________________
२००
पारस्करगृह्यसूत्रम् ।
[द्वितीया वर्षासु। वर्षाशब्देन शरदेवाभिधीयते । ऋतुः संवत्सरो ग्रीष्मो वर्षा हेमन्त इति पारस्करवचनाद्वस्विन्तर्भवति शरत् । एवमुपनयनकालमभिधायेदानी कहि ब्राह्म' 'तं च त्रीन् ब्राह्मणान् भोजयेत् आशयेत् । तं च कुमारं वपनानन्तरमाशयेदिति चकारेणानुपज्यते । 'पर्यु' 'यन्ति' परि सर्वत उप्तं मुण्डितं शिरो यस्य स पर्युप्सशिरास्तमलंकृतं यथासंभवं रत्नसुवर्णनिर्मितैः कुण्डलाद्यलंकारैः आनयन्ति आचार्यपुरुषाः आचार्यसमीपम् । आचार्यलक्षणं यमेनोक्तम्-सत्यवाक् धृतिमान्दक्षः सर्वभूतदयापरः । आस्तिको वेदनिरतः शुचिराचार्य उच्यते । वेदाध्ययनसंपन्नो वृत्तिमान्विजितेन्द्रियः । न याजयेद्वत्तिहीनं वृणुयाञ्च न तं गुरुमिति । ' पश्चा' 'यति । तत आचार्यों माणवकममेः पश्चिमतः आत्मनो दक्षिणतोऽवस्थाप्य अवस्थितं कृत्वा ब्रह्मचर्यमागामिति बहीति प्रैषमुक्त्वा माणवकं ब्रह्मचर्यमागामिति वाचयति । 'ब्रह्मति च ' ब्रह्मचार्यसानीत्याचार्यों माणवकं प्रेषयति प्रेषितश्च माणवकः ब्रह्मचार्यसानीति वदेत् । अथै 'वर्चस' इत्यन्तम् । अथ वाचनानन्तरमेनं कुमारं आचायों वक्ष्यमाणलक्षणं शाणादिवासः परिधापयति परिहितं कारयति येनेन्द्रायेत्यादिमन्त्रं पठित्वा । मेखला वनीते । ततो मेखलां मौज्यादिकां वक्ष्यमाणलक्षणां बनीते कटिप्रदेशे त्रिवृत्तां प्रवरसङ्ख्यानन्थियुतां प्रादक्षिण्येन परिवेष्टयति इयं दुरुक्तमित्यादिना मेखलेयमित्यन्तेन मन्त्रेण माणवकपठितेन | युवासुवासा इत्यादि देवयन्त इत्यन्तेन वा मन्त्रेण मन्त्ररहितं तूष्णीं वा मेखलां वनीते । अत्र यद्यपि सूत्रकारेण यज्ञोपवीतधारणं न सूत्रितं तथाप्येकवस्त्राः प्राचीनावीतिन इति प्रेतोदकदाने प्राचीनावीतित्वविधानात्, दण्डाजिनोपवीतानि मेखलां चैव धारयेदिति याज्ञवल्क्येन ब्रह्मचारिण उपवीतधारणस्मरणात्, तथा 'सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखो व्युपवीतश्च यत्करोति न तत्कृतम् ' इति छन्दोगपरिशिष्टे कात्यायनेन सामान्यतः सर्वाश्रमिणां सदायज्ञोपवीतधारणस्मरणाच यज्ञोपवीतधारणं तावदुपनयनप्रभृति प्राप्तं तच्च कुत्र कर्तव्यमित्यवसरापेक्षायां औचित्यान्मेखलाबन्धनानन्तरं युज्यते । एतदेव कर्कोपाध्यायवासुदेवदीक्षितरेणुदीक्षितप्रभृतयः स्वस्वप्रन्थे यज्ञोपवी. तधारणमत्रावसरे लिखितवन्तः । तच सर्वकर्माङ्गत्वान्मन्त्रवाज्यत इति मन्त्रमपि शाखान्तरीयं लिखितवन्तः । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमत्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज इति माणवकपठितेन मन्त्रेण उपवीतं परिधापयति आचामयति च । अथ तूष्णीमैणेयमजिनमुत्तरीयं करोति मित्रस्य चक्षुरिति मन्त्रेणेत्यन्ते कर्काचारजिनधारणमेव नोक्तम् । 'दण्डं "पतदिति । आचार्यों माणवकाय वक्ष्यमाणलक्षणं दण्डं प्रयच्छति तूष्णीं माणवकश्च तं दण्डं यो मे दण्ड इत्यादिना ब्रह्मवर्चस इत्यन्तेन मन्त्रेण प्रतिगृह्णाति । दीक्षा"चनात् । एके आचार्या दीक्षावत् दीक्षायां यथा दण्डप्रदानं सोमे तथेच्छन्ति तत्र उच्छ्रयस्ववनस्पत इत्यादिना यज्ञस्योदृच इत्यन्तेन मन्त्रेण यजमानो दण्डमुच्छ्रयति तद्वत्र ब्रह्मचारी । केन हेतुना दीर्घसत्रं वा एष उपैति यो ब्रह्मचर्यमुपैतीत्यारभ्य ब्रह्मचर्यस्य दीर्घसत्रसंपत्प्रतिपादनात् । 'अथास्या "मृभिः' अथ दण्डप्रदानानन्तरमाचार्यः अस्य माणवकस्याञ्जलिं स्वकीयाञ्जलिस्थाभिरद्भिः आपोहिष्ठेत्यादिकाभिस्तिसृभित्रग्भिः पूरयति । अथैः "क्षुरिति । अथाञ्जलिपूरणानन्तरमेनं माणवक सूर्यमुदीक्षस्वेत्येवं प्रेष्य सूर्यमादित्यमुदीक्षयति अवलोकनं कारयति सच प्रेपितः तचक्षुरित्यादिना भूयश्च शरदः शतादित्यन्तेन मन्त्रेण सूर्यमुदीक्षते । ' अथास्य'''ते त इति । अथ सूर्यदर्शनानन्तरमाचार्योऽस्य माणवकस्य दक्षिणांसमधि दक्षिणस्कन्धस्योपरि स्वं दक्षिणहस्तं नीत्वा हृदयं वक्षः मम व्रते त इत्यादिना वृहस्पतिष्ठा नियुनक्तु मह्यमित्यन्तेन मन्त्रेण आलभते स्पृशति । 'अथास्य""यासीति' अथ हृदयालम्भनानन्तरमाचार्योऽस्य माणवकस्य स्वकीयेन हस्तेन दक्षिणं हस्तं गृहीत्वा धृत्वा को नामासीत्याह प्रवीति । 'असा त्याह' एवं पृष्टो माणवकः असौ अमुकशमाऽहं भो इति प्रत्याह प्रतिवचनं दद्यात् ।