________________
कण्डिका ]
द्वितीयकाण्डम् |
6
अन्ये तु यथामङ्गलशब्देन कालान्तरं कल्पयन्ति । ' ब्राह्मणाविशति' माता कुमारमादायऽऽप्लाव्य नापयित्वाऽहते वाससी परिधाप्याङ्के कृत्वा पञ्चाग्नेरुपविशति । 'अन्वारकेशान्वप' इत्यनेन मन्त्रेण । 'केश' ' 'शान्ते ' विशेष: । ' अथात्र प्रास्यति' अत्रेति प्रकृतोदकमुच्यते । आदाय'' 'दैव्या इति ' तत उदकमादाय दक्षिणं गोदानमुन्दति । गोदानशब्देनाङ्गविशेपोऽभिवीयते इति अङ्गमिति शीर्षपार्श्वमुच्यते । उन्दति क्लेदयतीत्यर्थः । तच्च सवित्रा प्रसूता इत्यनेन मन्त्रेण । ' येण्या शलल्या विनीय' त्र्येणी शलली प्रसिद्धा तया विनीय केशान् । ' त्रीणि 'पध इति ' अनेन मन्त्रेण । ' शिवो वपति शिवो नामेति मन्त्रेण ताम्रमयं क्षुरमादाय गृहीत्वा निवर्तयामीत्यनेन मन्त्रेण कुशतरुणेष्वन्तर्हितेपु संलागयति । प्रपूर्वी वपतिः संलागने । येनावपत्सविता क्षुरंणेत्यनेन मन्त्रेण सकेशान्प्रच्छिद्य कुशान् ।' आनडुतूष्णीम् ' एवं द्विरपरं कर्म तूष्णीं भवति । ' इतरयोश्चन्दनादि ' इतरयोश्व गोदानयोः उन्दनाद्येव कर्म भवति सकृन्मन्त्रेण द्विस्तूष्णीम् ।' अथ पश्चात्र्यायुषमिति ' छेदनमन्त्रः । ' अथोत्तरतो येन भूरिश्वरा दिवमिति' छेदन - मन्त्र एव । 'त्रिः क्षुरेण यत्क्षुरेण ' इत्यनेन मन्त्रेण । ' मुखमिति च केशान्ते ' मन्त्रविशेषः । ताभिर‘'विपेति' ताभिरेवाद्भिः शिरः समुध । उन्दयति क्लेदनार्थः तस्य कित्वादनुनासिकलोपः क्रियते समुद्येतिरूपं वेदयित्वेत्यर्थः । नापिताय क्षुरं प्रयच्छति । अक्षण्त्रन्परिवपेत्यनेन मन्त्रेण । यथा मङ्गलं केशशेषकरणम् । यथाशास्त्रं यद्यस्य गोत्रे उचितम् । केचित् त्रिशिखाः केचित्पभ्वशिखाः यथा यस्य प्रसिद्धि: । 'अनुगुप्तमेतर्ट सकेशं गोमय पिण्डं निधाय गोष्ठे पल्वल उदकान्ते वाऽऽचार्याय वरं ददाति । गां केशान्ते तस्यैव ह्याचार्यस्य नेतरस्येति । ' संवत्सरं ब्रह्मचर्यमवपनं च केशान्ते' व्रतं भवति । 'द्वादशरात्रः षड्रात्रं त्रिरात्रमन्ततः । स चायं विकल्पः । तुल्यं हि स्मरणमन्यत्रेति ॥ * ॥ ( जयरामः ) संवत्सरो जातो यस्य स सांवत्सरिकः संवत्सरातिक्रान्तः तस्य चूडाकरणाख्यं कर्म कर्तव्यमिति शेषः । तृतीये वा संवत्सरे अप्रतिहते अगते असंपूर्ण इत्यर्थः । तुल्यत्वात्तत्क - र्मणः केशान्तोऽप्यत्रोच्यते । स च नियतकाल एव विवाहिताविवाहितयोः संवत्सरं ब्रह्मचर्यमित्यादि वक्ष्यमाणत्वात् । ' यथामङ्गलमिति ' यद्यस्य कुले मङ्गलमुचितं कस्यचित्संवत्सरे कस्यचित्ततीये । यथामङ्गलं कालान्तरे कार्यमित्यपरे । आदौ ब्राह्मणान् संभोज्य शिशोर्माता बालं संखाप्याहतं वस्त्रयुग्मं परिधाप्य उत्सङ्गे वालमारोप्य स्थापितस्य वह्नेः पश्चातुरुत्तरत उपविशति, अन्वारम्भेणेवाघारादिस्विष्टकृदन्ताश्चतुर्दशाहुतयो हूयन्ते ता एवं हुत्वा । 'शीतासूपकल्पितास्वप्सु उष्णा अप आसिञ्चति पिता उष्णेनेति ' मन्त्रेण । अस्यार्थः । तत्र परमेष्ठी प्रतिष्ठा वायुर्वपनोदकासेके० ।
।
१८५
" तत
वाय हे अदि अखण्डता दितिः खण्डनं दो अवखण्डने इहि एहि आगच्छ । आगत्य चोष्णेन जलेन सह वर्तमानेनेतरेणोदकेन केशार्द्रीकरणेनास्य केशान्वप छिन्धि । केशश्मश्रुवपेति केशान्तेकर्मणि विशेषः । अथात्र प्रकृतोदके दध्यादीनामेकतमस्य पिण्डं प्रास्यति प्रक्षिपति । ततस्तस्मादुदकमादाय दक्षिणं गोदानं केशसटामुन्दति छेदयति । सवित्रा प्रसूता दैव्या आप इति मन्त्रेण । उन्दी क्लेदने । अथ मन्त्रार्थः । तत्र प्रजापतिर्गायत्री आपः क्लेदने० । हे कुमार सवित्रा सूर्येण प्रसूता उत्पादिता आपः ते तव तनूं चूडाख्यमङ्गम् उन्दन्तु क्लेदयन्तु । किंभूता दैव्याः दिवि भवाः, किमर्थम्, तव दीर्घायुत्वाय चिरकालं निर्दुष्टजीवनाय वर्चसे प्रतापाय ऐश्वर्याय च त्र्येण्या त्रिश्वेतया शलल्या शल्यकपक्षकण्टकेन नयनं पृथक्करणम् । तूष्णींकुशतृणत्रयान्तर्द्धानम् ओषधे त्रायस्वेत्येतावता मन्त्रेण । तत्र प्रजापतिर्यजुर्गायत्री तृणमन्तर्धाने० । शिवोनामेति मन्त्रेण ताम्रपरिष्कृतक्षुरादानम् । तत्र प्रजापतिः प्राजापत्या वृहती क्षुरः तदादाने० । ' निवर्तयामीति ' मन्त्रेण संलागनकरणम् । प्रपूर्वी वपतिः संलागने । तत्र प्रजापतिः प्राजापत्यात्रिष्टुप् क्षुरः स्पर्शने ० । येनावपदिति .
२४