________________
१९२
पारस्करगृह्यसूत्रम् ।
[ प्रथमा
।
मणेन शिरः मस्तकं परिहरति दक्षिणकर्णादारभ्य प्रदक्षिणं शिरसः समन्तात्पुनर्दक्षिणकर्णपर्यन्तं यसुरेणेति मन्त्रेण क्षुरं भ्रामयतीत्यर्थः । 'समुखं केशान्ते' मुखसहितं शिरः परिहरति केशान्ते कर्मणि । मन्त्रेऽपि विशेषः - केशान्ते मुखमिति पदं मन्त्रे अधिकं भावयेत् । यत्क्षुरेणेति सकृन्मन्त्रेण द्विस्तूष्णीं शिरः परिहरणम् । हे क्षुर यत् यस्मात्सुरेण वस्त्रा मुण्डित्वा आवपति गोमयपिण्डे केशान् क्षिपति । किंभूतेन एनं कुमारं मज्जयता संस्कुर्वेता तथा सुपेशसा शोभयता । अतोऽस्य केशाञ्छि न्धि अवखण्डय । शिरो मस्तकं मा छिन्धि मा सत्रणं कुरु अस्य मा आयुः प्रमोषीः मा अपहर। 'ताभिपेति ' ताभिरेव प्रकृताभिः शीतोष्णाभिरद्भिः वालकस्य शिरः मस्तकं समुद्य दयित्वा आर्द्रभावमापाद्य उन्दतिः क्लेदनार्थः । तस्य क्तान्तत्वादनुनासिकलोपः क्रियते समुद्येति रूपम् । नापि - ताय क्षुरं प्रयच्छति मुण्डनार्थ समर्पयति अक्षण्वम् परिवपेति मन्त्रेण । मन्त्रार्थ :- हे नापित त्वमस्य शिरः अक्षन् क्षतरहितं यथा स्यात्तथा परि समन्ताद्वप मुण्डय । ' यथारणम् ' क्षुरसमर्पणानन्तरं नापितेन वपनं कार्यम् । तत्र केशानां शेषकरणं शिखारक्षणं स्थापनं यथामङ्गलं यस्य कुले यथा प्रसिद्धं तस्य तथैव शिखास्थापनं कार्यम् । अत्र कारिकायाम् — केशशेषं ततः कुर्याद्यस्मिन् गोत्रे यथोचितम् । वासिष्टा दक्षिणे भागे उभयत्रापि कश्यपाः । शिखां कुर्वन्त्यङ्गिरसः शिखाभिः पञ्चभिर्युताः । परितः केशपङ्कया वा मुण्डाश्च भृगवो मताः । कुर्वन्त्यन्ये शिखामत्र मङ्गला - र्थमिह क्वचित् । लौगाक्षिः— दक्षिणतः कम्बुजवसिष्टानामुभयतोऽत्रिकश्यपानां मुण्डा भृगवः पञ्चचूडा अङ्गिरसः वाजसनेयिनामेका । मङ्गलार्थ शिखिनोऽन्य इति । एतच्छ्रद्रातिरिक्तविषयम् । शूद्रस्यानि - यताः केशवेषा इति वसिष्ठोक्ते । यत्तु पाद्मेन शिखी नोपवीती स्यान्नोचरेत्संस्कृतां गिरमिति शूद्रमुपक्रम्योक्तं तद्सच्छूद्रस्येति केचित् । विकल्प इति तु युक्तम् । ' अनु "न्ते वा ततो वपनोत्तरं सर्वान्केशान् गोमयपिण्डे कृत्वा तं गोमयपिण्डं वस्त्रादिवेष्टनेनानुगुप्तमावृतं कृत्वा गोष्ठे गवा जे स्थापयेत् । अथवा पल्वले अल्पोदके सरसि स्थापयेत् । उदकान्ते यत्र कुत्रचिदुदकसमीपे वा स्थापयेत् । ' आचा... "दाति ततश्चूडाकरणकर्मकर्ता पित्रादिः स्वाचार्याय वरम् अभिलपितद्रव्यं ददाति। अभिलषितद्रव्याभावे चतुः कार्षापणो वर इति मूल्याध्यायोक्तद्रव्यदानमिति वृद्धाः ।' गां केशान्ते' केशान्ते कर्मणि केशान्तसंस्कारकर्ता स्वाचार्यांय गां ददाति संस्कार्यस्याचार्यांयेति हरिहरः । ' संव" के शान्ते ' केशान्तकर्मानन्तरं केशान्तकर्मणा यः संस्कृतः स संवत्सरं यावद्ब्रह्मचर्यं चरेत् । स्त्रीसंभोगं न कुर्यादित्यर्थः । अवपनं च केशान्तोत्तरकालं संस्कृतः संवत्सरं वपनं वर्जयेत् । चशब्दः संवत्सरानुवृत्त्यर्थः । केशान्तकर्मोत्तरम् अवपनं च यावज्जीवं शास्त्रीयवपनव्यतिरेकेणेति वासुदेवहरिहरगर्गाः । द्वाद्-'न्तत: ' संवत्सरं ब्रह्मचर्यमवपनं च द्वादशरात्रं वा पात्रं त्रिरात्रं वा । एते चत्वारो विकल्पाः पूर्वपूर्वाशक्त्या । अत्र स्मृत्यन्तरोक्तो वपने विधिर्निषेघचोच्यते-- गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरोर्मृतौ । आघाने सोमपाने च वपनं सप्तसु स्मृतम् । तथा, मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः । वर्जयित्वा कुरुक्षेत्रं विशालं विरजं गयाम् । वपनं चानुभाविनां प्रेतकनीयसाम्, तथा प्रयागे वपनं कुर्याद् गयायां पिण्डपातनमित्यादिषु निमित्तेषु वपनं कार्यम् । वृथा तु न कार्यम्, तथाच विष्णुः — प्रयागे तीर्थयात्रायां पितृमातृवियोगतः । कचानां वपनं कुर्याद्र्या न विकचो भवेदिति निषेधेऽपि नीचकेशो विप्रः स्यादिति नीचकेशत्वविधानात्कर्तनादिना नीचत्वं संपादनीयम् । मुण्डनस्य निपेधेऽपि कर्तनं तु विधीयत इति वृहस्पतिवचनात् । भारते - प्राङ्मुखः श्मश्रुकर्माणि कारयीत समाहितः । उदङ्मुखो वाऽय भूत्वा तथाऽऽयुर्विन्दते महत् । अपरार्केकेश्मश्रुलोमनखान्युदक्संस्थानि वापयेत् । दक्षिणं कर्णमारभ्य धर्मार्थी पापसंक्षये । हन्वाद्यन्तं च संस्कारे शिखाद्यन्तं शिरो वपेत् । यतीनां तु विशेषो निगमे कक्षोपस्थशिखावर्जमृतुसंधिपु इति द्वितीयकाण्डे प्रथमा कण्डिका ॥ १ ॥
# # 11
वापयेदिति ॥
6
॥ ॐ ॥