________________
कण्डिका प्रथमकाण्डम् ।
१८१ च क्रियते तदा गुरुशुक्रभौमादिदोपोऽधिकमासादिदोपश्च नास्ति । पित्रादिः सभार्यः शिशोर्मनलस्नानं कारयित्वा देशकालौ स्मृत्वा ममास्य शिशोर्मातृगर्भमलप्राशनशुद्धयन्नाद्यब्रह्मवर्चसतेजइन्द्रियायुर्लक्षणफलसिद्धिवीजगर्भसमुद्भवैनोनिवर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थमस्य कुमारस्यान्नप्राशनाख्यं कहिं करिष्ये । ततः स्वस्तिवाचनाभ्युदयिक कृत्वा पञ्च भूसंस्कारान्कृत्वा लौकिकाग्नेः स्थापनम् । वैकल्पिकावधारणे हन्तेति प्राशनमिति विशेषः । ततो ब्रह्मोपवेशनाद्याज्यभागान्तं तत आज्येन देवी वाचमिति प्रथमाहुतिः । इदं वाचे नमम | पुनर्देवीं वाचं वाजो नो अद्येति मन्त्राभ्यां आज्येन द्वितीयाहुतिः । इदं वाचे वाजाय नमम । ततः स्थालीपाकेन चतस्त्र आहुतयः । प्राणेनान्नमशीय स्वाहा इदं प्राणाय न० । अपानेन गन्धानशीयस्वाहा इदमपानाय० । चक्षुपा रूपाण्यशीय स्वाहा इदं चक्षुषे न० । श्रोत्रेण यशोऽशीय स्वाहा इदं श्रोत्राय न० । ततः स्थालीपाकेन स्विष्टकृद्धोमः । ततो महान्याहृत्यादिप्राजापत्यान्ता नवाहुतयः । ततः संस्रवप्राशनम् । पवित्राभ्यां मार्जनम् । पवित्रप्रतिपत्तिः । ब्रह्मणे पूर्णपात्रदानम् । प्रणीताविमोकः । ततः सर्वान्रसान्सर्वमन्नं चैकस्मिन्पात्रे उद्धृत्य सकृदेव हन्तेति मन्त्रेण कुमारं प्राशयेत् । काम्यं यथोक्तम् । एकब्राह्मणभोजनम् । ततो दशबाह्मणभोजनम् । वालं भूमावुपवेश्य तदने पुस्तकवस्त्रशस्त्रादिशिल्पानि विन्यस्य जीविकापरीक्षां कुर्यात् । शिशुः स्वेच्छया यत्प्रथमं स्पृशेत्साऽस्य जीविकेति विद्यात् । तदुक्तं कारिकायाम् कृतप्राशनमु. समाद्धात्री वालं समुत्सृजेत् । कार्य तस्य परिज्ञानं जीविकाया अनन्तरम् । देवताग्रेऽथ विन्यस्य शिल्पभाण्डानि सर्वशः । शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणम् । प्रथमं यस्पृशेद्वालस्ततो भाण्ड स्वयं तदा । जीविका तस्य वालस्य तेनैवति भविष्यति । गर्भाधानादिका अन्नप्राशनान्ता मलिम्लुचे । आकर्णवेधाः स्युः क्रिया नान्या इत्याह भास्करः । कुमार्या अप्येतदमन्त्रक कार्यम् । इत्यन्नप्राशने पदार्थक्रमः ॥ ॥ गर्गमते प्राणापानाय चक्षुषे श्रोत्राय जुष्टं गृहामीति चरुग्रहणम् । प्रोक्षणे त्वाधिकः । अन्यत्समानम् ॥ ॥ अथ वर्धापनविधिः । आदित्यपुराणेसर्वैश्व जन्मदिवसे स्नातैर्मडलवारिभिः । गुरुदेवाग्निविप्राश्च पूजनीयाः प्रयत्नत इति । स्वनक्षत्रं च पितरस्तथा देवः प्रजापतिः । प्रतिसंवत्सरं यत्नात्कर्तव्यश्च महोत्सवः । स्वनक्षत्रं स्वनक्षत्रदेवता । स्वनक्षत्रं वित्तपश्चेति क्वचित्पाठः । तदा वित्तपः कुवेरः॥ ॥ अथ प्रयोगः-तत्र वर्षपर्यन्तं प्रतिमासं ततः प्रतिवर्ष तिलतैलेनैव स्नात्वा शुक्लवस्त्रयुगं परिधायाचान्तो गृहाभ्यन्तरत उपविश्य कुशथवजलान्यादाय ॐ अद्य मदीयजन्मदिने दीर्घायुष्यकामो मार्कण्डेयादीनां पूजनमहं करिष्य इति संकल्प्य तत्र निर्विघ्नार्थ गणपतिपूजनमहं करिष्ये । ॐ गणपतयेनमः इति गन्धादीनि दत्त्वा प्रणम्य गणपते क्षमस्वेति विसर्जयेत् । एवम् गौरी पद्मां शची मेधां सावित्री विजयां जयां देवसेनां स्वधां स्वाहां मातृः लोकमातृः धृति पुष्टिं तुष्टिं आत्मनः कुलदेवतां पूजयेत् । ततो घृतेन वसो रां कुर्यात् । ततः ॐ गणपतये नमः दुर्गायै नमः कुलदेवतायै नमः गुरुभ्यो नमः देवताभ्यो नमः अग्नये नमः विप्रेभ्यो नमः मातृभ्यो नमः पितृभ्यो नमः सूर्याय नमः चन्द्राय नमः मङ्गलाय नमः बुधाय नमः बृहस्पतये नमः शुक्राय नमः शनैश्वराय नमः राहवे नमः केतवे नमः पञ्चभूतेभ्यो नमः, कालाय नमः युगाय नमः संवत्सराय नमः मासाय नमः पक्षाय नमः अस्मजन्मतिथये नमः अस्मजन्मनक्षत्राय नमः अस्मजन्मराशये नमः शिवायै नमः संभूत्यै नमः प्रीत्यै नमः संतत्यै नमः अनुसूयायै नमः मायै नमः विष्णवे नमः भद्रायै नमः इन्द्राय नमः अग्नये न० यमाय न० निर्वतये न० वरुणाय न० वायवे न० धनदाय न० ईशानाय न० : अनन्ताय न० ब्रह्मणे नमः इति संपूज्य । षष्ठिके इहागच्छेह, तिष्ठेल्यावाह्य पाद्यादिकं दत्वा ॐ जगन्मातर्जगद्धात्रि जगदानन्दकारिणि । प्रसीद मम कल्याणि नमोऽस्तु षष्टिदेवते । इति मन्त्रेण पुष्पाञ्जलित्रयेण संपूज्य गन्धादिकं दत्त्वा