________________
२०२
पारस्करगृह्यसूत्रम्।
[द्वितीया तिथयस्तत्रैवोक्ताः-तृतीयैकादशी ग्राह्या पञ्चमी दशमी तथा । द्वितीयायां च मेधावी भवेदर्थबलान्वितः । रिक्तायामर्थहानिः स्यात्पौर्णमास्यां तथैव च । प्रतिपद्यपि चाप्टम्यां कुलबुद्धिविनाशकृत् । कारिकायाम् अनध्याये चतुर्थी च कृष्णपक्षे विशेषतः । अपराहे चोपनीत पुनः संस्कारमर्हति । नान्दीश्राद्धे कृते चेत्स्यादनध्यायस्त्वकालिकः । तदोपनयन कार्य वेदारम्भं न कारयेत् । लल्लाव्रतेऽह्नि पूर्वसंध्यायां वारिदो यदि गर्जेति । तदिने स्याद्नध्यायो व्रतं तत्र विवर्जयेत् । ज्योतिर्निवन्धे-नान्दीश्राद्धं कृतं चेत्स्यादनध्यायस्त्वकालिकः । तदोपनयनं कार्य वेदारम्भ न कारयेत् । मदनरले नारदः--विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे । अपराहे चोपनीतः पुनः संस्कारमर्हति । वसन्ते गलग्रहो न दोषायेत्यर्थः । अपराहस्त्रेधाविभक्तदिनतृतीयांश इत्युक्तं तत्रैव । शब्दसामर्थ्याद्वेधा विभक्त इति युक्तम् । नारदः-कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम् । त्रयोदशीचतुष्कं च अष्टावेते गलग्रहाः। राजमार्तण्ड:-आरम्भानन्तरं यत्र प्रत्यारम्भो न सिद्धयति । गर्गादिमुनयः सर्वे तमेवाहुर्गलग्रहम् । जोतिर्निवन्धे-अष्टकासु च सर्वासु युगमन्वन्तरादिपु । अनध्यायं प्रकुर्वीत तथा सोपपदाखपि । सोपपदास्तु स्मृत्यर्थसारे उक्ता:-सिता ज्येष्ठे द्वितीया च आश्विने दशमी सिता । चतुर्थी द्वादशी माघे एताः सोपपदाः स्मृताः॥चण्डेश्वरः वेदव्रतोपनयने स्वाध्यायाध्ययने तथा । न दोपो यजुपां सोपपदास्वध्ययनेऽपि च । प्रदोषदिनमपि वयम् । तत्स्वरूपमुक्तं गोभिलेन-पष्टी च द्वादशी चैव अर्द्धरात्रीननाडिका | प्रदोषमिह कुर्वीत तृतीया तूनयामिकेति । ज्योतिर्निबन्धे व्यास:--या चैत्रवैशाखसिता तृतीया माघस्य सप्तम्यथ फाल्गुनस्य । कृष्णे तृतीयोपनये, प्रशस्ताः प्रोक्ता भरद्वाजमुनीन्द्रमुख्यैः । यत्तु वृहद्गार्यवचनम्-अनध्यायं प्रकुर्वीत यस्तु नैमित्तिको भवेत् । सप्तमी माघशुक्ले तु तृतीया चाक्षया तथा । बुधत्रयेन्दुवाराश्च शस्तानि व्रतबन्धने । इति प्रायश्चित्तार्थोपनयनपरम् । तथा च निर्णयामृते कालादर्श च-स्वाध्यायवियुजो घस्राः कृष्णप्रतिपदादयः । प्रायश्चित्तनिमित्ते तु मेखलाबन्धने मता इति । ज्योतिर्निवन्धे नारदः-शाखाधिपतिवारश्च शाखाधिपवलं तथा । शाखाविपतिलग्नं च दुर्लभं त्रितयं व्रते । संग्रहे ऋगथर्वसामयजुपामधिपा गुरुसौम्यभौमसिताः । जीवो विप्राणां क्षत्रियस्य चोष्णगुर्विशां चन्द्र इति । गर्ग:-हे रवीन्द्वोरवनिप्रकम्पे केतूद्गमोल्कापतनादिदोषे । व्रते दशाहानि वदन्ति तज्ज्ञास्त्रयोदशाहानि वदन्ति केचित् । संकटे तु चण्डेश्वर:-दाहे दिशां चैव धराप्रकम्पे वज्रप्रपातेऽथ विदारणे च । केतौ तथोल्कांशुकणप्रपाते त्र्यहं न कुर्याद्बतमनलानि । अनध्यायास्तु वातेऽमावस्यायामित्यत्र द्रष्टव्याः । कालश्चोक्तः, इदानी कर्माह ' ब्राह्म" च' उपनेता आभ्युदयिकब्राह्मणव्यतिरिक्तांस्त्रीन् ब्राह्मणान्भोजयेदाशयेत् तं च कुमारं भोजयेत् । चशब्दो भोजनक्रियानुकर्षणार्थः। 'पर्यु' 'यन्ति' परिपूर्वस्य वपतेः कृतसंप्रसारणस्यैतद्रूपम् । परि सर्वत उप्तं मुण्डितं शिरो यस्य स पर्युप्तशिराः तं पर्युप्तशिरसं अलंकृतं स्रङ्मालादिना भूषितम् । आनयन्ति ये पूर्व तेनाचार्येणोपनीतास्ते एनमाचार्यसमीपमानयन्ति । इदमानयनं चाध्ययनार्थम् । अतस्तदभावाच्छूद्रस्यानधिकारः। शूद्रस्य प्रतिषेधो भवत्यध्ययनं प्रति-अवणे त्रपुजतुभ्यां श्रोत्रपूरणमुञ्चारणे जिह्वाच्छेदो धारणे शरीरभेद इति । वपनं च भोजनात्पूर्वमेव कार्य नहीदानी तदुपदेशो भूतकालनिर्देशात् । पश्चादग्नेरवस्थाप्य ब्रह्मचर्यमागामिति वाचयति । आनयनानन्तरमाचार्योऽः पश्चात्स्वस्य च दक्षिणतः कुमारमवस्थाप्यावस्थितं कृत्वा ब्रह्मचर्यमागामिति बृहीत्येवं चाचयति, ततो माणवकः प्राड्मुखस्तिष्ठन्नेव ब्रह्मचर्यमागामिति वदति । मन्त्रार्थः-ब्रह्मचर्य प्रति अहमागां आगतोऽस्मि । ब्रह्म वेदस्तचरणम् । 'ब्रह्म""नीति च ' तत आचायः ब्रह्मचार्यसानीति बहीति वाचयति । चश'ब्दान्माणवकश्च प्राड्मुखस्तथैव तिष्ठन् ब्रह्मचार्यसानीति ब्रूयात् । मन्त्रार्थः-ब्रह्म कर्म चरतीति एवं शीलो ब्रह्मचारी अहमसानि भवामि । अथैनं"चस इति । अथाचार्य एनं कुमारं वासोऽहतं