________________
१९४ पारस्करगृह्यसूत्रम् ।
[प्रथमा तूष्णीं होमे तु मन्त्रः स्यादिति गोभिलभाषितम् । होमस्तु समन्त्रक इति प्रयोगपारिजाते । याज्ञवल्क्यः-तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रक इति ॥ ॥ अथ शूद्रस्य संस्काराः । मनु:शूद्रोऽप्येवंविधः कार्यों विना मन्त्रेण संस्कृतः । न केनचित्समसृजच्छन्दसा तं प्रजापतिः । छन्दसा मन्त्रेण । व्यास:-गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । नामक्रिया निष्क्रमोऽन्नप्राशनं वपनक्रिया । कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः । केशान्तः स्नानमुद्राहो विवाहाग्निपरिग्रहः । त्रेताऽग्निसंग्रहश्चैव संस्काराः षोडश स्मृताः । इत्युक्त्वाऽऽह । नवैताः कर्णवेधान्ता मन्त्रवर्ज क्रियाः स्त्रियाः। विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दशेति यमब्रह्मपुराणवचनाभ्याम् । शूद्रस्य गर्भाधानपुंसवनसीमन्तजातकर्मनामधेयनिष्क्रमणान्नप्राशनचूडाकरणविवाहान्ता नव संस्कारा विहितास्ते च तूष्णीमिति हरिहरभाष्ये । शाईधरस्तु-द्विजानां षोडशैव स्युः शूद्राणां द्वादशैव हि । पञ्चैव मिश्रजातीनां संस्काराः कुलधर्मतः । वेदवतोपनयन महानानी महाव्रतम् । विना द्वादश शूद्राणां संस्कारा नाममन्त्रत इत्याह । ब्रह्मपुराणे तु-विवाहमानं संस्कारं शूद्रोऽपि लभतां सदेति । अत्र सदसच्छूद्रविषयत्वेन व्यवस्था । सच्छूद्रस्य द्वादश । असच्छूद्रस्य विवाहमात्रम् । एते च तूष्णीं कार्याः। तथा च व्यास:-शूद्रो वर्णश्चतुर्थोऽपि वर्णत्वाद्धर्ममर्हति । वेदमन्त्रं स्वधास्वाहावषट्कारादिभिर्विनेति । मरीचिः-अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यत इति । तेन शूदधर्मेपु सर्वत्र विप्रेण मन्त्रः पठनीयः सोऽपि पौराण एवेति शूलपाणिः । एवं शूद्रकर्तृकहोमो विप्रद्वारैव पराशरेणोक्तः । दक्षिणार्थ तु यो विप्रः शूद्रस्य जुहुयाद्धविः । ब्राह्मणस्तु भवेच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत् । अत्र माधवाचार्यैाख्यातम् । यो विप्रः शूद्रदक्षिणामादाय तदीयं हविः शान्तिपुष्टचादिसिद्धये वैदिकैर्मन्त्रैर्जुहोति तस्य विप्रस्यैव दोषः शूदस्तु होमफलं लभत एवेति । शूद्रस्य यत्र यत्र होमस्तत्र तत्र लौकिकानावेव । मन्त्रान्तराविधानात् नमस्कारमन्त्रेणेति मदनपारिजाते । शूद्रस्य विवाहहोमाभावश्च तत्रैवोक्तः । तच्चिन्त्यम् ॥ ॥ अथानुपनीतधर्माः । गौतमः-प्रागुपनयनात्कामचारवादभक्षाः । नित्यं मद्यं ब्राह्मणो. ऽनुपनीतोऽपि वर्जयेत् । उच्छिष्टतादावप्रयतमनस्को महापातकवर्जम् । ब्रह्मपुराणे-मातापित्रोरथोच्छिष्टं वालो मुजन् भवेत्सुखीति । वृद्धशातातपः-शिशोरभ्युक्षणं प्रोक्तं वालस्याचमनं स्मृतम् । रजस्वलादिसंस्पर्शे स्नानमेव कुमारके । प्राक्चूडाकरणाद्वालः प्रागन्नप्राशनाच्छिशुः । कुमारस्तु स विज्ञेयो यावन्मौजीनिवन्धनम् । तस्यानुपनीतस्य चण्डालादिस्पृष्टस्यापि स्पर्शनान्न स्नानम् । इदं च षष्ठवात्प्राक् ऊर्ध्वं तु भवत्येव । बालस्य पञ्चमाद्वर्षाद्रक्षार्थ शौचमाचरेदिति स्मृतेः । कामचारादिकेऽप्येवम् । उनैकादशवर्पस्य पञ्चवर्षात्परस्य च । चरेद्रुः सुहृच्चैव प्रायश्चित्तं विशुद्धये । इतिस्मृतेः ॥ ॥ अथ गर्गमते पदार्थक्रमः-आभ्युदयिकम् । ब्राह्मणत्रयभोजनम् । वहि:शालायां लौकिकाग्नेः स्थापनम् । माता कुमारमादायेत्यादि यथोक्तम् । ततो ब्रह्मासनादिदक्षिणादानान्ते विशेषः । वहिरासादनानन्तरमुष्णोदकं, शीतोदकं, नवनीतघृतदधिपिण्डानामन्यतमः पिण्डः, त्र्येणी शलली, कुशपवित्राणि सप्तविशतिः, क्षुरः, गोमयं, नापितः, वरः, इत्यासादनं नोपकल्पनम् । ततो दक्षिणादानान्तं कर्म कृत्वा शीतासु उष्णा अप आसिञ्चति नवनीतादीनामन्यतमप्रासनं तत्र उन्दनं तूप्णी विनयनं, कुशतरुणान्तर्धानं, क्षुरादानं, व्यायुपं, येनावपदिति मन्त्रद्वयेन कुशतरुणान्तर्हितेपु केशेषु क्षुरमभिनिधाय सकेशानि तृणानि प्रच्छिद्यानडुहे गोमयपिण्डे प्रासनम् । एवं तृष्णीमुन्दनादि द्विरपरं क्षुरादानवर्जम् । ततः पश्चिमगोदाने एवं सकृन्मन्त्रेण द्विस्तूष्णीम् । व्यायुपमिति छेदनमन्त्रे विगेपः । अथोत्तरगोदाने एवमेव सन्मन्त्रेण द्विस्तूष्णी, येन भूरिश्चरेति छेदने विशेषः। शिरःपरिहरणं शिरःसमुन्दनं क्षुरसमर्पणं शिखास्थापनं गोष्टाद्यन्यतमान्ते गोमयपिण्डनिधानमाचार्याय वरदानमिति गर्गमते पदार्थक्रमः । इति द्वितीयकाण्डे चूडाकरणपदार्थक्रमः ॥ * ॥