________________
fusar ]
द्वितीयकाण्डम् |
१९३
अथ पदार्थक्रमः:---तत्र कालस्तावत्प्रथमे द्वितीये तृतीये पञ्चमे सप्तमे वा वर्षे गततृतीयभागे अगतत्रिभागे वा उपनीत्या सह वा यथाकुलाचारं चौलं कार्यम् । तत्रापि द्वितीयादौ वर्षे जन्मतो मुख्यं गर्भतो गौणम् । उदगयने शुक्लपक्षे गुरुशुक्रयोः बाल्यवार्द्धकास्तमयाभावे अक्षयेऽनधिके च मासि ज्योतिःशास्त्रोक्तप्रशस्ततिथिवारलग्नेषु शुभमुहूर्ते दिन एव न तु रात्रौ कार्यम् । तत्र मातृपूजापू कमाभ्युदयिकश्राद्धम् | कुमारस्य हरिद्रालापनादिमङ्गलकरणम् । ततो ब्राह्मणत्रयभोजनम् । ततः संकल्पः । देशकालौ स्मृत्वा कुमारस्य बीजगर्भसमुद्भवैनोनिवर्हणेन वलायुर्वचऽभिवृद्धिद्वारा श्री परमे - वरप्रीत्यर्थ चूडाकरणाख्यं कर्म करिष्य इति संकल्पः । ततो वहिः शालायां पञ्च भूसंस्कारान् कृत्वा लौकिकाः स्थापनम् । ततो माता कुमारं स्नापयित्वाऽहते वाससी परिधाप्योत्सङ्गे कृत्वा पञ्चादरुपविशति । ततो वैकल्पिकावधारणम् । ब्रह्मणो गमनादिपूर्ववदवधारणम् । घृतपिण्डप्रासनम् । सकेशगोमय पिण्डस्योदकान्ते प्रासनम् । इत्यवधारणम् । ततो ब्रह्मोपवेशनाद्याज्यभागान्ते विशेषः । नात्र चरुः । उपकल्पनीयानि । शीतोदकम् । उष्णोदकम् । नवनीतपिण्डघृतपिण्डदधिपिण्डानां मध्येऽवधारितान्यतमम् | त्र्येणी शलली । सप्तविंशतिकुशतरुणानि । ताम्रपरिष्कृत आयसः क्षुरः । आनडुहगोमयपिण्डः । नापितो वरश्चेति । आज्यभागानन्तरं महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतयः । ततः स्विष्टकृत् । ततः संस्रवप्राशनादि ब्रह्मणे पूर्णपात्रवरयोरन्यतरदानान्तम् । ततः शीतोदके उष्णोदकस्य निनयनम् उष्णेन वाय उदकेनेादिते केशान्वपेति । उष्णोदकमिश्रितास्त्रप्सु नवनीतघृतदधिपिण्डानामन्यतमप्रासनम् । अतः प्रभृत्यनेनैवोदकेनोन्दनं कार्ये सर्वत्र । उदकमादाय दक्षिणं गोदानमुन्दति सवित्राप्रसूतेति । ततख्येण्या शलल्या विनयनम् । त्रयाणां कुशतरुणानामन्तर्द्धानमोपधेत्रायस्वेति । शिवोनामेति क्षुरादानम् । निवर्तयामीति कुशतरुणान्तर्हितेषु केशेषु क्षुरनिधानम् । ततो येनावपत्सवितेति सकेशानि कुशतरुणानि प्रच्छिद्यानडुहे गोमयपिण्डे उत्तरतो प्रियमाणे प्रक्षिपति । ततस्तस्मिन्नेव दक्षिणगोदाने एवमेवापरं वारद्वयं तूष्णी कर्म कर्तव्यम् । तत्रैवं पदार्थाः । उदकमादायोन्दनम् | त्र्येण्या शलल्या विनयनम् त्रयाणां कुशतरुणानामन्तर्द्धानम् | क्षुराभिनिधानम् । सकेशानां कुशतरुणानां छेदनम् । गोमयपिण्डे प्रासनम् । दक्षिणगोदानवदेवोन्दनादि पिण्डे प्रास - नान्तं पश्चिमोत्तर योगदानयोः सकृत्समन्त्रकं द्विस्तूष्णीं कर्म कुर्यात् । एतावान्विशेषः । पश्चिमगोदाने त्र्यायुषमिति छेदनम् । न तु येनावपदिति । उत्तरगोदाने येन भूरिश्वरा दिवमिति मन्त्रेणैव छेदनम् । ततो यत्क्षुरेणेति शिरसः समन्तात्प्रदक्षिणं क्षुरं भ्रामयति सकृन्मन्त्रेण द्विस्तूष्णीम् । ततस्ताभिरेवाद्भिः शिरस उन्दनम् । नापिताय क्षुरसमर्पणं अक्षण्वन्परिवपेति । यथामङ्गलं शिखास्थापनं नापितः करोति । ततः सकेशं गोमय पिण्डमनुगुप्तं पल्वले गोष्ठे वा उदकान्ते वा निदधाति । ततश्चूडाकरणकर्ता स्वाचार्याय वरं ददाति । यज्ञपार्श्वोक्तं दशत्राह्मणभोजनम् । अत्र भोजने प्रायश्चित्तमुक्तं पराशरमाधवीये - निर्वृत्ते चूडहोमे तु प्राङ् नामकरणात्तथा । चरेत्सान्तपनं भुक्त्वा जातकर्मणि चैव हि । अतोऽन्येषु तु संस्कारेपूपवासेन शुद्धयति । इति चूडाकर्मणि पदार्थक्रमः ॥ ॥ अथ केशान्ते पदार्थक्रमः । कालश्चूडाकरणोक्तो ज्ञेयः । सप्तदशे वर्षे इदं कार्यम् । लौकिकेऽग्नौ । आरम्भनिमित्तं मातृपूजापूर्वकं बान्दीश्राद्धं, देशकालौ स्मृत्वा केशान्तकर्म करिष्य इति संकल्पः । ब्राह्मणत्रयभोजनादि परिशिष्टोक्तत्राह्मणभोजनान्तं चूडाकरणवत् । इयांस्तु विशेषः । उष्णोदका सेक - मन्त्रे उष्णेन वाय उदकेनेादिते केशवम वपेति । क्षुरपरिग्रहणमन्त्रे च यत्क्षु० प्रमोषीर्मुखमिति । मुखसहितं शिरः परिहरति । वरस्थाने आचार्याय गोदानं संवत्सरं ब्रह्मचर्यमित्यादि यथोक्तम् । इति केशान्तः । एतानि जातकर्मादिचूडाकरणान्तानि कर्माणि कुर्या अप्यमन्त्रकाणि कार्याणि तत्र होमस्तु समन्त्रकः । तदुक्तं कारिकायाम् --- जातकर्मादिकाः स्त्रीणां चूडाकर्मान्तिकाः क्रियाः ।
२१