________________
पारस्करगृह्यसूत्रम् ।
[ द्वितीया
पवीतमेवेच्छन्ति । अथ तूष्णीमैणेयमुत्तरीयमजिनं करोति । ' दण्डं इति ' प्रयच्छत्याचार्यः । कुमारः प्रतिगृहाति । 'दीक्षा' ' 'चनात् ' दीक्षावदेके' आचार्याः दण्डं प्रतिग्रहीतुमिच्छन्ति । कुत एतत् । दीर्घसत्रमुपैतीति वचनात् । दीर्घसत्रं वा एप उपैति यो ब्रह्मचर्यमुपैतीति वचनात् । दण्डप्रतिग्रहणसामान्यादीर्घसत्रताऽस्योक्ता यद्येवं न दीक्षावत्प्रतिग्रहणं स्मरणाभावात् । या अत्र दीर्घसत्रसंस्तुतिः सा दीर्घकालसामान्यात् । ' अथास्या 'सृभिः ' अथास्य कुमारस्याञ्जलिं पूरयत्यद्भिराचार्यः स्वेनाafeना आदाय आपोहिष्टेति तिसृभिरृग्भिः । ' अथैन' रिति ' इत्यनेन मन्त्रेणावेक्षते । सूर्यमुदीक्षस्वेत्याचार्यप्रैप: । ' अथास्य 'भते मम व्रते ते ' इत्याचार्य: । अथास्य दक्षिण- हस्तं गृहीत्वाsss को नामासीत्याचार्य: । असावहं भो इति प्रत्याह कुमारः । अथैनमाह कस्य ब्रह्मचार्यसीत्याचार्य एव । भवत इत्युच्यमाने कुमारेण इन्द्रस्य ब्रह्मचार्यसीत्यमुं मन्त्रमाहाचार्यः । असाविति नामादेश: ' अथैनं "रिष्टया' इत्यनेन मन्त्रेण ॥ २ ॥
१९८
( जयरामः ) ~~' अनुनयेन् ' उपनयनाख्यसंस्कारेण संस्कुर्यात् अष्टमे वर्षे । गर्भसहचरितं वर्षे गर्भशब्देनाभिधीयते । साहचर्यात् । तथाच गौतमः --- गर्भादिसङ्ख्या वर्षाणामिति । वाशब्दो विक पार्थः । एकाद्यावमित्यादौ उपनयेदित्यनुपज्यते । ' यथेति ' सर्वेपां ब्राह्मणादीनां यथामङ्गलं शास्त्रान्तरविहितकालान्तरकृतमुपनयनं भवति यथा पञ्चमे पष्ठे नवमे वा कार्यमिति । ब्राह्मणान् श्राद्धव्यतिरिक्तान् त्रिप्रभृतीन् भोजयेत् । तं च कुमारं पर्युप्तशिरसं मुण्डितमुण्डं भोजयेत् । परिपूर्वो वपतिर्मुण्डने । शिरसा वपनं भोजनात्प्रावेग भवति । भूतकालनिर्देशात् । अलंकृतं स्रगादिना तेनाचार्येणोपनीता एनमाचार्यसमीपमानयन्ति । आचार्यश्च तमग्नेः पश्चात्स्वस्य च दक्षिणतोऽवस्थाप्य ब्रह्मचर्यमागामिति ब्रूहीति वाचयति । ब्रह्मचार्यसानीति ब्रूहीति वाचयति चराद्वात् माणवकश्च प्राङ्मुखतिष्ठंस्तथैव ब्रूयात् । अथाचार्य एनं कुमारं वासोऽहतं परिधापयति । ' येनेन्द्रायेति ’ मन्त्रेण स्वयं पठितेन । अस्थार्थः -- तत्राङ्गिरा वृहती वृहस्पतिर्वासः परिधापने० । हे कुमार येन वि धिना इन्द्राय इन्द्रं संस्कर्तु वृहस्पतिः सुराचार्यो वासः पर्यदधात् परिधापितवान् । किंभूतम् ? अमृतम् अहतं तेन विधिना त्वा त्वां माणवकं परिदधामि परिधापयामि । उभयत्रान्तर्भूतो णिच् ज्ञेयः । परिधापयतीति सूत्रितत्वात् । यद्वा इन्द्राय पर्यदधात् । इन्द्रे अव्यवछिन्नं स्थापितवान् । तथा त्वा त्वां लक्ष्यीकृत्य परिदधामि त्वयि अव्यवच्छेदेन धारयामीति । प्रयोजनमाह । दीर्घायुत्वाय तव चिरजीवनाय आयु: उकारान्तोऽप्यस्ति । वलाय देहशक्तये वर्चसे इन्द्रियशक्तये ऐश्वर्याय वेति । अथाचाय माणवककयां मेखलां वनीते ' इयं दुरुक्तम् ' इति मन्त्रेण माणवकपठितेन मन्त्रलिङ्गात् । अस्यार्थ:- :-तत्र वामदेवस्त्रिष्टुप् मेखला उद्बन्धने ० । इयमितीदंशब्द आद्यन्तयोर्वाक्यालङ्कारार्थः । इयं मेखला मां अगात् आगता । किं कुर्वती । दुरुक्तमित्युपलक्षणम् । तेन कामचारवाद्भक्षणात् तज्जातं वाsपावित्र्यं परितो बाधमाना अपसारयन्ती । वर्ण वर्णत्वं पवित्रं शुद्धं पुनती संरकुर्वती । मे मम प्राणापानाभ्यां तयोर्वलं सामर्थ्यमादधाना स्थापयन्ती स्वसा स्वसृवत् हिता देवी दीप्तिदात्री सुभगा सौभाग्यप्रदा । ' युवसुवासा' इत्यनेन वा । अस्यार्थः -- तत्राङ्गिरा वृहती बृहस्पतिः परिधाने० । यौति गुणानेकीकरोतीति युवा सुवासाः शोभनवस्त्र: अहतं शोभनमुच्यते । तत्र - ईपद्वौ नवं श्वेतं सदृशं यन्न धारितम् । अहतं तद्विजानीयात्सर्वकर्मसु पावनमिति । यत्तूक्तम् । अहतं यन्त्रनिर्मुक्तमुक्तं वासः स्वयं भुवा । स्वच्छं तन्माङ्गलीकेषु तावत्कालं न सर्वदेति । तद्विवाहादिविषयमिति व्यवस्था | परिवीतः माल्याभरणैरलंकृतः य एवं भूतो मेखलार्थमागात् आगतः । उ वितर्के । स यदि जायमानः श्रेयान् शुद्धः स्यात् । धीरासः स्थिरप्रजाः कवयः क्रान्तदर्शनाः स्वाध्यः शोभनचित्तवृत्तयः तं वटुसुनयन्ति उत्कर्ष गमयन्ति । किं कुर्वन्तः मनसा मनोवृत्त्या देवयन्तः वेदार्थ ज्ञापयन्तः । तूष्णीं वा