________________
fusar ]
प्रथमकाण्डम् |
१७७
वारं रायं प्रयच्छ इत्यर्थः । प्रयोजनमाह । अस्मे अस्य शतं शरदो जीवसे जीवनायेति । किंच अस्मे अस्मिन् वीरान् पुत्रान् शश्वतः शाश्वतान् दीर्घायुपः अधाः निधेहि अस्मै देहीत्यर्थः । 'इन्द्र "ह्रामिति' सन्ये सव्यकर्णे इन्द्रश्रेष्ठानीति मन्त्रं जपति । मन्त्रार्थ :- हे इन्द्र परमैश्वर्ययुक्त अस्मे अस्मिन् श्रेष्ठानि सुमङ्गलानि धेहि स्थापय । चित्तिं ज्ञानं दक्षस्य दक्षप्रजापतेरिव सुभगत्वं सौभाग्यं सर्वप्रभुत्वं च धेहि । तथा रयीणां धनानां पोषं पुष्टिं तनूनामवयवानामरिष्टिं नीरोगत्वं वाच: वाण्याः स्वात्मानं स्वादुत्वं माधुर्यमिति यावत् । अह्नां दिनानां सुदिनत्वं साफल्यं च धेहि । स्त्रियै"तूष्णीम् ' स्त्रियै स्त्रियाः दुहितुः पुत्रिकायाः मूर्द्धानमेव तूष्णीं जिप्रति न त्वन्यत् । एवकारेण दर्शनजपकर्णजपयोर्निवृत्तिरिति हरिहरः । एवकारकरणं कर्णजपप्रतिपेधार्थकमिति भर्तृयज्ञः । इति अष्टादशी कण्डिका ॥ १८ ॥ .
८
( विश्व० ) प्रवासादागतस्य संजातापत्यस्य विशेषं वक्तुं प्रवासतद्धर्माद्यसूत्रण प्रयोज्यमानत्त्रमपनेतुं सूत्रयति---' प्रोष्येत्य "पूर्ववत् प्रवासं कृत्वा आगत्य आवसथ्यभार्यापुत्रादेर्वासस्थानान्युपतिष्ठते । कथमित्यत उक्तं ' पूर्ववदिति ' पूर्व कात्यायनसूत्रे यथोक्तं तद्वदित्यर्थः । एतेन कात्यायनगृह्ययोः समानकर्तृकता कात्यायननिष्टा पूर्वकालता च द्योत्यते । तद्यथा गृहा मा विभीतेति गृहानुपैति क्षेमायव इति प्रविशतीति । अत्राप्यावसथ्यनतिमनेचावेलं गमनागमनयोः । ' पुत्रं दृष्ट्वा शतमिति पुत्रमात्मजं दृष्ट्वा मङ्गादङ्गादित्यादिकं मन्त्रं जपति । 'अथास्य शतमिति ' अस्य पुत्रस्य असावित्यत्र संवोधनान्तं पुत्रनामग्रहणम् । सहस्रायुपेत्यनन्तरं गवां त्वा हिंकारेणेति च । अवजिनामीत्यारभ्य समग्रमन्त्रसमुञ्चयार्थश्वकारः । अत्रापि मूढोऽवाचीनं प्राणम् । पुत्रनामग्रहणं च पूर्ववत् ' त्रिदक्षिणेस्य शिप्रिन्निति इतिशब्दो मन्त्रसमाप्तिद्योतकः । अस्मेप्रयन्धिमवनित्यमुं मन्त्रं त्रिर्वारं कुमारस्य दक्षिणे कर्णे जपतीत्यर्थः । ' इन्द्रश्रेष्ठा" महामितिसव्ये ' । सव्ये वामकर्णे इन्द्रश्रेष्ठानिद्रविणानीत्यमुं मन्त्रं त्रिः पठतीत्यर्थः । ' स्त्रियै तु मूर्द्धानमेवावत्रिति तूष्णीम् ' एवकारः कर्णजपव्यवच्छेदार्थः । अष्टादशी कण्डिका ॥ १८ ॥
षष्ठे मासे ऽन्नप्राशनम् ॥ १ ॥ स्थालीपाकलं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती जुहोति देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु स्वाहेति ॥ २ ॥ वाजो नो अद्येति च द्वितीयाम् ॥ ३ ॥ स्थालीपाकस्य जुहोति प्राणेनान्नमशीय स्वाहाऽपानेन गन्धानशीय स्वाहा चक्षुषा रूपाण्यशीय स्वाहा श्रोत्रेण यशोऽशीय स्वाहेति ॥ ४ ॥ प्राशनान्ते सर्वान् रसान्त्सर्वमन्नमेकत उद्धृत्याथैनं प्राशयेत् ॥ ५ ॥ तूष्णीहन्तेति वा हन्तकारं मनुष्या इति श्रुतेः || ६ || भारद्वाज्यामासेन वाक्प्रसारकामस्य ॥ ७ ॥ कपिञ्जलमांसेनान्नाद्यकामस्य ॥ ८ ॥ मत्स्यैर्जवनकामस्य ॥ ९ ॥ कृकषाया आयुष्कामस्य || १० || आट्या ब्रह्मवर्चसकामस्य || ११ ||
२३