________________
१९६
पारस्करगृह्यसूत्रम् ।
[द्वितीया
द्वितीये तृतीये च तृतीयांशरूपे केशभागे अधिवासनाहनि पृथग्बद्धे क्रमेणापरं वारद्वयमुन्दनकेशव - नयनकुश तृणान्तर्द्धानस्तृणकेशप्रच्छेदनोद्गवस्थितानडुहगोमयपिण्डप्रक्षेपान्तं तूष्णीं कुर्यादित्यर्थः । जातत्वात् क्षुरादाननिवृत्तिः । ' इतरयोश्चन्दनादि ' इतरयोः पश्चिमोत्तरयोगोंदानयोः सकृत्समन्त्रकं द्विस्तूष्णीमित्यनुकर्षणार्थश्वकारः । किं तदित्याह ' उन्दनादि । पाश्चात्यगोदाने प्रवपने द्वितीयमन्त्रस्थानापन्नं मन्त्रान्तरमाह ' अथ पश्चा""स्वस्तय इति ' उत्तरगोदानेऽपि निवर्तयामीति मन्त्रानन्तरं द्वितीयोऽयं प्रवपनमन्त्री येनभूरिश्वरादिवमिति । अस्यान्वयः - हे कुमार येन ब्रह्मणा मन्त्रेण तपसा वा चरा चरणशीलो वायुः ज्योक् चिरमाकल्पमित्यर्थः । दिवं द्यां पश्चात् तामनुसूयै तमनु विश्वं च चरति । किंभूतः ? भूरिः प्रचुरः तेन ब्रह्मणा तपसा वा तन्मन्त्रितक्षुरेण वा ते तव शिरो वपामि । किमर्थ, जीवात जीवनहेतवे धर्माद्यर्थ जीवनायायुषे सुश्लोक्याय शोभनयशसे स्वस्तये मङ्गलाय । अस्य वामदेवो यजुः क्षुरः केशच्छेदने । 'त्रिःक्षुहरति ' प्रदक्षिणं यथा स्यात् तथा शिरसि परितः सर्वतः हरति भ्रामयति । किमित्यत उक्तं क्षुरेणेति द्वितीयायें तृतीया । सकृदसकृद्वेत्याशङ्कयाह त्रिरिति । शिरसि त्रिवारं प्रदक्षिणं भ्रामयतीत्यर्थः । केशान्ते विशेषमाह 'समुखं केशान्ते' तूष्णीं मन्त्रेण वेत्याकाङ्क्षायामाह 'यत्क्षुरे'' "मोपीरिति । अस्यान्वयः - हे क्षुर अस्य कुमारस्य केशान् छिन्धि मुण्डय । यत् यस्माद्वप्वा क्षुरेण नापितः वपति मुण्डयति किंभूतेन संस्कार्य कुमारं मज्ज - यता संस्कुर्वता तथा सुपेशसा शोभयता, वाशब्दश्चार्थे ' शिरः आयुश्च मा प्रमोषी: मा सुषाण मा चोरय । मुषस्तेये । अस्य वामदेवो. यजुः क्षुरः भ्रामणे । केशान्ते त्वस्याऽध्याहारमाह ' मुखमिति च केशान्ते' शिरोमुखं मास्यायुः प्रमोषीरित्येवं केशान्तेऽभ्याहरणीयो मन्त्रः । ' ताभिवपेति ' समुद्य क्लेदयत्वा' । अक्षण्वन् क्षतमकुर्वन्परिवप परितो वप मुण्डयेत्यर्थः । अस्य वामदेवो यजुः नापितः क्षुरदाने । 'यथारणं पञ्चशिखाः तिस्रः शिखाः एका वा मुण्डो वेत्यादि यथाकुलाचारं कर्तव्यमित्यर्थः । — अनु‘“दाति ' एतमानडुहं गोमयपिण्डं किंभूतं सकेशं केशैः सहितमनुगुप्तं सुरक्षितं यथा भवति तथा गोभिरुपलक्षितभुवि क्षुद्रतडागे उदकसमोषे वा स्थाप्य कुलाचार्याय वरमभिलषितं ददातीत्यर्थः । अनेन बर्हिहमान्ता कर्मसमाप्तिर्वरदानेनोपलक्षिता । केशान्ते विशेषमाह ' गां केशान्ते ' ददातीति शेषः । ' संव'शान्ते ' यद्यपि चूडासंस्कार्यस्याऽप्राप्तिरर्थात्तथापि स्पष्टार्थ केशान्त इत्युक्तम् अवपनस्य कर्माङ्गतानिर्देशार्थं वा द्वाद ततः ' अशक्त्यपेक्षाः पक्षाः । आद्या कण्डिका ॥ १ ॥
(
१.
+
अष्टवर्ष ब्राह्मणमुपनयेद्गर्भाष्टमे वा ॥ १ ॥ एकादशवर्षठे राजन्यम् ॥२॥ द्वादशवर्ष वैश्यम् ॥ ३॥ यथामङ्गलं वा सर्वेषाम् ॥४॥ ब्राह्मणान्भोजयेतं च पर्युप्तशिरसमलंकृतमानयन्ति ॥ ५ ॥ पश्वादग्नेरवस्थाप्य ब्रह्मचर्यमागामिति वाचयति ब्रह्मचार्यसानीति च ॥ ६ ॥ अथैनं वासः परिधापयति येनेन्द्राय बृहस्पतिर्वासः पर्यदधादमृतं तेन त्वा परिदधाम्यायुषे दीर्घायुत्वाय बलाय वर्चस इति ॥७॥ मेखलां बनीते । इयं दुरुक्तं परिबाधमाना वर्ण
पवित्रं पुनती म आगात् । प्राणापानाभ्यां बलमादधाना स्वसा देवी सुभ
गा मेखलेयमिति ॥ ८ ॥ युवासुवासाः परिवीत आगात्स उ श्रेयान्भवति