________________
१९१
फण्डिका ]
द्वितीयकाण्डम् । प्रकृतोदके नवनीतपिण्डं घृतस्य पिण्ड दन्नो वा पिण्डं प्रास्यति प्रक्षिपति । असु प्रक्षेपे । 'तत'र्चस इति । ततस्तस्माद्यत्र नवनीतादीनामन्यतमपिण्डग्रासनं कृतं तस्मादुदकात्किञ्चिदुदक्रमादाय दक्षिणं गोदानं गवि पृथिव्यां दीयते निधीयते स्थाप्यते शयनकाले इति गोदानं दक्षिणकर्णसमीपवर्तिशिरः प्रदेशमुन्दति उन्दी क्लेदने छेदयति आर्द्र करोति सवित्रेति मन्त्रेण । मन्त्रार्थस्तुहे कुमार सवित्रा सूर्येण प्रसूता जनिता उत्पादिता आपः दैव्या दिविभवाः ते तव तनूं शरीरं चूडालक्षणमड्डमुन्दन्तु क्लेदयन्तु किमर्थम् तव दीर्घायुत्वाय चिरंजीवनाथै वर्चसे प्रतापाय । 'त्र्येण्या'' 'पधइति ' त्रिषु स्थानेषु एनी श्वेता येणी शलली सेधाशलाका तया क्लिन्नान्केशान् विनीय पृथकृत्य विरलान् कृत्वा त्रीणि कुशतरुणानि दर्भतृणान्यन्तमध्ये दधाति धारयति ओपधेत्रायस्वेति मन्त्रेण । 'शिवो पति । ततः कर्ता शिवोनामेति मन्त्रेण लोहारं लोहेन ताम्रण परिष्कृतमयोमयमेव क्षुरमादाय हस्तेन गृहीत्वा निवर्तयामीति मन्त्रेण प्रवपति तं क्षुरं कुशतरुणान्तहितेपु केशेषु संलागयति स्थापयति अत्र प्रपूर्वो वपतिः संलागने छेदनार्थत्वे तु उत्तरसूत्रविहितं छेदनमनर्थकं स्यात् । शिवइत्यस्यार्थः-हे क्षुर यस्त्वं शिवोनामाऽसि शान्तनामाऽसि भवसि ते तव स्वधितिर्वजं पिता हे भगवन् तस्मै तुभ्यं नमः मा मां मा हिंसीः मा विनाशयेति । निवर्तयामीत्यस्यार्थः निवर्तयामि मुण्डयामि [भाविनि भूतोपचारात् ? ] | आयुपे आयुरर्थम् अन्नाद्याय अन्नादनाय प्रजननाय गर्भोत्पत्त्यै रायस्पोषाय धनस्य पुष्ठयै सुप्रजास्त्वाय शोभनापत्यभवनाथ सुवीर्याय शोभनवीर्याय । 'येना' 'माणे ' येनावपत्सवितेति मन्त्रेण सकेशानि केशसहितानि कुशतृणानि प्रच्छिद्य छित्त्वा खण्डयित्वाऽग्नेरुत्तरतो भूमौ ध्रियमाणेऽवस्थाप्यमाने आनडुहे वलीवर्दगोसंवन्धिमये पिण्डे गोपुरीषे तानि प्रास्यति प्रक्षिपति । अत्र गोमयपिण्डस्य स्थापन कार्यम् । ततः केशान् प्रच्छिद्य पिण्डे प्रासनम् अत्र केशान् प्रच्छिोति पाठो दर्शितः कर्कभर्तृयज्ञाभ्याम । सकेशानीति केचित्पठन्ति । तेपां कुशतरुणानीति कुशतरुणविषयं नपुंसकमिति भर्तृयज्ञैः प्राचीनपाठो दर्शितः । मन्त्रार्थः हे ब्रह्माणः येन क्षुरेण तेजोमयेन सविता सूर्यः सोमस्य राज्ञः वरुणस्य च शिरः अवपत् राजसूयदीक्षायै अमुण्डयत् विद्वान् सर्वज्ञः तेन टुरेणास्य शिशोरिद शिरो यूयं वपत मुण्डयत इदं शिरः अस्य कुमारस्य आयुषे हितम् आयुष्यमायुषो भावः सत्ता वा यथाऽयं कुमारः जरदष्टिः संपूर्णायुः असत् भूयात् जरामश्नुते व्यानोति जरदष्टिः जरद्भावः । एवं "तूष्णीम् । एवमेवोक्तरीत्या द्विवारं तूप्णी मन्त्रं विनोन्दनादि गोमयपिण्डनिधानान्तमपरं दक्षिण एव गोदाने कर्म कुर्यात् । अत्रैवं पदार्थाः । उन्दनकेशानां विनयनम्, दर्भतृणान्तर्धानम, क्षुराभिनिधानम्, सकेशानां छेदनम्, गोमयपिण्डे प्रासनम् । 'इत' 'नादि' इतरयोः पश्चिमोत्तरयोगोंदानयोरुन्दनादि चकारादेवमेव सकृन्मन्त्रेण द्विस्तूष्णीं कर्म कुर्यात् तत्र पूर्वपश्चिमगोदाने कृत्वा तत उत्तरगोदाने कार्यम् । अथ पश्चादयोत्तरत इति सूत्रकारप्रस्थानाच । प्रादाक्षिण्यानुग्रहाच्च । क्षुरादानं तु मन्त्रेण पुनर्न भवति मन्त्रेण सकृद् गृहीतत्वात् । ' अथ पश्चात् व्यायुषमिति' इतरयोश्चोन्दनादीत्युक्तं तत्र स एव मन्त्री मा भूदित्याह । पश्चात् पश्चिमगोदानकमणि व्यायुषमिति मन्त्रेण सकेगतृणानां छेदनं कुर्यात् । त्रीण्यायूंषि समाहृतानि वाल्ययौवनस्थविराणि इत्येवमेतेषामेवावस्थात्रयव्यापकमायुरस्माकमस्त्विति मन्त्रार्थः । 'अथो "यइति । अथोत्तरगोदानकर्मणि सकेशानां कुशतृणानां येन भूरिश्वरा इति मन्त्रेण छेदनं कुर्यात् । अन्यत्सर्वं दक्षिणगोदानवत्कार्यम् । मन्त्रार्थरत्वयम् । येन ब्रह्मणा मन्त्रेण तपसा वा चरणशीलो वायुः ज्योक् चिरं आकल्पमित्यर्थः दिवं द्याम् पश्चात्तामनु सूर्य तमनु विश्वं च चरति । किंभूतः भूरिः प्रचुरः । तेन ब्रह्मणा तपसा वा तन्मन्त्रितक्षुरेण ते तव शिरो वपामि किमर्थम् जीवातवे जीवनहेतवे धर्माद्यर्थ जीवनायायुषे । सुश्लोक्याय शोभनयशसे । स्वस्तये अविनाशाय । ' त्रिः 'शान्ते । त्रिवारं क्षुरभ्रा