________________
कण्डिका] द्वितीयकाण्डम् ।
१९९ मेखलावन्धनम् । अत्रावसरे यज्ञोपवीताजिने भवत आचारात् । तत्राचाविरोधित्वादुपशाखान्तरीयोऽपि मन्त्रो गृह्यते । ततश्चाचार्यों माणवकायोपवीतं ददाति स च तत्प्रतिगृह्य परिधत्ते । ' यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमत्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं वलमस्तु तेजः' इति मन्त्रेण । अस्यार्थः-तत्र प्रजापतिस्त्रिष्टुप् लिङ्गो यज्ञोपवीतपरिधाने० । हे आचार्य इदं ब्रह्मसूत्रमहं प्रतिमुञ्च प्रति मुञ्चानि वनानीत्यर्थः । प्रतिपूर्वो मुञ्चतिर्वन्धनार्थः । पुरुपव्यत्ययश्छान्दसः । किं भूतं यज्ञोपवीतम् । यज्ञेन प्रजापतिना. यज्ञाय वेदोक्तकर्माधिकारायेति वा । उपवीतं रचितं परमं पर आत्मा मीयते ज्ञाप्यते तेन वाक्योपदेशाधिकारित्वात् । पवित्रं शोधकं प्रजापतेत्रह्मणः सहज स्वभावशुद्धं पुरस्तात्प्राग्भवमत इदमायुषे हितमायुप्यमस्तु । अयं मुख्यमनुपहनं शुभ्रं निर्मलीकरणं वलं धर्मसामर्थ्यप्रदं तेजः प्रभावप्रदम् । अस्यात्रानुक्तिः कात्यायनपरिभापितत्वात् । परिभाषा च वचनात् अन्यच्छेपमितरे यथाख्यमुपवीतिन इति । अजिनं नु एण्या एवाखण्डं तूष्णीम् । अथाचार्योऽस्मै दण्डं प्रयच्छति । माणवकञ्च प्रतिगृहाति 'यो मे दण्डः' इति मन्त्रेण । अस्यार्थः-तत्र प्रजापतिर्यजुः दण्डः तद्ग्रहणे हे आचार्य यो दण्डः मे मह्यं परापतत् अभिमुखमागतः वैहायसः आकाशे प्रसृतः अधिभूम्यां भूमेरुपरि वर्तमानः तं दण्डमहमाददे गृह्णामि । पुनर्ग्रहणात्सोमदीक्षायां यो दण्डो ग्राह्यः तमप्याददे इत्याशंसनम् । किमर्थम् । आयुपे निर्दुष्टजीवनाय ब्रह्मणे वेदग्रहणाय ब्रह्मवर्चसाय याजनाध्यापनोत्कर्पतेजसे । दीक्षावत् सोमदीक्षायां यथा तूष्णीं दण्डग्रहणं विहितं तद्वद्यापीत्येके आचार्याः । कुतः दीर्घसत्रं वा एप उपैतीति यो ब्रह्मचर्यमुपैतीति वचनात् । दण्डप्रतिग्रहणसामान्याहीसत्रताऽस्योक्ता । यद्येवं न दीक्षावत्प्रतिग्रहणं स्मरणाभावात् । या चात्र दीर्घसत्रसंस्तुतिः सा दीकालसामान्यात् । अथाचार्योऽस्य अनलिं स्वेनाञ्जलिनाऽप आदाय ताभिः पूरयत्यापोहिष्ठेति तिसृभित्रग्भिः । अथैनं सूर्यमुदीक्षस्वेति प्रेपयत्याचार्यः । स च तत्प्रेषितस्तच्चक्षुरिति मन्त्रेणोदीक्षते । अथास्य वटोर्दक्षिणांसस्योपरि स्वदक्षिणहस्तं नीत्वाऽऽहाचार्यों 'मम व्रते ते हृदयं दधामीति मन्त्रेण । व्याख्यातश्चायं विवाहप्रकरणे ! अथास्य दक्षिणहस्तग्रहणेनाभिमुखीकरणं कृत्वाऽऽहाचार्यः । को नामासीति । ततो वटुः प्रत्याह असौ अमुकशर्माऽहमस्मि भो ३ इति । अथैनमाचार्य आह कस्येति । भवत इति वटुनोक्ते तुष्ट आहाचार्य इन्द्रस्येति । इदि परमैश्वर्य इन्द्रस्य प्रजापतेब्रह्मचारी त्वमसि । तव चाग्निराचार्यः प्रथमः द्वितीयस्तव चाहम् । हे अमुकशर्मन् ब्रह्मचारिन् । अथैनं वटुं भूतेभ्यः परितः अरिष्यै रक्षायै ददाति गुरुः प्रजापतये वेति मन्त्रेण । आस्यार्थः सुगमः । तत्र प्रजापतिर्यजुलिकोक्ता रक्षणे० ॥२॥
(हरिहरः)- अष्ट'' 'मे वा । अष्टौ वर्षाण्यतीतानि यस्यासौ अष्टवर्पस्तं ब्राह्मणं द्विजोत्तम उपनयेत् उपनयनाख्येन संस्कारेण संस्कुर्यात् । गर्भाप्टमे वा गर्भः गर्भसहचरितोऽन्दः अष्टमो येषां तानि गर्भाष्टमानि तेपु अतीतेपु वा उपनयेत् । ततश्च जन्मतो नवमेऽष्टमे वा वर्षे उपनयेदित्यर्थः । 'एका 'जन्यम् । एकादशवर्पाण्यतीतानि यस्यासौ एकादशवर्षस्तं जन्मतो द्वादशवर्प इत्यर्थः । राजन्यं क्षत्रियमुपनयेदित्यनुषज्यते । 'द्वाद' 'श्यम् ' द्वादशवर्पाण्यतीतानि यस्यासौ तथा तं जन्मतस्त्रयोदशे वर्षे वैश्यमुपनयेत् । 'यथा ''पाम् । पक्षान्तरमाह अथवा सर्वेपां ब्राह्मणक्षत्रियविशां यथामङ्गलं यथाकुलधर्म यद्वा यथामङ्गलशब्देन स्मृत्यन्तरोक्तपञ्चवपादिकालसंग्रहः । यथाऽऽह मनु:ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । राज्ञो वलार्थिनः पष्ठे वैश्यस्येहार्थिनोऽष्टमे । आपस्तम्बोऽपि-अथ काम्यानि । सप्तमे ब्रह्मवर्चसकाममष्टमे आयुष्काम नवमे तेजस्कामं दशमे अन्नाद्यकाम'मेकादशे इन्द्रियकामं द्वादशे पशुकाममुपनयेत् । वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि ____ वैश्यम् । गर्भाष्टमे वर्षे वसन्ते ब्राह्मण आत्मानमुपनाययेत् । 'एकादशे क्षत्रियो ग्रीष्मे । द्वादशे वैश्यो