________________
कण्डिका] द्वितीयकाण्डम्।
२०३ परिधापयति येनेन्द्रायेति मन्त्रेण । वासांसि च शाणक्षौमाविकानि ब्राह्मणक्षत्रियविशां यथासंख्य ज्ञेयानि । वासांसि शाणक्षौमाविकानीति वक्ष्यमाणत्वात् । मन्त्रार्थः हेकुमार येन विधिना इन्द्राय संस्कर्ते वृहस्पतिः सुराचार्यों वासः पर्यदधात् परिधापितवान् । किंभूतममृतमहतं, तेन विधिना त्वा त्वां माणवक परिदधामि परिधापयामि । उभयत्रान्तर्भूतो णिच् ज्ञेयः परिधापयतीति सूत्रितत्वात् । यद्वा इन्द्राय पर्यदधात् । इन्द्रे अव्यवच्छिन्नं स्थापितवान् । तथा त्वा त्वां लक्ष्यीकृत्य परिदधामि त्वयि अव्यवच्छेदेन धारयामीति । किमर्थम् । दीर्घायुत्वाय तव चिरजीवनाय । आयुशब्द उकरान्तोऽप्यस्ति । बलाय देहशक्तये । वर्चसे इन्द्रियशक्तये ऐश्वर्याय वेति । 'मेख'''ष्णीं वा' तत आचार्यों माणवककट्यां मेखलां रशनां बनीते इयं दुरुक्तमिति मन्त्रेण । अथवा युवा सुवासा इति मन्त्रेण । अथवा तूष्णीं वधीते । आचार्यस्यैव मन्त्रपाठः। अत्रैवं बन्धनम् । आचार्यत्रिगुणां मेखलामादाय वटोः कटिप्रदेशे प्रादक्षिण्येन त्रिवेष्टयति । तृतीये वेष्टने ग्रन्थयस्त्रयः पञ्च सप्त वा कार्याः । तदुक्तम्-त्रिवृता मेखला कार्या त्रिवारं स्यात्समावृता । तद्ग्रन्थयस्त्रयः कार्याः पञ्च वा सप्त वा पुनः । अत्र प्रवरसंख्यया नियमः । व्यायस्य प्रन्थित्रयम् । पञ्चायस्य पञ्च । सप्तायस्य सप्तेति गर्गपद्धतौ । वृद्धाचारोऽप्येवमेव । आचार्यकर्तृकं मेखलावन्धनं कुमारस्य मन्त्रपाठ इति वासुदेवमुरारिमिअजयरामहरिहराः । अत्र मुरारिमित्रैखुद्धैव पुरुषयोगिमन्त्रसंस्कारयोस्त्यागे सामर्थ्यादिति हेतूपन्यासार्थ प्रदर्शितम् । नहि करणमन्त्रेऽयं न्यायः प्रवर्तते । आचार्यकर्तृको ह्ययं पदार्थः । मन्त्रपाठस्तु लिङ्गवशेन माणवककर्तृकः स्यादिति चेत्, तन्न । प्रधानभूतश्च पदार्थः गुणभूतश्च मन्त्रः । अतः पदार्थाङ्गत्वेन मन्त्रोऽपि पदार्थका पठनीयः । मन्त्रेऽपि च लक्षणया माणवकाभिधानमित्यदोषः। तथाच श्रुतिःयां वै कांच यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैव सेति।करिकायाम्-'वनीयात्रिगुणां लक्ष्णामियंदुरुक्तमुच्चरन् । आचार्यस्यैव मन्त्रोऽयं न वटोरात्मनेपदात् । अस्मिन्नवसरे समाचाराद्यज्ञोपवीताजिने भवत इति भर्तृयज्ञव्यतिरिक्तवासुदेवादिसर्वग्रन्येषु । कर्काचार्यैस्तूपत्रीतमेव लिखितम् । तत्र चाविरोधादुपवीते शाखान्तरीयो मन्त्री ग्राह्यः । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमत्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः' इति । अजिनस्योत्तरीयकरणं तूष्णीं मन्त्रपाठेन वेति वासुदेवः । 'मित्र''हमिति' मन्त्रेणाजिनधारणमिति कारिकायां गर्गपद्धतौ च । यज्ञोपवीतलक्षणं स्मृत्यर्थसारे-कासक्षौमगोवालशाणवल्कतृणादिकम् । यथा संभवतो धार्यमुपवीतं द्विजातिभिः। शुचौ देशे शुचिः सूत्रं संहताङ्गुलिमूलके । आवेष्ट्य षण्णवत्या तत्रिगुणीकृत्य यत्नतः । अलिगकैस्त्रिभिः सम्यक् प्रक्षाल्योवृतं तु तत् । अप्रदिक्षणमावृत्तं सावित्र्या त्रिगुणीकृतम् । अधः प्रदक्षिणावृत्तं समं स्यान्नवसूत्रकम् । त्रिरावेष्ट्य दृढं बद्धा हरिब्रह्मेश्वरान्नमेत् । यज्ञोपवीतं परममिति मन्त्रेण धारयेत् । सूत्रं सलोमकं चेत्स्यात्ततः कृत्वा विलोमकम् । सावित्र्या दशकृत्वोऽद्भिर्मन्त्रिताभिस्तदुक्षयेत् । विच्छिन्नं वाऽप्यधो यातं भुक्त्वा निर्मितमुत्सृजेत् । पृष्ठवंशे च नाभ्यां च धृतं यद्विन्दते कटिम् । तद्धार्यमुपवीतं स्यान्नातिलम्वं न चोच्छ्रितम् । स्तनादूर्ध्वमधो नाभेर्न धार्य तत् कथंचन । ब्रह्मचारिण एकं स्यात्नातस्य द्वे बहूनि वा । तृतीयमुत्तरीयं वा वस्त्राभावे तदिष्यते । ब्रह्मसूत्रे तु सव्येऽसे स्थिते यज्ञोपवीतिता । प्राचीनावीतिताऽसव्ये कण्ठस्थे हि निवीतिता । वस्त्रं यज्ञोपवीतार्थ त्रिवृत्सूत्रं च कर्मसु । कुशमुखबालतन्तुरज्वा वा सर्वजातिषु । कात्यायनः-सदोपवीतिना भाव्यं सदाबद्धशिखेन तु। विशिखो व्युपवीतश्च यत्करोति न तत्कृतम् । यज्ञोपवीतं द्विजत्वचिह्नार्थमिति प्रयोगरत्ने । कृष्णाजिनधारणं प्रावरणार्थम् । तच्च । व्यङ्गुलं तु बहिर्लोम यद्वा स्याचतुरङ्गुलम् । अजिनं धारयेद्विप्रश्चतुर्विशाष्टपोडशैः । इतिप्रयोगरत्ने । रशनाश्च मौज्यादिकाः मौजी रगना ब्राह्मणस्य धनुा राजन्यस्य मोवी वैश्यस्येति वक्ष्यमाणत्वात् । अजिनान्यप्यणेयादीनि । इयंदुरुक्तमित्यस्यार्थः-इयमितीदंशध्द