________________
१७८ पारस्करगृह्यसूत्रम्।
[एकोनविंशी सर्वैः सर्वकामस्य ॥ १२ ॥ अन्नपर्याय वा ततो ब्राह्मणभोजनमन्नपर्याय वा ततो ब्राह्मणभोजनम् ॥ १३ ॥ ॥ १९॥ ॥७॥
(कर्कः)-पष्ठे मासेऽन्नप्राशनम् ! कुमारस्य कर्तव्यमिति सूत्रशेपः। 'स्थालीपाक"द्विती याम् ' चशब्दात्पूर्वया च स्थालीपाकस्य जुहोति । प्राणेनान्नमशीय स्वाहेति प्रतिमन्त्रं चतुर्भिः । ततः स्विष्टकदादि । 'प्राशनान्ते.."श्रुतेः । विकल्पोऽयं सर्वे रसाः कटुतिक्तादयः सर्वमन्नं च शालिसूपापूपादि । एकत इत्येकपात्रोद्धरणम् । 'भारद्धा "कामस्य' भारद्वाजी पक्षिविशेषस्तस्य मांसेन वाग्मीकुमारःस्यादित्येवंकामस्य प्राशनम् । 'कपिखलमासेनानायकामस्य' 'मत्स्यैर्जवनकामस्य ' जवनो वेगोऽभिधीयते । 'कृकपाया आयुःकामस्य ' कषेति कङ्कणहारिकोच्यते । तन्मासेनायुःकामस्य । आट्या ब्रह्मवर्चसकामस्य' आटीनाम जलचरः पक्षी तस्य मांसन ब्रह्मवर्चसकामस्य प्राशनम् । ' सर्वैः सर्वकामस्य । य एतान्सर्वान्कामान्कामयते तस्य सवरेतैर्मासैः प्राशनं कारयेत् ' अन्नपर्याय वा । अन्नपरिपाट्या वैकीकृत्य सर्वमांसानि प्राशयेत् । ततो ब्राह्मणभोजनमित्युक्तार्थम् ।
इति श्रीकोपाध्यायकृते गृह्यसूत्रभाष्ये प्रथमकाण्डविवरणं सपूर्णम् ॥ १९॥ (जयरामः)-पप्ठे मासे कुमारस्यान्नप्राशनाख्यं कर्म कार्यमिति शेपः। 'अपयित्वेति: सिद्धस्यासादनव्युदासार्थम् । आज्यभागान्ते देवीं वाचमित्यनेन मन्त्रेणैकामाज्येनाहुतिं जुहोति । द्वितीयां तु देवीवाचमिति चशब्दाद्वाजोन इत्येताभ्यां मन्त्राभ्यां जुहोति । अथ मन्त्रार्थः-तत्र प्रजातिस्रिष्टुप् वाक् आज्यहोमे० । देवीं द्युतिमती वाचं वाणी देवाः प्राणादिवायवः । अजनयन्त उत्पादितवन्तः । ततस्तां वाचमैश्वर्यास्यां पशवो मनुष्यादयो वदन्ति । पशुरेवं स देवानामिति श्रुतेः । सा वाक् नोऽस्मान् उपैतु संनिहिताऽस्तु । किंभूता मन्द्रा हर्षकरी । इयं रसम् ऊर्जमन्नादीनि च दुहाना । सुष्टुता शोभनमन्त्रैस्तवष्टभिर्वा स्तुता नुता । तत्र दृष्टान्तः वत्सान्धेनुरिवेति । 'वाजो नो इति। अस्य प्रजापतिरनुष्टपू अन्नं तत्माशनाङ्गहोमे० । स्थालीपाकस्येत्यवयवलक्षणा पष्ठी | ततः चतन आहुतीः प्रतिमन्त्रम् । मन्त्रार्थः सुगमः । तद्यया प्राणेन वायुना अन्नमशीय अश्नानि । एवमुपर्यपि । ततः स्विष्टकदादि प्राशनान्तम् । एकत इत्यत्र संधिश्छान्दसः । एकस्मिन्पाने एकीकृत्येत्यर्थः। 'हन्तेति' मन्त्रेण वेति विकल्पः । भारद्वाजी पक्षिविशेषः तस्य मांसेन वाक्प्रसारः अयं कुमारो वाग्मी स्यादित्येवंकामो यस्मिन्कुमारे तस्य प्राशनं कपिञ्जलस्तित्तिरो वेति मयूरो वा कृकषा कङ्कणहारिका । आटी प्लवविशेषः । 'सबैरिति । य एतान्सर्वान्कामान् कामयते तस्य सर्वै. रेतैरेव मांसैर्व्यस्तैः समस्तैर्वा प्राशन कारयेत् । ततस्तैः सवै रसैः सर्वान्लेन च प्राशनम् । ' अन्नपर्याय वेति ' छान्दसम् । अन्नपरिपाट्या सर्वान्नैः सर्वरसैश्च सर्वमांसान्येकीकृत्य प्राशयेद्वा । 'ततो ब्राह्मणभोजनम् । इत्युक्तार्थम् । तत्पदावृत्तिः काण्डपरिसमाप्तिप्रज्ञत्यर्थम् ॥ १९ ॥
इत्याचार्यजयरामकृते गृह्यभाष्ये सजनवल्लभाख्ये प्रथमकाण्डविवरणं समाप्तिमगमत् ॥ ॥ (हरिहरः)-'षष्ठे मासेऽन्नप्राशनम् । जन्मतः षष्ठे मासे कुमारस्य अन्नप्राशनं कर्म कुर्यात् । 'स्थालीपाक 'जुहोति । अन्नप्राशनस्येतिकर्तव्यताविशेषमाह स्थालीपाकं चरुं यथाविधि अपयित्वा आधारावाज्यभागी हुत्वा द्वे आहुती जुहोति । देवीं वाचमित्यादि वाजोनो अद्येति च द्वितीयाम् ' इत्यन्तं सूत्रम् । आज्येन देवीं वाचमित्यादिकया ऋचा एकामाहुतिं जुहुयात् । इदं वाचे इति त्यागं विधाय चकारात्पुनर्देवी वाचमित्येतस्यान्ते वाजो नः । यथा देवीं वाचमिति वाजो नो अथेति च द्वाभ्यामृग्भ्यां द्वितीयामाज्याहुति हुत्वा इदं वाचे वाजाय चेति त्यागं कुर्यात् । स्थाली