________________
कण्डिका] प्रथमकाण्डम् ।
१७९ पाकस्य जुहोति ' स्थालीपाकस्य चरोः प्राणेनान्नमशीयेत्यादिभिश्चतुभिर्मन्त्रैश्चतस्त्र आहुतीर्जुहोति ततः स्विष्टकृदादि प्राशनान्तं विधाय । 'सर्वान् इति श्रुतेः । सर्वान् मधुरादीन् रसान्सर्वमन्नं भक्ष्यभोज्यलेह्यपेयचोष्यादि । एकतोद्धृत्येत्यत्र विसर्जनीयलोपेऽपि पुनः सन्धिरापः पृथगुकारोच्चारणं वा । एकतः एकस्मिन्पात्रे उद्धृत्य कृत्वा अथानन्तरमेनं कुमारं प्राशयेत् तूष्णीं मन्त्ररहितं हन्तेति वा मन्त्रेण । कुतः हन्तकारं मनुष्या उपजीवन्ति इति श्रवणात् । 'भारद्वाज्या' 'पर्याय वा' अत्र गुणफलमाह भारद्वाज्याः पक्षिण्याः मांसेन कुमारस्य प्राशनं कारयितव्यम् । यदीयं कामना भवति कस्य पितुः कथंभूतस्य वाक्प्रसारकामस्य वाचः प्रसारो वहुत्वं तत्कुमारस्य कामयते इति वाक्प्रसारकामः तस्य कर्तरि षष्ठी कृत्यप्रत्ययान्तत्वात् । एवमन्नाद्यकामस्य कपिञ्जलमांसेन एवमुत्तरत्रापि । अयमर्थःयदि कुमारस्य अयं वाग्मी स्यादिति कामयेत्तदा भारद्वाज्या मांसं प्राशयेत् । यदि कुमारोऽन्नादः स्यादिति कामयेत्तदा कपिञ्जलमांसं प्राशयेत् । कपिजलः कारण्डवो मैरिवी मयूरो वा केचित्तितिरो वेति । यदि कुमारोऽयं जवनः शीघ्रगामी स्यात्तदा यथासंभवं मत्स्यान्नाशयेत् । स यदि कुमारो दीर्घायुः स्यादिति कामयेत् तदा कृपाया मांसं प्राशयेत् । यदि कुमारो ब्रह्मवर्चस्त्री स्यादिति कामयेत्तदा आट्या मांसं प्राशयेत् । यदि वाक्प्रसारादीनि ब्रह्मवर्चसान्तानि सर्वाणि कुमारस्य भवन्विति कामयेत्तदा भारद्वाज्यादीनामाट्यन्तानां सर्वाणि मांसानि कमेण प्राशयेत् । अन्नपर्याय वा अन्नपरिपाट्या वा अन्नवदेकीकृत्य प्राशयेदित्यर्थः । अन्नपर्यायेति अविभक्तिकमा पदम् । 'ततो ब्राह्मणभोजनम् । ततः कर्मसमाप्तौ एकस्य ब्राह्मणस्य भोजनं कारयितव्यम् । अत्र काण्डपरिसमाप्तौ द्विरुक्तिः। यथा कात्यायनसूत्रे अध्यायपरिसमाप्तौ उपस्पृशेदप उपस्पृशेदप इति सूत्रार्थः ॥ ॥ अथान्नप्राशनप्रयोग:-कुमारस्य षष्ठे मासे चन्द्रतारानुकूले शुभे दिने मातृपूजापूर्वकं नान्दीमुखश्राद्धं विधाय पञ्च भूसंस्कारान्कृत्वा लौकिकाग्निं स्थापयित्वा ब्रह्मोपवेशनाद्याज्यभागान्तं विदध्यात् । तत्र आज्येन देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सानो मन्द्रेषमूर्ज दुहाना धेनुर्वागस्मानुपसुष्टुतैतु स्वाहेति प्रथमाम् । इदं वाचे इति त्यागं विधाय पुनर्देवीं वाचमित्येतस्यान्ते वाजो नो अद्य प्रसुवातिदानं वाजो देवा ऋतुभिः कल्पयाति । वाजो हि मा सर्ववीरं जजान विश्वा आशा बाजपतिर्जयेय स्वाहेति द्वितीयाम् । इदं वाचे वाजायेति च त्यागं कुर्यात् । अथ स्थालीपाकेन चतस्र आहुतीर्जुहोति तद्यथा । प्राणेनान्नमशीय स्वाहा इदं प्राणाय० । अपानेन गन्धानशीय स्वाहा । इदमपानाय० । चक्षुषा रूपाण्यशीय स्वाहा । इदं चक्षुषे० । श्रोत्रेण यशोऽशीय स्वाहा । इदं श्रोत्राय० । ततः स्थालीपाकेन स्विष्टकृतं हुत्वा महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतीराज्येन हुत्वा संस्रवप्राशनम् । दक्षिणादानान्तं कृत्वा सर्वान् रसान्सर्वं चान्नमेकस्मिन् पाने समुद्धृत्य सकृदेव कुमार तूष्णीं प्राशयेत् । हन्तेति वा मन्त्रेण । स यदि कुमारस्य वाग्मित्वमिच्छेत्तदा भारद्वाज्या मांसं प्राशयेत् । यद्यन्नाद्यत्वं कामयेत्तदा कपिजलमांसं, यदि जवनत्वं तदा मत्स्यमांसं, यदि दीर्घायुष्टं तदा कुकषायाः मांसं, यदि ब्रह्मवर्चसं तदा आट्या मांसं, यदि सर्वकामस्तदा सर्वमांसानि क्रमेण प्राशयेत्। एकीकृत्य वा । अस्य कर्मणः समृद्धयर्थ ब्राह्मणमेकं भोजयिष्ये इति संकल्प्य ब्राह्मणं भोजयेत् । इत्यन्नप्राशनम्।
इत्यग्निहोनिहरिहरविरचितायां पारस्करगृह्यसूत्रव्याख्यानपूर्विकायां प्रयोगपद्धतौ प्रथमः काण्डः ॥ * ॥
(गदाधर०)-षष्ठे मासेऽन्नप्राशनम् । जन्मतः षष्ठे मासे कुमारस्यान्नप्राशनाख्यं कर्म कुर्यात् । नारदः-जन्मतो मासि षष्ठे स्यात् सौरेणान्नाशनं परम् । तदभावेऽष्टमे मासि नवमे दशमेऽपि वा । द्वादशे वाऽपि कुर्वीत प्रथमान्नाशनं परम् । संवत्सरे वा संपूर्णे केचिदिच्छन्ति पण्डिताः। षष्ठे वाऽप्यष्टमे मासि पुंसां स्त्रीणां तु पञ्चमे । सप्तमे मासि वा कार्य नवान्नप्राशनं शुभम् । रिक्तां दिन