________________
१८० पारस्करगृह्यसूत्रम् ।
[एकोनविंशी क्षयं नन्दा द्वादशीमष्टमीममाम् । त्यक्त्वाऽन्यतिथयः प्रोक्ताः सितजीवज्ञवासराः । चन्द्रवार प्रशंसन्ति कृष्णे चान्यत्रिकं विना । श्रीधरः-आदित्यतिष्यवसुसौम्यकरानिलाश्विचित्राजविष्णुवरुणोत्तरपौप्णमित्राः । वालान्नभोजनविधौ दशमे विशुद्धे छिद्रां विहाय नवमी तिथयः शुभाः स्युः । वसिष्ठः-बालानमुक्तौ व्रतवन्धने च राजाभिषेके खलु जन्मधिष्ण्यम् । शुभं त्वनिष्टं सततं विवाहे सीमन्तयात्रादिषु मङ्गलेषु । 'स्थालीपा' 'जुहोति । स्थालीपाकं चरुं यथाविधि अपयित्वाऽऽज्यभागौ हुत्वा द्वे आज्याहुती वक्ष्यमाणैमन्त्रैर्जुहोति । 'देवीं वाच "द्वितीयाम् ' द्वे आहुती जुहोती. युक्तं तत्र देवीं वाचमजनयन्त इति मन्त्रेणैकामाहुतिं जुहोति । वाजो नो अद्येति च द्वितीयां, चशब्दात्पूर्वया ऋचा सह वाजोनो अद्येत्यनया द्वितीयामाहुतिं जुहोति । ततश्च देवीं वाचमिति वाजो नो अद्येति च द्वाभ्यामृग्भ्यां द्वितीयामाहुतिं जुहोतीत्यर्थः । मन्त्रार्थः-देवी देवसंवन्धिनी वाचं वाणी देवाः प्राणादिवायवः अजनयन्त उत्पादितवन्तः ततस्तां देवीं वाचं विश्वरूपाः नानारूपा ऋषिमुनिब्राह्मणादयः पशवः संसरणत्वाद्वदन्ति । पशुरेवं स देवानामिति श्रुतेः । सा नो अस्मान उपैतु संनिहिताऽस्तु । किंभूता मन्द्रा हर्षकरी । इषं रसं ऊजै अन्नादि च दुहाना । सुष्टुता शोभनैर्मन्त्रैः तद्दष्ट्रभिर्वा स्तुता । तत्र दृष्टान्तः । वत्सान् धेनुरिवेति । 'स्थालीपा""स्वाहेति । स्थालीपाकस्येत्यवयवलक्षणा षष्ठी । स्थालीपाकस्य चरोः प्राणेनान्नमशीय स्वाहेति प्रतिमन्त्रं चतुभिर्मन्नैश्चतस्त्र आहुतीर्जुहोति । ततः स्विष्टकृदादिप्राशनान्तम् । मन्त्रार्थः-प्राणेन वायुनाऽन्नमशीय अहं प्राप्नुयाम् लभेयम् । अपानेन वायुना गन्धान परिमलान् लभेयम् । एवमग्रेऽपि योज्यम् । 'प्राशनान्ते ""श्रुतेः । प्राशनान्ते कर्मणि सर्वान् रसान् कटुमधुरतितकषायादीन् सर्वमन्नं भक्ष्यं भोज्यं लेां चोष्यं पेयं चैकतां एकस्मिन् सुवर्णादिपात्रे उद्धत्याथैनं कुमारं तस्मादन्नं गृहीत्वा तूष्णीं प्राशयेत् । हन्तेति मन्त्रेण वा प्राशयेत् । तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं वपट्कारं च, हन्तकारं मनुष्याः स्वधाकारं पितर इति श्रवणात् । श्रुतिरपि च लिङ्गभूता स्मरणस्य द्योतिका भवति । नन्वप्रमुद्धत्य ब्राह्मणाय दीयते तत्र कृतार्थमेतद्दर्शनमिति चेन्मैवम् । उभयोद्योंतिका भविष्यति । एकतोद्धत्येत्यत्र छान्दसः संधिः । मार्कण्डेयः-देवतापुरतस्तस्य धान्युत्सङ्गगतस्य च । अलंकृतस्य दातव्यमन्नं पात्रे सकाञ्चनम् । मध्वाज्यदधिसंयुक्तं प्राशयेत्पायसं तु वेति । गुणफलमाह 'भारद्वाज्या"कामस्य' भारद्वाजी पक्षिणीविशेषः 'चिठीकेति प्रसिद्धा' तस्याः मांसेन वाक्प्रसारः अयं कुमारो वाग्मी स्यादित्येवं कामो यस्मिन् कुमारे तस्य प्राशनं कुर्यात् । कपिज 'कामस्य ' कपिजल: पक्षिविशेपः प्रसिद्धः । यद्ययं कुमारोऽन्नादः स्यादिति कामयेत्तदा कपिजलमांसेन प्राशनं कुर्यात् । एव मग्रेऽपि योज्यम् । 'मत्स्यै “मस्य जवनः शीघ्रगामी स्यादिति कामयेत् तदा मत्स्यानां मांसेन प्राशनं कुर्यात् । 'कृकपा "मस्य । कृकषा कङ्कणहारिका तन्मांसेन दीर्घायुष्कामस्य प्राशनम् । 'भाट्या "मस्य' आटिर्जलचरः पक्षी तन्मांसेन ब्रह्मवर्चसकामस्य प्राशनं कुर्यात् । 'सर्वैः सर्वकामस्य' यो वाक्प्रसारादिसर्वान्कामान् कामयते तस्य भारद्वाज्यादिसर्वैर्मासैः क्रमेण प्राशनं कुर्यात् । मित्रैः प्राशनमिति भर्तृयज्ञाः । 'अन्नपर्या "भोजनम् । अन्नपरिपाट्या वाऽन्नवत् सर्वमांसान्येकीकृत्य प्राशयेदित्यर्थः । अन्नपरिपाट्या वा क्रमेण प्राशयेन्नैकत उद्धृत्येति भर्तृयज्ञाः । अन्नपर्यायेत्यवि. भक्तिकं छान्दसं पदम् । तत इत्युक्तार्थम् । द्विरुक्तिः काण्डसमाप्तिसूचनार्था ॥ ॥ * ॥
___इति श्रीत्रिरग्निचित्सम्राटस्थपतिश्रीमहायाज्ञिकवामनात्मजदीक्षितगदाघरकृते.
___गृह्यसनभाष्ये प्रथमकाण्डे एकोनविशीकण्डिका ॥ १९ ॥ . अथ पदार्थक्रमः-जन्मतः षष्ठे मासे रेवत्यश्विनीरोहिणीमृगशिरःपुनर्वसुपुष्यहस्तचिनाश्रवणधनिष्ठोत्तरात्रयेषु बुधजीवभानुवारेषु शुभे चन्द्रे पूर्वाहे. पित्रादिः शिशोरन्नप्राशनं कारयेत् । पठे