________________
surat ]
प्रथमकाण्डम् ।
१७५
I
निष्क्रमं सूत्रयति ' चतुर्थे मासि निष्क्रमणिका' निष्क्रमणिकेति कर्मनामधेयं, कदेत्यत उक्तं चतुर्थे मासीति । तदुक्तं चतुर्थे मासि निष्क्रम इति । कथमित्यत आह 'सूर्यमुदीक्षम्वेतिप्रैपपूर्वं कुमारं सूर्यमुदीक्षयति तच्चक्षुरितिमन्त्रेण ' । वालकस्यायोग्यत्वात्स्वयं मन्त्रपाठः । कन्यायास्तु सूर्यावेक्षणं तूष्णीम् ॥ १७ ॥ सप्तदशी कण्डिका ॥ * ॥
प्रोष्येत्य गृहानुपतिष्ठते पूर्ववत् ॥ १ ॥ पुत्रं दृष्ट्वा जपति अङ्गादङ्गात्संभवसि हृदयादधिजायसे । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति ॥ २ ॥ अथास्य मूर्द्धानमवजिघ्रति । प्रजापतेष्ट्वा हिंकारे - णावजिघ्रामि सहस्रायुषाऽसौ जीव शरदः शतमिति ॥ ३ ॥ गवां त्वा हिंकारेणेति च त्रिर्दक्षिणेऽस्य कर्णे जपति । अस्मे प्रयन्धि मघवन्नृजीषिन्निन्द्ररायोविश्ववारस्य भूरेः । अस्मे शत शरदो जीवसे धा अस्मै वीराञ्च्छश्वतं इन्द्र शिप्रिन्निति ॥ ४ ॥ इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे । पोषन रयीणामरिष्टिं तनूनाथं स्वात्मानं वाचः सुदिनत्वमह्नामिति सव्ये ॥ ५ ॥ स्त्रियै तु मूर्द्धानमेवावजिघ्रति तूष्णीम् ॥६॥१८॥
( कर्क: ) - 'प्रोष्येत्य पूर्ववत् । प्रोपितः सन्नेत्य गृहोपस्थानं करोति । पूर्ववद् गृहामात्रिभीतेति । पुत्रं दृष्ट्वा जपत्यङ्गादङ्गात्संभवसीत्यमुं मन्त्रम् । अथास्य मूर्द्धानमवजिप्रति प्रजापतेष्ट्रा हिकारेणेति मन्त्रेण । असाविति तस्यैव नामग्रहणम् । गवां त्वा हिंकारेणेति च त्रिवाणं करोति । सहस्रायुषेत्यत्राप्यनुपङ्गः । सकृच्च मन्त्रवचनम् । दक्षिणेऽस्य कर्णे जपत्यस्मे प्रयन्धि मघवन्नित्यमुं मन्त्रम् । अस्येति पुत्रोऽभिधीयते । इन्द्र श्रेष्ठानि द्रविणानि धेहीति सव्ये कर्णे जपति । स्त्रियै तु मूर्द्धानमेवावजिघ्रति तूष्णीम् ।
( जयरामः ) - प्रोप्य प्रवासं कृत्वा एत्य आगत्य गृहानुपतिष्टते स्तौति साग्निः । कथम् पूर्ववत् श्रतवत् । गृहामाविभीतेत्यादित्रिभिर्मन्त्रैरित्यर्थः । तत्र त्रयाणां शंयुवर्हिस्पत्यः प्रथमस्य विरारूपा - त्रिष्टुप् येषामनुष्टुप् उपहूता महापंक्तिस्त्र्यवसाना तिस्रो वास्तव्यः उपस्थाने० क्षेमायेति प्रवेशनम् । तत्र पुत्रं दृष्टा जपति अङ्गादङ्गादिति मन्त्रम् । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् आयुर्जपे० । हे पुत्र यतस्त्वमङ्गादङ्गात्प्रत्यङ्गात्संभवसि उत्पत्स्यसे हृदयादन्तरङ्गादपि अधि अधिकतया जायसे अतस्त्वं वै निश्चितं पुत्रनामा आत्मा अभिन्नरूपोऽसि । स त्वं शतं शरदो वर्षाणि जीव प्राणिहि । पुत्रमूर्द्धानं शिरः अस्य पुत्रस्यैवावजिघ्रति प्रजापतेष्वेति मन्त्रेण । अस्यार्थः । तत्र परमेष्ठी उष्णिक् प्रजापतिरववाणे० । हेपुत्र प्रजापतेः ब्रह्मणः हिंकारेण स्नेहार्द्रशब्देन सामवेदेन वा त्वा त्वामवजियामि अतोऽवत्राणात् हे असौ अमुकशर्मन् असौस्थाने नामादेशः सहस्रायुपा सुबहुजीवनेन शरदः शतमित्युक्तार्थम् । अवन्नाणं च त्रिः सकृन्मन्त्रेण द्विस्तूष्णीम् । गवांत्वेति मन्त्रेण त्रिवारं जिप्रति । सहस्रायुषेत्यादेरत्राप्यनुपङ्गः तेन प्रजापतिस्थाने गवांत्वेति पदं मन्त्रे पठेदित्यर्थः । दक्षिणे कर्णे जपश्चास्मे प्रयन्धीति मन्त्रेण । तस्यार्थः । तत्र द्वयोः प्रजापतिस्त्रिष्टुप् इन्द्रः कर्णजपे० । हे भगवन् नाकेश ऋषीजिन् स्निग्धचित्त हे इन्द्र लोकेश शिप्रिन् सुखद लघुहस्तेति वा अस्मे अस्मै कुमाराय इन्द्रराय