________________
૮૯
पारस्करगृह्यसूत्रम् ।
[ प्रथमा
1
स्मृतम् । तथा वपनं चानुभाविनां, प्रेतकनीयसां वपनं । तथा मुण्डनं चोपवासञ्च सर्वतीर्थेष्वयं विधिः । वर्जयित्वा कुरुक्षेत्रं विशालं विरजं गयाम् । नैमिषं पुष्करं गयामिति पाठान्तरम् । प्रयागे वपनं कुर्याद्गयायां पिण्डपातनम् । दानं दद्यात्कुरुक्षेत्रे वाराणस्यां तनुं त्यजेत् । इत्यादिवचननिचयप्रतिपादितनिमित्तेषु । अत्र गर्भाधानादिषु विवाहपर्यन्तेषु संस्कारकर्मसु मुख्यत्वेन पितैव कर्ता तदभावे सन्निहितोऽन्यः । तथाच स्मरणम् - स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु । पिण्डानोद्वाहनात्तेषां तस्याभावेऽपि तत्क्रमात् । एतान्युक्तानि नामकरणादीनि चूडाकरणान्तानि कर्माणि दुहितृणामपि मन्त्ररहितानि कुर्यात् । यथाह याज्ञवल्क्यः -- तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रक इति । तथा शूद्रस्य यथार्हम् । यथाह यमः -शूद्रोऽप्येवंविधः कार्यो विना मन्त्रेण संस्कृतः । न केनचित्समसृजच्छन्दसा तं प्रजापतिः । एवंविधः गर्भाधानादिचूडाकरणान्तैः संस्कारैर्वैजिक - गार्भिकपापशून्यः । विना मन्त्रेण तूष्णीं यतस्तं शूद्रं केनापि एकतमेनापि छन्दसा वेदेन प्रजापतिः परमेश्वरः न समसृजत् समयोजयत् इति । तथा ब्रह्मपुराणे -- विवाहमात्र संस्कारं शूद्रोऽपि लभतां सदा । मात्रशब्देन विहितेतरसंस्कारनिवृत्तिश्च । यमब्रह्मपुराणवचनाभ्यां शुद्रस्य गर्भाधानपुंसवनसीमन्तजातकर्मनामधेयनिष्क्रमणान्नप्राशनचूडाकरणविवाहान्ता नवसंस्कारा विहितास्ते च तूष्णीम् इतरेषां निवृत्तिः || || प्रसङ्गादनुपनीतधर्मा लिख्यन्ते । मनुः - नास्मिन्द्युत्तिष्ठते कर्म किञ्चिदामौनबन्धनात् । नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते । शूद्रेण हि समस्तावद्यावद्वेदे न जायते । वृद्धशातातपः-- प्राक् चूडाकरणाद्वालः प्रागन्नप्राशनाच्छिशुः । कुमारस्तु स विज्ञेयो यावन्मौनीनिवन्धनम् । शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् । रजस्वलादिसंस्पर्शे स्नातत्र्यं तु कुमारकैः । गौतमः --- प्रागुपनयनात्कामचारवादभक्षः । नित्यं मद्यं ब्राह्मणोऽनुपनीतोऽपि वर्जयेत् । उच्छिष्टादावप्रयता न स्युः । महापातकवर्जम् । श्राह्मे - मातापित्रोरथोच्छिष्टं बालो भुञ्जन् भवेत्सुखी । संस्कारप्रयोजनं च स्मृत्यन्तरोक्तम् । यथाह याज्ञवल्क्यः - एवमेनः शमं याति वीजगर्भसमुद्भवम् । अङ्गिराः -- चित्रकर्म यथाऽनेकैरागैरुन्मील्यते शनैः । ब्राह्मण्यमपि तद्वत्स्यात्संस्कारैर्विधिपूर्वकैः । मनुः — गाभैर्होमैर्जातकर्मचूडामौञ्जीनिबन्धनैः । वैजिकं गार्भिकं चैनो द्विजानामपसृज्यते । हारीत:गर्भाधानवदुपेतो ब्रह्मगर्भसंदधाति पुंसवनात्पुंसीकरोति फलन्नपनात्पितृजं पाप्मानमपोहति जातकर्मणा प्रथममपोहति नामकरणेन द्वितीयं प्राशनेन तृतीयं चूडाकरणेन चतुर्थ स्नानेन पञ्चमम् । एतैरष्टभिर्गार्भसंस्कारैर्गर्भोपघातात्पूतो भवति । उपनयनाद्यैरेभिरनुत्रतैश्चाष्टभिः स्वच्छन्दसंमितो ब्राह्मणः परं पात्रं देवपितॄणां भवति । छन्दसामायतनम् । सुमन्तुः — तत्र ब्राह्मणक्षत्रियवैश्यानां वृत्तिगर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनचूडोपनयनं चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्चानां यज्ञानामनुष्ठानम् देवपितृमनुष्य भूतब्रह्मयज्ञानाम् । एतेषां (?) चाष्टकाः पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीतिपाकयज्ञसंस्थाः । अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्याग्रयणेष्टिर्निरूढपशुवन्धः सौत्रामणीति सप्तहविर्यज्ञसंस्थाः । अग्निष्टोमोऽत्यग्निष्टोमउक्थ्यः षोडशीवाजपेयोतिरात्रोप्तोर्याम इति सप्त सोमसंस्थाः एते चत्वारिंशत्संस्काराः । हारीत:द्विविध एव संस्कारो भवति । ब्राह्मो दैवश्व | गर्भाधानादिस्नानान्तो ब्राह्मः । पाकयज्ञहविर्यज्ञसौम्याश्चेति देवः । ब्राह्मसंस्कारसंस्कृत ऋषीणां समानतां सायुज्यतां गच्छति । दैवेनोत्तरेण संस्कारेणानुसंस्कृतो देवानां समानतां सालोक्यतां सायुज्यतां गच्छतीत्यलमतिप्रसङ्गेन ॥ इति सूत्रार्थः ॥ ॥ * ॥ 11 11
( अथ प्रयोगः ) -- तत्र सांवत्सरिकस्य तृतीये वा वर्षे भूयिष्ठे गते कुमारस्य चूडाकरणाख्यं कर्म कुर्यात् । कुलधर्मव्यवस्थया वा । दैवयोगाद् गृह्येोक्तकालालाभे स्मृत्यन्तरोक्तान्यतमकाले मातृ