________________
फण्डिका] द्वितीयकाण्डम् ।
२०५ आचार्य आह कस्य ब्रह्मचार्यसीति । भवत'' 'साविति' भवत इति आचाय प्रति कुमारेणोच्यमाने आचार्य इन्द्रस्य ब्रह्मचार्यसीत्यमुं मन्त्रं पठति । असावित्यस्य स्थाने आमन्त्रणविभक्तियुक्तं कुमारनामग्रहणं कार्यम् । स्वनाम प्रथमान्तमित्यपरे । उभयथा मन्त्रार्थोपपत्तेः । स्मृत्यन्तरानिर्णय इति भर्तृयज्ञभाष्ये । मन्त्रार्थस्तु-इदि परमैश्वयें इन्द्रस्य प्रजापतेब्रह्मचारी त्वमसि तव चाग्निराचार्यः प्रथमः द्वितीयश्चाहं तव हे असौ अमुकशर्मन् ब्रह्मचारिन् । अथैन "रिष्ट्या इति । अथाचार्य एनं कुमारं भूतेभ्यः प्रजापतिप्रभृतिभ्यः परितोऽरिष्यै रक्षायै प्रयच्छति । प्रजापतये स्वा परिददामीत्यनेन मन्त्रेण । अथैनं भूतेभ्यः परिददाति प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददामीति श्रुतत्वात् । मन्त्रार्थः सुगमः । हे ब्रह्मचारिन् प्रजापतये स्रष्ट्रे त्वा त्वां परिददामि समर्पयामि विश्वेभ्यो भूतेभ्यः विश्वानि भूतानि पृथिव्यादीनि पञ्च तेभ्यः सर्वेभ्यो भूतेभ्यो देवविशेषेभ्य इत्यपौनरुक्त्यम् । किमर्थम् । अरिष्ट्यै अहिंसायै ।। इति द्वितीया कण्डिका ||२||
(विश्व०)-'अष्टवर्षे ब्राह्मणमुपनयेत् । अष्टौ वर्षाणि उत्पन्नानि यस्यासौ अष्टवर्षः । अष्टम इत्यर्थः । गर्भाप्टमेषु वा ' जन्मतः पञ्चमषष्ठसप्तमेष्वित्यर्थः । गर्भाष्टमेऽष्टमे वान्द इत्युक्तेः । ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टम इति । ' एका 'जन्यं । उपनयेदित्यनुषङ्गः । द्वाद"वैश्यं । अत्राप्युपनयेदित्यनुपङ्गः । 'यथा "र्वेषां । अनेन स्मृत्यन्तरोक्तः समय उपलक्ष्यते । अन्येऽपि शाखान्तरीयाः आपस्तम्बायुक्ताः समया वोद्धव्याः । केचित्त शास्त्रीयो यस्य कुले यो पक्ष आहतः स कुलाचार इत्याहुः । अपरे त्वशास्त्रीयमपीत्याहुः । इदानीं कर्तव्यतामाह-ब्राह्म' 'तञ्च ' मातृपूजाभ्युदयिके विधाय त्रीन् ब्राह्मणान् भोजयेत् । तं च संस्कार्य कुमारम् । ' पर्यु' 'यन्ति ' बहिःशालायां उपलिप्त उद्धृतावोक्षितेऽग्निमुपसमाधाय भोजनाप्राक् शिरसः मुण्डनं शिखावर्ज कारयित्वा भोजनोत्तरमलंकृत्याचार्यसमीपमानयन्ति । केचित्त तेनैवाचार्येण ये उपनीतास्ते आनयन्तीत्याहुः । ' पश्चा''नीति च । अग्रे आज्याहुतिमात्रोक्तेब्रह्मासनादिवहिस्तरणान्ते अग्नेः पश्चिमत आत्मनो दक्षिणतः माणवकमवस्थितं कृत्वा ब्रह्मचर्यमागामिति बहीति आचार्येणोक्ते माणवको ब्रह्मचर्यमागामिति वदेत् । ततः ब्रह्मचार्यसानीत्याचार्योक्ते ब्रह्मचार्यसानीति ब्रह्मचारी वदेत् । अथै "र्चस' इति आचार्यः एनं वटुं वस्त्रं येनेन्द्रायेतिमन्त्रेण परिधापयति । मन्त्रान्वयस्तु-हे बटो येन प्रकारेण इन्द्राय इन्द्रं संस्कर्ते वृहस्पतिः सुराचार्यो वासः पर्यदधात् परिधापितवान् । कीदृशम् । अमृतमहतं तेन प्रकारेण त्वा त्वां वटुं परिदधामि परिधापयामि । अथवा इन्द्राय पर्यदधात् इन्द्रे स्थापितवान् । तथा त्वां परिदधामि अव्यवच्छेदेन स्थापयामि । किमर्थ दीर्घायुत्वाय चिरजीवनाय । बलाय शारीरशक्त्यै । वर्चसे ब्रह्मचर्यतेजसे ऐश्वर्याय वा । अद्धिरा वृहती वृहस्पति. परिधापने । परिधापनं च कटिवेष्टनं बहिर्वासवत् । 'मेख' 'लेयमिति, मौजी त्रिवृता मेखला तां मेखलां वनीते । यथार्पिग्रन्थि कुर्यात् । कथं च इयंदुरुक्तमिति मंत्रेण । मन्त्रान्वयः-दुरुक्तं दुष्टमुक्तं परितो वाधमाना अपसारयन्ती पवित्रं वर्ण ब्राह्मणादित्रयं पुनती पवित्रयन्ती आगात् आगता । पुनश्च प्राणापानयोः सामर्थ्य स्थापयन्ती अत एव नः स्वसा भगिनी दानादिगुणयुक्ता सौभाग्यदा । अहो दर्शनीयाऽहो दर्शनीयेतिवदाद्यन्तयोरभ्यासः । वामदेवस्त्रिष्टुप् मेखला तद्वन्धने । 'युवातूष्णी वा' युवा सुवासाः इति मन्त्रेण वा तूष्णी वा पक्षत्रयान्यतरपक्षेण मेखलां वनीत इत्यर्थः । अन्वयस्तु-अभ्यासेन गुणान् यौतीति मिश्रयतीति, युवा शोभनवस्त्रः अलंकरणैः परिवीतः आगतः।उ वितर्के। उत्पद्यमान.स श्रेष्ठः स्यात् । तं वटुं पण्डिताः क्रान्तदर्शिन. स्वाध्यः शोभनचित्ताः मनोव्यापारैवेदाथै वोधयन्तः उत्कर्ष प्रापयन्ति । अडिरा वृहती वृहस्पतिः । वद्धमेखलस्य वटोर्यज्ञोपवीतपरिधान, शाखान्तरीयो मन्त्रः-'यज्ञोपवीतं परमं पवित्र