________________
१८६
पारस्करगृह्यसूत्रम् ।
[ प्रथमा
1
मन्त्रेण सकेशानि कुशतरुणानि प्रच्छिय छित्त्वा प्रास्यति प्रक्षिपति उत्तरत अग्नेरेव आनडुहे प्रियमाणे गोमयपिण्डे । अथ मन्त्रार्थः । तत्र लम्वायनः पङ्किः सविता कुगतरुणप्रच्छेदने० । हे ब्रह्माणः ब्राह्मणाः येन कारणेन क्षुरेण वा सविता प्रसविता पिता आदित्यो वा राज्ञः सोमस्य वरुणम्य च शिरः अवपत् राजसूयदीक्षायै अमुण्डयत् । किभूतः विद्वान् सर्वज्ञः तेन कारणेन क्षुरेण वा प्रकारण ars स्य कुमारस्य इदं शिरो यूयं वपत मुण्डयत । यथाऽयं कुमार आयुष्मान् दीर्घायुः जरदष्टिः सुपरिणतवश्च सत् स्यात् । एवम् एवमेवोन्दनादि कर्म । द्विरपरं तूप्णीम् मन्त्रान् विना भवति । इतरयोश्च पश्चिमोत्तर योगदानयोरुन्दनादि, चकारादेवमेव सकृन्मन्त्रेण द्विस्तूष्णीम् । अथ पश्चापश्चिम गोदाने त्र्यायुपमिति छेदने मन्त्रभेदः । तत्र उत्तरनारायण उष्णिकू आशी: छेदने० । अथोतरतो येन भूरिरिति छेदने मन्त्रभेदः । अस्यार्थः । तत्र वामदेवो यजुः क्षुरः केशच्छेदने० । हे कुमार येन ब्रह्मणा मन्त्रेण तपसा वा चराः चरणशीलो वायुः ज्योक् चिरम् आकल्पमित्यर्थः । दिवं द्याम् पश्चात्तामनुसूर्ये तमनुविश्वं च चरति । किंभूतः भूरिः प्रचुरः तेन ब्रह्मणा तपसा वा तन्मन्त्रितक्षुरेण वा ते तब शिरो वपामि । किमर्थं जीवातवे जीवनहेतवे धर्माद्यर्थे जीवनायायुपे सुलोक्याय शोभनयशसे स्वस्तये मङ्गलाय । त्रिः क्षुरेण क्षुरभ्रामणेन शिरः प्रदक्षिणं त्रिः करोति सकृन्मन्त्रेण द्विस्तूष्णीम् । केशान्ते तु समुखमिति विशेषः । तत्र मन्त्रः । यत्क्षुरेणेति । अस्यार्थः । तत्र वामदेवो यजुः क्षुरभ्रामणे० । हे क्षुरदेवते यत् यस्मात् वत्रा क्षुरेण आवपति शिरो मुण्डयति नापितादिः किंभूतेन एनं कुमारं मज्जयता संस्कुर्वता तथा सुपेशसा शोभयता वाशब्दञ्चार्थे अतोऽस्य कुमारस्य केशान् छिन्धि मुण्डय शिरः आयुश्च मा प्रमोपीः मा सुपाण | सुपस्तेये ।
शान्ते तु मुखमिति च मन्त्रान्ते वाच्यम् । ताभिरेवाद्भिः शिरः समुद्य वेदयित्वाऽऽर्द्रभावमापाद्येत्यर्थः । नापिताय क्षुरं प्रयच्छति पिता तस्याधिकारित्वावगमात् । अक्षण्वन्परिवपेत्येतावता मन्त्रेण । अस्यार्थः । तत्र वामदेवो यजुः क्षुरो वपने० । हे नापित अस्य शिरः अक्षण्वन् क्षतमकुन् परिवप परितो वप शिखा रक्षित्वा परितो मुण्डयेत्यर्थः । यथामङ्गलं यथाशास्त्रं त्रिशिखत्वादि । अनुगुप्तं सुगुप्तं वमिति चूडाकरणे संस्कर्ता स्वाचार्याय केशान्ते संस्कृतोऽपि गाम् । संवत्सरमिति केशान्ते एव संवत्सरादिकालं ब्रह्मचर्यव्रतम् । नतु कुमारस्य, असंभवात् । अत्रपनं च विहितवपनव्यतिरिक्तवपनाभावोऽत्रैव । ब्रह्मचर्यकालविकल्पश्च शक्तिश्रद्धापेक्षः ॥ १ ॥
"
( हरिहर: ) -- अथ चूडाकरणकेशान्तौ तन्त्रेण सूत्रयति । ' सांवत्सतिहते संवत्सरमन्दमतिक्रान्तः सांवत्सरिकः तस्य कुमारस्य चूडाकरणं चूडाकर्म कुर्यात् । तृतीये वा संवत्सरे अप्र'तिहते अल्पावशिष्टे । ' यथा "र्वेषाम् ' यद्वा यथामङ्गलं यथाकुलाचारं, एतदुक्तं भवति यस्य कुले सांवत्सरिकस्य चूडाकर्म क्रियते तस्य सांवत्सरिकस्य यस्य तृतीयेऽद्रे तस्य तदा इति व्यवस्था । यस्य कुले नास्ति नियमः तस्य यदृच्छया विकल्पः । अन्ये तु यथामङ्गलशब्देन धर्मशास्त्रान्तरे विहितकालान्तरोपलक्षणमाहुः । अतश्च सर्वेषां तुल्यविकल्पः । ' षोडशान्तः षोडशवर्षाण्यतीतानि यस्य असौ षोडशवर्षः तस्य सप्तदशे वर्षे केशान्तः केशान्ताख्यः संस्कारो भवति । अत्र यद्यपि सूत्र - क्रमोऽन्यथा तथापि केशान्तस्य कालविकल्पाभावात् चूडाकरण एव कालविकल्प इति हेतोर्यथामङ्गलं वा सर्वेपाम् इति सूत्रं पूर्व व्याख्यातं पाठक्रमादर्थक्रमो बलीयानिति न्यायात् । ' ब्राह्मशति' एवं कालमभिधाय कर्माभिधत्ते । चूडाकरणाङ्गतया त्रीन्ब्राह्मणान्भोजयित्वा माता जननी कुमारं पुत्रं चूडाकरणार्हमादाय गृहीत्वा आप्लाव्य स्नापयित्वा अहते नवे सकृद्धौते वाससी द्वे व परि धाप्य परिहिते कारयित्वा अन्तरयोत्तरीयत्वेन अड्डे उत्सङ्गे आधाय स्थापयित्वा पश्चादनेः पश्चिमतः उपविशति आस्ते । ' अन्वा चति ' ततोऽन्वारव्ध. ब्रह्मणा उपस्पृष्ट: आज्याहुती. आघारादिखि -