________________
डिका ]
द्वितीयकाण्डम् |
१९७
जायमानः ॥ तं धीरासः कवय उन्नयन्ति स्वाथ्यो मनसा देवयन्त इति वा ॥ ९ ॥ तूष्णीं वा ॥ १० ॥ [ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्स हजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामीत्यथाजिनं प्रयच्छति मित्रस्यचक्षुर्द्धरुणं बलीयस्तेजो यसस्वि स्थविर समिद्धं अनाहनस्यं वसनं जरिष्णुः परीदं वाक्यजिनं दधेऽहमिति ] दण्डं प्रयच्छति ॥ ११ ॥ तं प्रतिगृह्णाति यो मे दण्डः परापतद्वैहायसोऽधिभूम्यां तमहं पुनरादद आयुषे ब्रह्मणे ब्रह्मवर्चसायेति ॥ १२ ॥ दीक्षावदेके दीर्घसत्रमुपैतीति वच नात् ॥ १३ ॥ अथास्याद्भिरञ्जलिनाऽञ्जलिं पूरयति आपोहिष्ठेति तिसृभिः ॥ १४ ॥ अथैन सूर्यमुदीक्षयति तच्चक्षुरिति ॥ १५ ॥ अथास्य दक्षि णासमधि हृदयमालभते । मम व्रते ते हृदयं दधामि । मम चित्तमनुचित्तं ते अस्तु मम वाचमेकमना जुषस्व बृहस्पतिष्ट्वा नियुनक्तु महामिति ॥ १६ ॥ आथास्य दक्षिण हस्तं गृहीत्वाऽऽह को नामासीति ॥ ॥ १७ ॥ असावहं भो ३ इति प्रत्याह || १८ || आथैनमाह कस्य ब्रह्मचासीति ॥ १९ ॥ भवत इत्युच्यमान इन्द्रस्य ब्रह्मचार्यस्य निराचार्यस्तवाहमाचार्यस्तवासाविति ॥ २० ॥ अथैनं भूतेभ्यः परिददाति प्रजापतये त्या परिददामि देवाय त्वा सवित्रे परिददाम्यद्भ्यस्त्वौषधीभ्यः परिददामि द्यावापृथिवीभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इति ॥ २१ ॥ २ ॥
1
( कर्कः )~~' अष्ट’''नयेत् ' उपनयनसंस्कारं कुर्यादष्टमे वर्षे ।' गर्भाष्टमे वा ' गर्भसहितं वर्षे गर्भशब्देन साहचर्यादभिधीयते । तथाच गौतमः --गर्भादिसंख्या वर्षाणामिति । वाशब्दो विकल्पार्थः । ' एका ं‘जन्यम् ' ' द्वादश्यम् ' उपनयेत् । 6 यथा 'र्वेषाम् ' सर्वेपां ब्राह्मणादीनां यथामङ्गलं वा भवति । मङ्गलशब्दः शास्त्रान्तरवाची । यथा पञ्चमे नवमे वा कार्यमित्येवमादि ब्राह्मतं च श्रद्धव्यतिरिक्तान् ब्राह्मणान्भोजयेत् । तं चेति कुमारोऽभिधीयते । 'पर्युयन्तिपरिपूर्वस्य वपतेः कृतसंप्रसारणस्यैतद्रूपम् । पर्युप्तं शिरोऽस्येति पर्युप्तशिराः तं पर्युप्तशिरसम् । अलंकृतं खमालादिना । आनयन्ति तदाचार्येणोपनीताः । शिरसच परिवपनं भोजनात्पूर्वमे कर्तव्यम् । नेदानीं तदुपदेशो भूतकालनिर्देशात् । ' पश्चा' 'यति ' अग्नेः पश्चात्कुमारमवस्थाप ब्रह्मचर्यमागामिति ब्रूहीत्येवं वाचयत्याचार्य: । ब्रह्मचार्यसानीति च । चशब्दाद्वाचयति । 'अथैन्त्रेण ‘मेख'''वासा ' इत्यनेन मन्त्रेण वा । तुष्णीं वा मेखलां वनीते । अस्मिन्नवसरे प्रसिद्धया यज्ञ