________________
१७६ पारस्करगृह्यसूत्रम् ।
[अष्टादशी ऐश्वर्ययुक्तधनानि प्रयन्धि प्रयच्छ । विश्ववारस्य सर्ववरणीयस्य वराणां समूहो वारं सर्वेषां वाराणां समूहः सर्ववारं तस्येति वा भूरेबहुतरस्य-अत्र कर्मणि पष्ठी-प्रचुरं सर्ववारं रायं प्रयच्छेत्यर्थः । प्रयोजनमाह अस्मे अस्य शतं शरदो जीवसे जीवनायेति किंच अस्मिन् वीरान्पुत्रान् शश्वतः शाश्वतान् दीर्घायुषः अधाः निधेहि अस्मै देहीत्यर्थः । वामे तु इन्द्र श्रेष्ठानीति मन्त्रेण जपः । अस्यार्थ:-हे इन्द्र परमैश्वर्ययुक्त अस्मे अस्मिन् श्रेष्ठानि सुमङ्गलानि द्रव्याणि धेहि स्थापय । चित्तिं ज्ञानम् तनूनामवयवानामरिष्टिं नीरोगत्वं दक्षस्य प्रजापतेरिव सुभगत्वं सौभाग्यं सर्वप्रभुत्वं च धेहि । तथा रयीणां धनाना पोषं पुष्टिम् वाचः वागिन्द्रियस्य स्वात्मानं खादुत्वं माधुर्यमिति यावत् । अह्नां दिनानां सुदिनत्वं साफल्यं च धेहीति । स्त्रियै स्त्रियास्तु मूर्द्धावघ्राणमात्रं नत्वन्यत् तदपि तूष्णी नतु मन्त्रेण ॥१८॥
(हरिहरः)-प्रोष्येत्य' 'पूर्ववत् । प्रोष्य प्रवासादेत्य गृहान् गृहस्थान्भार्यापुत्रादीनुपतिष्ठते प्रार्थयते । कथं ? पूर्ववत् । आहिताग्निप्रवासप्रकरणोक्तवत् । तद्यथा-गृहामाविभीतेत्यारभ्य उपहूतो गृहेषु न इत्येतावत्पर्यन्तैस्त्रिभिर्मन्त्रैः गृहानुपस्थाय क्षेमाय व इत्यादिना शय्योरित्यन्तेन मन्त्रेण गृहं प्रविशेत् । केचित्तु सूत्रकारेण गृहोपस्थानमात्रविधानान्मन्त्रवत्प्रवेशं नेच्छन्ति । 'पुत्रं 'शतमिति ' पुत्रमात्मजं दृष्टा विलोक्य अङ्गादशादित्यादिक मन्त्रं जपति । 'अथा'अति' । अब जपानन्तरमस्य पुत्रस्य मूर्धानं शिरः अवजिघ्रति अवाचीनं जिघ्रति । केन मन्त्रेण ? 'प्रजाप'शतमिति । अनेन मन्त्रेण सकृत् । असावित्यस्य स्थाने अमुकशर्मन्निति पुत्रनामग्रहणम् । 'गवां'"त्रिः' प्रजापतेष्टुति सकृदबत्राणानन्तरं पुनः गवां वा हिङ्कारेणावजिघ्रामि सहलायुपाऽसौ जीव शरदः शतमिति मन्त्रेण सकृन्मूख्नमवत्राय द्विस्तूप्णीमवजिवति । 'दक्षिणेऽ"प्रिन्निति । अस्य पुत्रस्य दक्षिणे कणे अस्मे प्रयन्धीत्यादि इन्द्रशिप्रिन्नित्यन्तं मन्त्रं जपति । 'इन्द्रशे "सव्ये' सव्ये वामकणे इन्द्र श्रेष्ठेत्यादि सुदिनत्वमहामित्यन्तं मन्नं जपति । 'स्त्रियै "तूप्णीम् । स्त्रियाः पुत्रिकायाः मूर्धानमेव अवजिप्रति तूष्णीं विना मन्त्रेण एवकारेण दर्शनजपकर्णजपयोनिवृत्तिः ॥ १८ ॥ * ॥
(गदाधरः)-'प्रोष्येत्य' पूर्ववत् । । साग्निकः प्रवासं कृत्वा एत्य गृहान् गृहस्थितान् भार्यापुत्रादीनुपतिष्ठते तत्समीपे स्थित्वा मन्त्रं पठति पूर्ववत् श्रोतवत् । गृहामाविभीतेति त्रिभिर्मन्त्रैरित्यर्थः। उपस्थानानन्तरं क्षेमाय व इति प्रवेशनमिति भर्तृयज्ञहरिहरौ । प्रवासश्च साग्निकेन द्रव्याजनादिदृष्टकार्यार्थमेव केवलेन पुरुपेण कार्यः। न तु तीर्थयात्राद्यदृष्टकार्यार्थमिति प्रयोगरत्ने । 'पुत्रंशतमिति । पुत्रमात्मजं दृष्ट्वा विलोक्य अड्डादनादिति मन्त्रं पठति । मन्त्रार्थ:-हे पुत्र यतस्त्वमङ्गाप्रत्यगात्संभवसि उत्पत्स्यसे । हृदयादन्तरङ्गादपि अधिकतया जायसे । अतस्त्वं वै निश्चितं पुत्रनामा आत्माऽभिन्नरूपोस । स त्वं शतं शरदो वर्षाणि जीव प्राणिहि । ' अथा "शतमिति ' जपोत्तरमस्य पुत्रस्य मूर्धानं शिरः अवजिवति । अवाचीनं जिघ्रति प्रजापतेष्टुति मन्त्रेण । असाविति तस्यैव नामग्रहणम् । मन्त्रार्थ:-हे पुत्र प्रजापतेब्रह्मणः हिकारेण स्नेहाकृतध्वनिविशेषेण सामवेदावयवेन वा स्वा त्वामवजिवामि शिरसि चुम्वामि । अतोऽत्रवाणात् हे असौ अमुकशर्मन् सहस्रायुषा सुबहुजीवनेन शरदः शतमिति उक्तार्थम् । 'गवां "निः' गवां त्वेतिच मन्त्रेण त्रिरवजिति सहस्रायुपेत्यादेरत्राप्यनुपड्नः । तेन प्रजापतिस्थाने गवां त्वेति पदं मन्त्रे पठेदित्यर्थः ततश्च गवां त्वा हिंकारणावजिघ्रामि सहस्रायुपाऽमुकशर्मन् जीव शरदः शतमिति मन्त्रेण सकृन्मूर्द्धानमवत्राय द्विस्तूष्णीमवजिवति । 'दक्षिणे "शिप्रिन्निति ' अस्य पुत्रस्य दक्षिणे कर्णे अस्मे प्रयन्धि मघवन्निति मन्त्रं जपति । मन्त्रार्थःहे मघवन् इन्द्र ऋजीपिन् स्निग्धचित्त हे इन्द्र लोकेश शिप्रिन् सुखद लघुहस्तेति वा । अस्मे अस्मै कुमाराय इन्द्ररायः ऐश्वर्याणि धनानि च प्रयन्धि प्रयच्छ । विश्ववारस्य सर्ववरणीयस्य वराणां समूहो वारं सपा वाराणां समूहः सर्ववारं तस्येति वा । भूरेः वहुतरस्य । उभयत्र कर्मणि पष्टी । प्रचुरसर्व