________________
कण्डिका]
द्वितीयकाण्डम् । (विश्व०)-क्रमाकृष्टमाद्यं क्षौरविधि सूत्रयंस्तत्समयमाह-सांवत्सरिकस्य चूडाकरणम् ! अतिक्रान्तसंवत्सरस्येत्यर्थः 'तृतीये वाऽप्रतिहते। अपूणे तृतीय वर्षेत्यर्थः । चूडाकरणकेशान्तयोः समानजातीयकर्तव्यतासाध्यत्वेन ग्रन्थप्राचुर्यमपनेतुमसमाप्यैव चूडाकरणकर्तव्यता सूत्रकृत्सूत्रयति केशान्तविधि षोडशवर्षस्य केशान्तः। पोडशवर्षस्य केशान्तकर्म, भवतीति सूत्रशेपः । 'यथामइलं वा सर्वेपां' ब्राह्मणक्षत्रियविशां यथामङ्गलं यथाकुलाचार चूडाकरणाख्यं कर्म कर्तव्यमित्यर्थः । न चान्वयः क्रियान्वयः केशान्तेऽपि स्यादितिवाच्यम् , चूडा कार्या यथाकुलमित्यादिवाक्यैश्चूडायामेव तदन्वयात् । अतः केशान्तः पोडशे एव । नच चूडाकरणकर्तव्यतान्तर्गतकर्तव्यताकत्वेन चूडाकर्मवस्केशान्तकर्मणोऽपि विवाहप्राक्कालकर्तव्यताकत्वेन पोडशाब्दरूपनियतसमयकर्तव्यताकत्वाभ्युपगमे केशान्तस्य स्वसमयप्राक्काले विवाहप्रतिवन्धकत्वापत्तिरिति चेत् । न । संवत्सरं ब्रह्मचर्यमित्यादिना कृब्रह्मचारिण एव ब्रह्मचर्यकर्तव्यताबोधकशास्त्रस्याऽप्रामाण्यापत्तन प्रतिवन्धकत्वम् । समयमभिधाय कर्तव्यतामाह । ब्राह्मणा''पविशति तत्र पुण्येऽहनि वैश्वदेवपूर्वकं मातृपूजाभ्युदयिके विधाय चूडाकरणाइतया प्रयोगपूर्वकं संपन्नेनान्नेन संतर्ग्य संस्कारत्रयसंस्कृतायां भुवि लौकिकाग्निं स्थाप्य जननी चूडाकरणार्ह पुत्रमादाय नापयित्वा अहते वने परिधाप्याके उत्सरे स्थाप्याग्नेः पश्चिमन उपविशति । 'अन्वार"नान्ते । ब्रह्मासनादिप्राशनान्ते दक्षिणादानान्त इत्यर्थः । तत्र विशेषः । पात्रासादने शीतोप्णोदके, नवनीतघृतदध्याद्यन्यतम, त्रिगुणानि त्रीणि कुशतृणान्येकैकगोदानाय तथाच गोदानत्रयार्थे सप्तविंशतिः, ताम्रखचितः क्षुरः, आनडुहं गोमयं, नापितश्च, वरश्च । ततः पवित्रकरणादिपर्युक्षणान्तकुमारान्वारब्ध आधारादिचतुर्दशाहुती त्वा संलवं प्राश्य दक्षिणां दद्यात् । 'शीतास्व""स्वपेति' शीतोदके उष्णोदकासेकः । मन्त्रार्थ:-हे वायो हे अदिते एहि आगच्छ । उष्णेन उदकेनाद्रीकृतान् केशान्वप छिन्धि । अस्य परमेष्टी ऋषिः तिष्ठा वाव्यदिती उदकासेके । केचित्तु उष्णे शीतोदकासेकः । तन्मते मन्त्राभावः । उष्णेनेति न मन्त्रावयव इत्याहुः । केशान्ते मन्त्राध्याहारमाह-'केशश्मश्विति च केशान्ते । केशानित्यन्त्र केशश्मश्रु वपेत्यध्याहर्तव्यमित्यर्थः । 'अथान "मास्यति । अत्र शीतोष्णोदके । 'तत आदा'स इति । तस्माद्दकमादाय प्राक्शिरस उदीच्यभिमुखं शयानस्य पृथिव्यां दीयमानं शिरोदेशमुन्दति छेदयति । उन्दी छेदने । सवित्रा इति मन्त्रेण । अस्यान्वयः । सूर्येणोत्पादिता आपः तव चूडाख्यमङ्गमुन्दन्तु क्लेदयन्तु । किभूता दिवि भवाः किमर्थ दीर्घायुत्वाय चिरकालं निर्दुष्टजीवनाय वर्चसे प्रतापाय ऐश्वर्याय वा । 'त्रेण्या 'पध इति त्रेण्या निःश्वेतया शलल्या शल्यकपक्षकण्टकेन विनीय उन्दितगोदानतृतीयांशं पृथक्कृत्य त्रीणि कुशतरुणान्यन्तर्दधात्योषधे त्रायस्वेत्येतावता मन्त्रेण । 'शिवो 'यथासदिति शिवोनामेत्यादिना हिरसीरित्यन्तेन मन्त्रेण ताम्रयुक्तं क्षुरमादाय निवर्तयामि येनावपदिति मन्त्राभ्यां प्रवपनम् । काकाक्षिगोलकन्यायेन मन्त्रयोरन्तरे वर्तमानस्य प्रवपतेर्मन्त्रयोरन्वयः । नचोत्तरानर्थक्यशङ्कया पूर्वस्याभिनिधानार्थतेति वाच्यम्, अनर्थत्वात् । नचोपसर्गवलात्तथा धात्वर्थ इति वाच्यं कात्यायनपञ्चमाध्या । यस्थे निवर्तयामीति प्रवपतीत्यस्मिन्सूत्रे तथैव कल्पनापत्तेः । किंचेच्छागोचरीभूतार्थस्योपसर्गवललभ्यत्वे एकेनैवानेकार्थलाभादितरव्यर्थतापत्तेश्च । नचान्यथानुपपत्त्यैवमिति वाच्यम् । अन्यथोपपत्तेर्दशितत्वादिति दिक् । सौत्रत्वान्मन्त्रान्वयः-हे ब्रह्मणः ब्राह्मणाः येन कारणेन चुरेण वा सविता प्रसविता पिता आदित्यो वा राज्ञः सोमस्य वरुणस्य च शिरः अवपत् राजसूयदीक्षायै अमुण्डयत् । किंभूतः विद्वान्सर्वज्ञः तेन कारणेन क्षुरेण वाऽस्य कुमारस्येदं शिरो यूयं वपत मुण्डयत यथायं कुमार आयुष्मान् दीर्घायुः जरदष्टिः सुपरिणतवपुश्च सत् स्यात् । अस्यालम्बायनः पतिः सविता वपने । 'सकेशानि""माणे ' केशसहितानि कुशतृणानि । ' एवं द्विरपरं तूष्णीं' एवमेव दक्षिणगोदानस्थ