________________
२०४
पारस्करगृह्यसूत्रम्
[ द्वितीया
आद्यन्तयोर्वाक्यालङ्कारार्थः । इयं मेखला मामगात् आगता । किंकुर्वती दुरुक्तं दुष्टं भापितमसत्याप्रियादिकम् परितः सर्वतः भूतं भविष्यच्च वाधमाना निराकुर्वाणा वर्ण वर्णत्वं पवित्रं शुद्धं पुनती सत्कुर्वती मे मम प्राणापानाभ्यां मरुद्रयां तयोर्बलं सामर्थ्य आदधाना स्थापयन्ती स्वसा स्त्रवत् हिता देवी दीप्तिमती सुभगा सौभाग्यदा । युवासुवासा इत्यस्यायमर्थः - यौति गुणानेकी करोतीति युवा सुवासाः शोभनवत्रः महतं शोभनमुच्यते परिवीतः वस्त्रपुष्पमालादिभिः समन्ततो वेष्टित आगात् आगतः उ वितर्के । श्रेयान् स यदि जायमानः उत्पाद्यमानः श्रेयान् शुद्धः स्यात् । धीरासः स्थिर प्रज्ञाः कवयः वेदवेदार्थप्रवक्तारः क्रान्तदर्शनाः स्वाध्यः शोभनचित्तवृत्तयः । तं च उन्नयन्ति उत्कर्षं गमयन्ति । किं कुर्वन्तः मनसा मनोवृत्त्या देवयन्तः वेदार्थ ज्ञापयन्तः । यज्ञोपवीतमन्त्रार्थ:हे आचार्य इदं ब्रह्मसूत्रमहं प्रतिमुञ्च प्रतिमुञ्चामि । प्रतिपूर्वो मुञ्चतिर्वन्धनार्थः । पुरुषव्यत्ययश्छान्दसः किंभूतं यज्ञोपवीतं यज्ञेन प्रजापतिना यज्ञाय वेदोककर्माधिकारायेति वा उपवीतं उपर स्कन्धदेशे वीतं परिहितं परमं पर आत्मा मीयते ज्ञायते तेन वाक्योपदेशाधिकारत्वात् पवित्रं शोधकं प्रजापतेर्ब्रह्मणः सहजं सहोत्पन्नं स्वभावसिद्धं वा पुरस्तात्प्राग्भवमत इदमायुपे हितं आयुष्यमस्तु अयं मुख्यमनुपहतं, शुभ्रं निर्मलं वलं धर्मसामर्थ्यदं तेजः प्रभावप्रदम् । यद्यपि सूत्रकृता यज्ञोपवीतं नोक्तं तथापि उपवीतिन इति परिभाषणात्सदा यज्ञोपवीतिना भाव्यमिति परिशिष्टाच ग्राह्यम् । कालश्चानुक्तोऽपि स्मृत्यन्तरादयमेत्र । उपवीतिन इत्यस्यायमर्थः - सर्वे उपवीतिनः सव्यस्कन्धस्थितयज्ञोपवीतवारिणः कर्म कुर्वन्तीति शेषः । उद्धृते दक्षिणे पाणावुपवीत्युच्यते चुवैरिति स्मरणात् । यज्ञोपवीती देवकर्माणि करोति । ' दण्ड सायेति ' तत आचार्यों माणव - काय तूष्णीं दण्डं प्रयच्छति समर्पयति । माणवकञ्च दक्षिणहस्तेन दण्डं प्रतिगृहाति यो मे दण्ड इति मन्त्रेण । दण्डाश्च पालाशवैल्वौदुम्बरा ब्राह्मणक्षत्रियविशां यथासंख्यं ज्ञेयाः । अथवा पालाशादयः सर्वेषां वर्णानाम् । पालाशो ब्राह्मणस्य दण्डो वैल्वो राजन्यस्यौदुम्बरो वैत्र्यस्य सर्वे वा सर्वेपामिति वक्ष्यमाणत्वात् । मानं व शाखान्तरीयं ग्राह्यम् । केशसंमितो ब्राह्मणस्य दण्डो ललाटसंमितः क्षत्रियस्य प्राणसंमितो वैश्यस्येति । । मन्त्रार्थः -- हे आचार्य यो दण्डः मे मह्यं परापतत् अभिमुख - मागत: वैहायसः आकाशे प्रसृतः अधिभूम्यां भूमेरुपरि वर्तमानः तं दण्डमहमाददे गृहामि । पुनर्ग्रहणात्सोमदीक्षायां यो दण्डो ग्राह्यस्तमप्यादद इत्याशंसनम् । किमर्थम् । आयुपे जीवनाय ब्रह्मणे वेदग्रहणाय ब्रह्मवर्चसाय याजनाध्यापनोत्कर्षतेजसे । 'दीक्षा'वचनात् ' एके आचार्या दीक्षावत्सोमयागदीक्षायां यथा तूष्णीं प्रतिगृह्योच्छ्रयस्वेत्युच्छ्रयणं विहितं तद्वत्रापीच्छन्ति । कुतः दीर्घसत्रं वा एप उपैति यो ब्रह्मचर्यमुपैतीति वचनात् । दण्डप्रतिग्रहणसामान्याद्दीर्घसत्रताऽस्योक्ता । यद्येवं न दीक्षावत्प्रतिग्रहणम् । स्मरणाभावान् । या चात्र दीर्घसत्रसंस्तुतिः सा दीर्घकालसामान्यादिति भर्तृयज्ञकर्कजयरामाः । दीक्षावद्वा दण्डग्रहणमिति वासुदेवकारिकाकारहरिहराः । 'अथा "तिसृभिः' अथाचार्योऽस्य कुमारस्याञ्जलिं स्वेनाञ्जलिना अप आदाय ताभिरद्भिः पूरयत्यापोहिष्टेति तिसृभिरृग्भिः । 'अथैन ं रिति' अथाचार्य एनं कुमारं सूर्यमुदीक्षयति सूर्य दर्शयति तचक्षुरिति मन्त्रेण । उदीक्षयतीति कारितत्वात्सूर्यमुदीक्षस्वेति प्रैप आचार्यस्य । 'अथास्य मह्यमिति' आथाचायस्य कुमारस्य दक्षिणांसमधि दक्षिणस्कन्धस्योपरि स्त्रीयं दक्षिणहस्तं नीत्वा हृदयं वक्षः आलभते स्पृशति । मम व्रते व इति मन्त्रेण । व्याख्यातश्चायं विवाहप्रकरणे । 'अथास्य 'सीति' अथाचार्योऽस्य कुमारस्य दक्षिणं हस्तं स्त्रदक्षिणहस्तेन गृहीत्वा को नामासीत्याह ब्रवीति । असावहं भो३ इति प्रत्याह । एवमाचार्येण पृष्टः कुमार आचार्य प्रत्याह । असाविति सर्वनामस्थाने आत्मनो नामग्रहणम् । अमुकोऽहं भो इति । अथैनमाह कस्य ब्रह्मचार्यसीति । अथैनं कुमारं प्रति