________________
fusar ]
द्वितीयकाण्डम् |
२०१
'अथैन' ''वासाविति ' अथ प्रतिवचनानन्तरमाचार्य एनं माणवकं कस्य ब्रह्मचार्यसीत्याह पृच्छति भवत इति माणवकेनोच्यमाने इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तव अमुकशर्मन्निति पठति । ' अथै 'दाति' अथानन्तरमेनं कुमारमाचार्यः भूतेभ्यः प्रजापतिप्रभृतिभ्यः परिरक्षितुं ददाति प्रयच्छति तत्र मन्त्रः प्रजापतये त्वेत्यादि अरिष्ट्या इत्यन्तः ॥ ॥ २ ॥
॥ * ॥ ( गदाधर: ) -- अथोपनयनमाह ' अष्ट 'नयेत्' प्रसवानन्तरमष्टौ वर्षाण्यतीतानि यस्य बालकस्यासौ अष्टवर्षः तमष्टवर्षं ब्राह्मणमुपनयेत् । उपनयनसंस्कारेण संस्कुर्यात् । आचार्यस्य उप समीपे माणवकस्य नयनं उपनयनशब्देनोच्यते । उपनयनं च विधिना आचार्यसमीपनयनम्, अग्निसमीपनयनं वा, सावित्रीवाचनं वाऽन्यदङ्गमिति स्मृत्यर्थसारे । उपनेतृक्रममाह वृद्धगर्गः - पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः । उपायनेऽधिकारी स्यात्पूर्वाभावे परः परः । तथा -- पितैवोपनयेत्पुत्रं तदभावे पितुः पिता । तदभावे पितुर्भ्राता तदभावे तु सोदरः । पितेति विप्रपरं न क्षत्रियवैश्ययो: । तयोस्तु पुरोहित एव उपनयनस्य दृष्टार्थत्वात् । तयोस्त्वध्यापनेऽनधि - कारात् । 'गर्भाष्टमे वा' अथवा ब्राह्मणं गर्भसहिताष्टवार्षिकमुपनयेत् । गर्भाष्टमेष्विति पाठो हरिहरभर्तृयज्ञभाष्ये । ' एका "न्यम् ' एकादशवर्षाण्यतीतानि यस्यासावेकादशवर्षस्तं राजन्यं क्षत्रिय - मुपनयेत् । जन्मतो द्वादशवर्षे इत्यर्थः । ' द्वादश्यम् ' द्वादश वर्षाण्यतीतानि यस्यासौ तथा तं वैश्यं वर्णतृतीयमुपनयेत् । जन्मतस्त्रयोदशे वर्षे इत्यर्थः । ' यथा'' 'र्वेषाम् ' अथवा सर्वेषामेव वर्णानां ब्राह्मणक्षत्रियविशां यथामङ्गलं शास्त्रान्तरविहितकालान्तरे उपनयनं भवति । अत्राश्वलायनः---गर्भाष्टमेऽष्टमे वाऽब्दे पञ्चमे सप्तमेऽपि वा । द्विजत्वं प्राप्नुयाद्विप्रो वर्षे त्वेकादशे नृपः । आपस्तम्बः– गर्भाष्टमेषु ब्राह्मणमुपनयीतेति । बहुवचनं गर्भपष्टसप्तमयोः प्रात्यर्थमिति सुदर्शनभाष्ये । आपस्तम्बः -- अथ काम्यानि सप्तमे ब्रह्मवर्चसकाममष्टमे आयुष्यकामं नवमे तेजस्कामं दशमेऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकाममुपनयेत् । मनुः -- त्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थार्थिनोऽष्टमे । विष्णुः षष्ठे तु धनकामस्य विद्याकामस्य सप्तमे । अष्टमे सर्वकामस्य नवमे कान्तिमिच्छतः । नृसिहः – उत्तरायणगे सूर्ये कर्तव्यं द्यौपनायनम् । श्रुति:वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम् । मासविपये ज्योतिषे - माघादिषु च मासेपु च शस्यते । गर्गः -- विप्रं वसन्ते क्षितिपं निदाघे वैश्यं घनान्ते व्रतिनं विदध्यात् । माचादिशुक्लान्तिकपञ्चमासाः साधारणा वा सकलद्विजानाम् । वृहस्पतिः - शुक्लपक्षः शुभः प्रोक्तः कृष्णश्वान्त्यत्रिकं विना । वृत्तशतेन जन्मधिष्ण्ये न च जन्ममासे न जन्मकालीनदिने विदध्यात् । ज्येष्ठे न मासि प्रथमस्य सूनोस्तथा सुताया अपि मङ्गलानि । वृहस्पतिः -- मिथुने संस्थिते भानौ ज्येष्ठमासो न दोषकृत् । राजमार्तण्डः -- जातं दिनं दूपयते वसिष्टो ह्यष्टौ च गर्गों नियतं दशात्रिः । जातस्य पक्षं किल भागुरिव शेषाः प्रशस्ताः खलु जन्ममासि । जन्ममासे तिथौ भे च विपरीतदले सति । कार्य मङ्गलमित्याहुर्गर्गभार्गवशौनकाः । जन्ममासनिषेधेऽपि दिनानि दश वर्जयेत् । आरभ्य जन्मदिवसाच्छुभाः स्युस्तिथयोऽपरे । वृहस्पतिः - झपचापकुलीरस्थो जीवोऽप्यशुभगोचरः । अतिशोभनतां दद्याद्विवाहोपनयादिषु । कारिकायाम् - द्वादशाष्टमवन्धुस्थे मनसाऽपि न चिन्तयेत् । ग्रन्थान्तरे-शुद्धिर्नैव गुरोर्थस्य वर्षे प्राप्तेऽष्टमे यदि । चैत्रे मीनगते भानौ तस्योपनयनं शुभम् । कारिकायाम् अतीव दुष्टे सुररानपूज्ये सिंहस्थिते वा द्विजपुङ्गवानाम् । व्रतस्य बन्धः खलु मासि चैत्रे कृतश्चिरायुः शुभसौख्यदः स्यात् । एतदष्टवर्षविषयम् । ग्राह्यनक्षत्राणि मदनपारिजाते - हस्तत्रये दैत्यरिपुत्रये च शक्रेन्दुपुष्याश्विनिरेवतीषु । वारेषु शुक्रार्कवृहस्पतीनां हितानुवन्धी द्विजमौि बन्धः । राजमार्तण्डस्तु पुनर्वसुं ब्राह्मणस्य निषेधति -- पुनर्वसौ कृतो विप्रः पुनः संस्कारमर्हति इति ।
1
२६