्थः । भवत इत्युच्यमाने । कुमारेणेति शेषः । इन्द्र' "साविति' असौ अमुकगोत्रामुकप्रवराऽमुकशर्मन्निति अमाचार्यस्तवेत्यन्तं पठित्वा पठेदित्यर्थः । ' अथैनं "रिट्या इति । अनेन मन्त्रेण माणवकं भूतेभ्यः परिददाति । इति द्वितीया कण्डिका ॥२॥
प्रदक्षिणमग्निं परीत्योपविशति ॥ १ ॥ अन्वारब्ध आज्याहुतीर्तुत्वा प्राशनान्तेऽथैन: सन्शास्ति ब्रह्मचार्यस्यपोशान कर्म कुरु मा दिवा सुषुप्था वाचं यच्छ समिधमाधेह्यपोशानेति ॥ २ ॥ अथाऽस्मै सावित्रीममन्वाहोत्तरतोऽनेः प्रत्यङ्मुखायोपविष्टायोपसन्नाय समीक्षमाणाय समीक्षिताय ॥ ३ ॥ दक्षिणतस्तिष्ठत आसीनाय वैके ॥ ४ ॥ पच्छोईर्चशः सर्वां च तृतीयेन सहानुवर्तयन् ॥ ५ ॥ संवत्सरे षण्मास्ये चतुर्छिन्शत्यहे द्वादशाहे षडहे त्र्यहे वा ॥ ६ ॥ सद्यस्त्वेव गायत्री ब्राह्मणायानुब्रूयादाग्नेयो वै ब्राह्मण इति श्रुतेः ॥ ७ ॥ त्रिष्टुभर्छ राजन्यस्य ॥ ८ ॥ जगतीं वैश्यस्य ॥ ९ ॥ सर्वेषां वा गायत्रीम् ॥ १० ॥ ॥ ३ ॥
(कर्कः)-प्रदक्षिणमग्निं परीत्योपविशति कुमारः । अन्वारब्ध आज्याहुती त्वा प्राशनान्तेऽथैन सठशास्ति । आचार्यः कुमारं ब्रह्मचार्यसीत्येवमादिभिः प्रैपवाक्यैः । ब्रह्मार्यसीत्युक्ते भवामीति प्रत्याह कुमारः। अपोऽशानेत्युक्ते अश्नानीति प्रत्याह कुमारः। कर्म कुर्वित्युक्ते करवाणीति प्रत्याह कुमारः । मा दिवा सुपुप्था इत्युक्ते न स्वपानीति । वाचं यच्छेत्युक्ते यच्छानीति । समिधमाधेहीत्युक्ते आदधामीति । अपोऽशानेत्युक्ते अन्नानीति कुमारः। एतदनुशासनम् । 'अथास्मै "ताय' गुरुं समीक्षमाणाय कुमाराय । उपसदनं च पादोपसंग्रहणपूर्वकम् । सवितृदेवत्यां गायत्रीछन्दका