________________
कण्डिका] द्वितीयकाण्डम् ।
१८९ पूजामाभ्युदयिकं च कृत्वा श्राद्धातिरिक्तं ब्राह्मणत्रयं भोजयित्वा वहि:शालायां परिसमूहनादिमि(वं संस्कृत्य लौकिकाग्निं स्थापयेत् । अथ माता कुमारमादाय स्नापयित्वा वासोयुगं परिवाप्य उत्सङ्गे निधाय अग्नेः पश्चिमत उपविशति । ततो ब्रह्मोपवेशनाद्याज्यभागान्ते विशेषः । तण्डुलवर्जमासादनम् । उपकल्पनीयानि च शीतोदकमुष्णोदकम् । नवनीतघृतदधिपिण्डानामेकतमः पिण्डः । त्र्येणी शलली। त्रीणि त्रीणि कुशतरुणानि पृथक् वद्धानि नव । ताम्रपरिष्कृत आयसः क्षुरः गोमयपिण्डं नापितश्चेति । ततः पवित्रकरणादिपर्युक्षणान्ते आघारादिविष्टकृदन्तं चतुर्दशाहुतिहोमं विधाय संस्रवं प्राश्य पूर्णपात्रवरयोरन्यत्तरं ब्रह्मणे दद्यात् । ततः शीतास्वप्सु उष्णा अप आसिच्य उष्णेन वाय उद्केनेह्यदिते केशान्वपेत्यनेन मन्त्रेण । अत्र उष्णोदकमिश्रितशीतोदके उपकल्पितं नवनीताद्यन्यतमं पिण्डं प्रक्षिपति। तदुदकमादाय सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चस इत्यनेन मन्त्रेण दक्षिणगोदानमुन्दति । ततख्येण्या शलल्या केशान्विनीय ओषधे त्रायस्वेति मन्त्रेण त्रीणि कुशतरुणान्यन्तर्धाय शिवो नामासिस्वधितिस्तेपितानमस्ते अस्तु मामाहिद-सीरिति उपकल्पितं क्षुरमादाय कुशतरुणान्तर्हितेषु केशेषु निवर्तयाम्यायुषेन्नाद्यायप्रजननायरायस्पोषाय सुप्रजास्त्वायसुवीर्यायेत्यनेन मन्त्रेण खुरमभिनिधाति । येनावपत्सविता क्षुरेण सोमस्यराज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्यं जरदष्टियथासदित्यनेन मन्त्रेण सकेशानि कुशतरुणानि प्रच्छिद्य आनडुहे गोमयपिण्डे उत्तरतो घ्रियमाणे प्रक्षिपति । एवमेवापरं वारद्वयम् उन्दनकेशविनयनकुशतरुणान्तर्धान क्षुराभिनिधानसकेशकुशतरुणप्रच्छेदनगोमयपिण्डप्राशनानि तूष्णी कुर्यात् । तथा पश्चिमोत्तरयोर्गोदानयोः एवमेव सकृत्समन्त्रकं द्विस्तूष्णी करोत्येतावान्विशेषः । पश्चिमगोदाने व्यायुपं जमदग्नेः कम्यपस्य घ्यायुषं यद्देवेषु व्यायुषं तन्नो अस्तु व्यायुषम् इति मन्त्रेण छेदनम् । उत्तरगोदाने येन भूरिश्वरादिवं ज्योकूच पश्चाद्धि सूर्य । तेन ते वपामि ब्रह्मणा जीवातवे जीवनाय सुश्लोक्याय स्वस्तये इत्यनेन मन्त्रेण छेदनम् । अन्यत्सर्वमुन्दनादि गोमयपिण्डप्राशनान्तं समानम् । ततो यक्षुरेण मन्जयता सुपेशसा वत्वा वा वपति केशाञ्छिन्धि शिरो मास्यायुः प्रमोषीरित्यन्तेन मन्त्रेण शिरसः समन्तात्प्रदक्षिणं क्षुरं भ्रामयति सकृन्मन्त्रेण द्विस्तूष्णीम् । ततस्तेनैवोदकेन समस्तं शिर आद्रमापाद्य अक्षण्वन्परिवपेत्यनेन मन्त्रेण नापिताय क्षुरं समर्पयति । स च नापितः केशवपनं कुर्वन् यथोक्तं केशशेषकरणं करोति ततः सकेशं गोमयपिण्डमनुगुप्तं पल्वले गोप्ठे वा उदकान्ते निधाय चूडाकरणकर्ता स्वाचार्याय वरं ददाति । केशान्तेऽपि षोडशवर्षस्य सप्तदशे वर्षे इयमेव चूडाकरणोक्तेतिकर्तव्यता भवति । एतावॉस्तु विशेष:--उष्णोदकासेकमन्त्रे उष्णेन वाय उदकेनेह्यदिते केशश्मश्रु वपेति तथा क्षुरपरिहरणे मुखसहितं शिरः परिहरति तत्र परिहरणमन्त्रे च यत्सुरेण मन्जयतेत्यादिमास्यायुः प्रमोषीर्मुखम् इति । तथा यस्य केशान्तः स स्वाचार्याय गां ददाति । संवत्सरं वा द्वादशरात्रं पात्रं त्रिरात्रं वा ब्रह्मचर्यं करोति । शक्यपेक्ष्या विकल्पः । तथा केशान्तादूर्व शास्त्रीयवपनव्यतिरेकेण यावज्जीवमवपनं शास्त्रीयवपनं चोक्तम् ॥ १॥ ॥ * ॥
(गदाधरः)-चूडाकरणमाह ' सांव"रणम् । संवत्सरो जातो यस्य स सांवत्सरिकः तस्य बालकस्य चूडाकरणं चूडाकरणाख्यं कर्म कुर्यादिति शेषः । चूडाकरणमिति वक्ष्यमाणसंस्कारकर्मणो नामधेयम् । 'तृती. 'हते । अथवा तृतीये संवत्सरे अप्रतिहते असंपूर्णेऽसमाप्ते चूडाकरणं कुर्यात् । 'षोड'केशान्तः । केशान्त इति संस्कारकर्मनामधेयम्-षोडशवर्षाण्यतीतानि यस्य स षोडशवर्षः । तस्य पुरुषस्य केशान्ताख्यः संस्कारः स्यात् । अयं च नियतकाल एव अतो विवाहिताविवाहितयोर्भवतीति जयरामः । अत्र कारिकायाम् । केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यवन्धोविशे वैश्यस्य ह्यधिक तत इति कर्मणस्तुल्यत्वात्केशान्तकथनमत्र भगवता कात्या