________________
फण्डिका]
द्वितीयकाण्डम्। कृदन्ताश्चतुर्दश हुत्वा संस्रवप्राशनान्ते शीतासु अप्सु उष्णा अप आसिञ्चति प्रक्षिपति वक्ष्यमाणमन्त्रेण । अन्वारब्धग्रहणेन नित्याज्याहुतिहोमो नियम्यते । 'उष्णे "शान्ते । केशान्ते पुनः उष्णेन वाय उदकेनेह्यदिते केशश्मश्रु वपेति विशेषः । अथास्यति । अथ उष्णोदकसेकानन्तरमत्र आस्वप्सु नवनीतपिण्डं घृतपिण्डं दनो वा पिण्ड प्रास्यति । असु क्षेपणे प्रक्षिपति । तत"सूता इति । ततस्ताभ्योऽन्यः चुलुकेनैकदेशमादाय दक्षिण गोदानं शिरसो दक्षिणप्रदेशस्थं गोदानं केशसमूह उन्दति आर्द्र करोतीत्यर्थः । केन मन्त्रेण । सवित्राप्रसूतेत्यादिना दीर्घायुत्वाय वर्चस इत्यन्तेन । ध्येण्या 'पध इति ' ज्येण्या त्रिश्वेतया शलल्या शल्यकपक्षककण्टकेन विनीय पृथक्कृत्य पूर्वदिनाधिवासितां केशलतिका तस्या अन्तर्मध्ये अन्तरा त्रीणि त्रिसयाकानि कुशतरुणानि दर्भपत्राणि धाति धारयति ओषधे त्रायस्वेति मन्त्रेण । शिवो "पति । ततः शिवो नामेत्यनेन मन्त्रेण लोहक्षुरं ताम्रपरिष्कृतमायसं क्षुरमादाय गृहीत्वा दक्षिणकरेण निवर्तयामीत्यनेन मन्त्रेण प्रवपति तं क्षुरं कुशतरुणान्यभिनिधाति । उपसर्गेण धात्वों वलादन्यत्र नीयते इति न्यायात् धातूनामनेकार्थत्वाचेत्यत्र प्रपूर्वो वपतिरभिनिधानार्थः । छेदनार्थत्वे तु उत्तरसूत्रविहितप्रच्छेदनानर्थक्यं प्रसज्येत । 'येना' 'माणे ' येनावपदिति मन्त्रेण केशसहितानि कुशतरुणानि प्रच्छिद्य खण्डयित्वाऽग्नरुत्तरतो भूभागे ध्रियमाणे स्थाप्यमाने आनडुहे आर्षभे गोमयपिण्डे गोशकृत्पिण्डे प्रास्यति प्रक्षिपति । ' एवं तूष्णीम् । एवमुक्तेन प्रकारेण द्विः द्विारम् उन्दनादि गोमयपिण्डनिधानान्तमपरं कर्म तूप्णी मन्त्ररहितं कुर्याम् । ' इत' 'नादि । इतरयोः पश्चिमोत्तरयोः गोदानयोः उन्दनादि क्लेदनप्रभृति कर्म चकारात्सकृत्समन्त्रकं द्विरमन्त्रकं भवति । अथ "पमिति' अथ दक्षिणगोदानस्य त्रिरुन्दनादिप्रच्छेदनानन्तरं पश्चाद्गोदाने विशेषमाह । व्यायुपमिति । त्र्यायुपं जमदग्नेरित्यादिना मन्त्रेण सकेशानि कुशतरुणानि सकृमच्छिय तूष्णी द्विः प्रच्छिद्य गोमयपिण्डे प्रास्यति । अथोचरतः । अथानन्तरम् उत्तरगोदाने उन्दनादिगोमयपिण्डनिधानान्ते विशेषमाह 'येन भूरिश्वरेति स्वस्तय' इत्यन्तेन मन्त्रेण सकृत्सकेशानां कुशतरुणानां प्रच्छेदनं द्विस्तूष्णीम् । 'नि:शु''शान्ते । त्रिः त्रीन्वारान् क्षुरेण शिरः मूर्धानं प्रदक्षिणं यथा भवति तथा परिहरति शिरसः समन्तात्प्रदक्षिणं क्षुरं भ्रामयतीत्यर्थः । तत्र मन्त्रमाह । यत्सुरेणेत्यादि मास्यायुः प्रमोषीरित्यन्तं केशान्ते च समुखमिति पदं प्रक्षिपेन्मन्त्रे आवपेत् । अनापि सन्मन्त्री द्विस्तूष्णीम् । 'तामि' "वपेति' ताभिः शीतोष्णाभिरद्भिः कुमारस्य शिरः समुद्य आर्द्र विधाय नापिताय क्षौरकडे जातिविशेषाय क्षुरमक्षण्वन्परिवपेत्यनेन मन्त्रेण प्रयच्छति । 'यथा 'रणम् केशानां शेषकरणं शिखास्थापनं केशशेपकरणम् । यथामङ्गलं मङ्गलं कुलाचारव्यवस्थामनतिक्रम्य भवति । कुलाचाराश्च बहुधा तद्यथा लौगाक्षिः-तृतीयस्य वर्षस्य भूयिष्ठे गते चूडां कारयेत् । दक्षिणतः कम्बुजानां वसिष्ठानां उभयतोऽत्रिकश्यपानां मुण्डा भृगवः पञ्चचूडा आङ्गि रसः । वाजसनेयिनामेकां मनलार्थ शिखिनोऽन्य इति । कम्वुजानां वसिष्ठानां दक्षिणे कारयेच्छिखाम् । द्विभागेऽत्रिकश्यपानां मुण्डाश्च भृगवो मताः । पञ्चचूडा अङ्गिरस एका वाजसनेयिनाम् । मनलाथै शिखिनोऽन्य उक्ता चूडाविधिः क्रमादिति । अनु'' 'कान्ते वा ' अनुगुप्तमावृतम् एनं गोमयपिण्डं सकेशं केशैः सहितं निधाय स्थापयित्वा गोष्ठे गवां व्रजे पल्वले अल्पोदके सरसि उदकान्ते वा उदकस्य समीपे वा । ' आचा"दाति स्वकीयाय आचार्याय वरम् आचार्याभिलषितं द्रव्यं ददाति कर्मकर्ता पित्रादिः । 'गां केशान्ते । केशान्ते कर्मणि संस्कार्यस्य आचार्याय गां ददाति । 'संव "न्ततः केशान्तकानन्तरं संवत्सरं यावत् ब्रह्मचर्य भवेत् । अवपनं केशान्ते द्वादशरात्रं पात्रं त्रिरात्रमन्ततः । केशान्तकर्मानन्तरं यावलीवमवपनं च विहितवपनव्यतिरेकेण । विहितवपनञ्चबाङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरौ मृते । आधाने सोमपाने च वपनं सप्तसु