________________
[प्रथमा
१९०
पारस्करगृह्यसूत्रम् । यनेन कृतम् । 'यथा "सर्वेषाम् । अथवा यथामङ्गलं यथाकुलाचारं चूडाकरणं कार्यम् । यस्य कुले सांवत्सरिकस्य कुमारस्य कुर्वन्ति तस्य सांवत्सरिकस्य चूडाकरणम् । यस्य कुले तृतीयेऽन्दे कुर्वन्ति तस्य तृतीये असंपूर्ण कार्यमिति व्यवस्था । यस्य कुले नियमो नास्ति तस्य विकल्पः । यथामं गलशब्देन केचित्कालान्तरं कल्पयन्ति । अत्र स्मृत्यन्तरोक्ताः काला उच्यन्ते । नारदः-जन्मतस्तु तृतीयेऽन्दे श्रेष्ठमिच्छन्ति पण्डिताः । पञ्चमे सप्तमे वाऽपि जन्मतो मध्यमं भवेत् । अधर्म गर्भतः स्यात्तु नवमैकादशेऽपि वेति । बृहस्पतिः-तृतीयेऽन्दे शिशोर्गर्भाजन्मतो वा विशेषतः । पञ्चमे सप्तमे वाऽपि स्त्रियाः पुंसोऽपि वा समम् । प्रयोगपारिजाते-आद्येऽब्दे कुर्वते केचित्पञ्चमेऽन्दे द्वितीयके । उपनीत्या सहैवेति विकल्पाः कुलधर्मतः । कारिकायाम्-संभवत्युदगयने शुक्लपक्षे विशेपत इति । वृहस्पतिः-शुक्लपक्षे शुभं प्रोक्तं कृष्णपक्षे शुभेतरत् । अशुभोऽन्त्यत्रिभागः स्यात्कृष्णपक्षे निराकृते । कारिकायाम्-अश्विनी श्रावणः स्वाती चित्रा पुष्यं पुनर्वसु । धनिष्ठारेवतीज्येष्ठामृगहस्तेपु कारयेत् । तिथि प्रतिपदां रिक्तां पातं विष्टिं विवर्जयेत् । वाराञ्छनैश्चरादित्यभौमानां रात्रिमेव च । वृहस्पतिः-पापग्रहाणां वारादौ विप्राणां शुभदं रवेः । क्षत्रियाणां क्षमासूनोविदछुद्राणां शनौ शुभम् । वसिष्ठः-द्वित्रिपञ्चमसप्तम्यामेकादश्यां तथैव च । दशम्यां च त्रयोदश्यां कार्य क्षौर विजानता । ग्रन्थान्तरे-पष्ठवष्टमी चतुर्थी च नवमी च चतुर्दशी । द्वादशी दर्शपूर्णे द्वे प्रतिपञ्चैव निन्दिता इति । सर्वेपामिति सर्वेषां वर्णानामित्यर्थः । भर्तृयज्ञभाष्ये तु यस्य यादृशम्राह्मणभोजने मङ्गलबुद्धिः स तादृशं ब्राह्मणं भोजयित्वा चूडाकरणं कुर्यादिति सूत्रं योजितम् । चूडाकर्मणि कालोऽभिहितः । कर्माह ' ब्राह्मविशति ' आभ्युदयिकश्राद्धब्राह्मणव्यतिरिकान् त्रीन् ब्राह्मणान् भोजयित्वा माता कुमारजननी कुमारं स्वपुत्रमादाय हस्ते गृहीत्वा आप्लाव्य स्लापयित्वाऽहते नवे यन्त्रमुक्ते सकृद्धौते वाससी वस्त्रे परिधाप्य परिहिते कारयित्वा अङ्क आधाय तं कुमारमङ्के उत्सङ्गे स्थापयित्वाऽग्नेः पश्चादुपविशति । मातरि रजस्वलायां तु विशेषः । वृहस्पतिः-प्राप्तमभ्युदयश्राद्धं पुत्रसंस्कारकर्मणि । पत्नी रजस्वला चेत्स्यान्न कुर्यात्तत्पिता तदा । पितेति कर्तृमात्रोपलक्षणम् । दोषमाह गर्ग:-विवाहोत्सवयज्ञेषु माता यदि रजस्वला । तदा स मृत्युमाप्नोति पञ्चमं दिवसं विनेति अग्रे सुमुहूर्तालाभे तु वाक्यसारे-अलाभे सुमुहूर्तस्य रजोदोषे उपस्थिते । प्रियं संपूज्य विधिवततो मङ्गलमाचरेदिति । कुमारस्य मातरि गर्मिण्यामपि चूडाकरणं न कार्यम् । तथाच वृहस्पतिःगर्मिण्यां मातरि शिशोः क्षौरकर्म न कारयेत् । व्रताभिषेकेऽप्येवं स्यात्कालो वेदव्रतेष्वपि । मदनरत्नेपुत्रचूडाकृतौ माता यदि सा गर्भिणी भवेत् । शस्त्रेण मृत्युमाप्नोति तस्मात्क्षौरं विवर्जयेत् । एतदपवादोऽपि तत्रैव-सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् । पञ्चमात्प्रागत ऊर्ध्व तु गर्भिण्यामपि कारयेत् । सहोपनीत्या कुर्याचेत्तदा दोषो न विद्यते । गर्भे मातुः कुमारस्य न कुर्याच्चौलकर्म तु । पञ्चमासादयः कुर्यादत ऊर्ध्व न कारयेत् । पञ्चमासादूर्ध्व मातुर्गर्भस्य जायते मृत्युरिति तत्रैवोक्तम् । कुमारस्य ज्वरोत्पत्तौ न कार्यमित्याह गर्गः । अरस्योत्पादनं यस्य लग्नं तस्य न कारयेत् । दोषनिर्गमनात्पश्चात्स्वस्थो धर्म समाचरेत् । लग्नमिति सर्वमङ्गलोपलक्षणम् । ' अन्वा 'शान्ते । ब्रह्मणाऽन्वारब्धे आधारादिस्विष्टकृदन्ता आज्याहुतीर्तुत्वा संस्रवप्राशनान्ते शीतासु पूर्वमुपकल्पितासु अप्सु उष्णा अप आसिञ्चति प्रक्षिपति उष्णेन वाय उदकेनेहीति मन्त्रेण । केशान्ते तु उष्णेन वाय उदकेनेह्यदिते केशश्मश्रु वपेति मन्त्रे विशेषः । कुमारेणान्वारम्भः कार्य इति भर्तृयज्ञमते विशेषः । मन्त्रार्थः-रविकिरणसंवन्धादन्तर्गतज्योतिषा वायोरुष्णत्वम् । हे वायो त्वमप्युष्णोदकेन गृहीतेन कुमारस्य शिरःप्लवनाय एहि । हे अदिते देवमातः केशान् लक्षीकृत्य केशाकरणाथै शीतोदकमध्ये उष्णोदकं वप क्षिप अनेकार्थत्वाद्धातोः । अथा'' स्यति । अथ उष्णोदकसेकानन्तरम् अत्र