________________
१७४ पारस्करगृह्यसूत्रम्।
[अष्टादशी एवं कुमार्या अपि ॥ ॥ अथ कर्णवेधः । तत्र याज्ञिकाः पठन्ति-अथ कर्णवेधो वर्षे तृतीये पञ्चमे वा पुष्येन्दुचित्राहरिरेवतीपु पूर्वाहे कुमारस्य मधुरं दत्त्वा प्रत्यड्मुखायोपविष्टाय दक्षिणं कर्णममिमन्त्रयते भद्रं कर्णेभिरिति सव्यं वक्ष्यन्तीवेदेति चाथ भिन्द्यात् । ततो ब्राह्मणभोजनम् । मदनरत्नेप्रथमे सप्तमे मासि अष्टमे दशमे तथा । द्वादशे च तथा कुर्यात्कर्णवेधं शुभावहम् । हेमाद्री व्यासवचनम् कार्तिके पौपमासे वा चैत्रे वा फाल्गुनेऽपि वा । कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने । कारिकायाम्-सुनक्षत्रे शुभे चन्द्रे स्वस्थ शीर्पोदये तथा । दिनच्छिद्रव्यतीपातविष्टिवैधृतिवर्जिते । चित्राऽनुराधामृगरेवतीपु पुनर्वसौ पुष्यकराश्विनीपु । श्रुतौ धनिष्ठातिसृपूत्तरासु लग्ने गुरौ लाभनृगे(?)शुभे तत् । मदनरत्ने-द्वितीया दशमी पष्ठी सप्तमी च त्रयोदशी। द्वादशी पञ्चमी शस्ता तृतीया कर्णवेधने । सौवर्णी राजपुत्रस्य राजती विप्रवैश्ययोः । शूद्रस्य चायसी सूची मध्यमाष्टामुलात्मिका । हेमाद्रौ देवलः-कर्णरन्ध्रे रविच्छाया न विशेदप्रजन्मनः । तं दृष्ट्वा विलयं यान्ति पुण्यौघाश्च पुनः पुनः । शङ्खः-अङ्गुष्ठमात्रसुपिरौ कणों न भवतो यदि । तस्मै श्राद्धं न दातव्यं दत्तं चेदासुरं भवेत् । ततो यथोक्तकाले देशकालौ स्मृत्वाऽस्य शिशोः कर्णवेधं करिष्ये इति संकल्प्य कुमारं नापयित्वा तस्मै शर्करादि मधुरं दत्त्वा भद्रं कर्णेभिरिति दक्षिणकर्णमभिमन्व्य वक्ष्यन्तीवेदेतिमन्त्रेण सव्यकर्णस्याभिमन्त्रणं कुर्यात् । ततः सूच्या दक्षिणकर्णस्य वेधः । ततः सव्यस्य । ततो ब्राह्मणभोजनम् । अत्राभ्युदयिक केपांचिन्मते नास्ति ॥ * ॥ इति कर्णवेधपदार्थक्रमः ।। * ॥
(विश्व०)-अथेदानी नामकर्मनिष्क्रमणिके क्रमेण सूत्रयति 'दशम्या 'करोति जननाशौचस्य प्रक्रान्तत्वात् तत्प्रतियोगिनी दशमी चरमावस्था तस्यां जातायां सूतके विनष्टे दशाहे निवृत्त इत्यर्थः । तत एकादशेऽहनि सूतिकागृहात्सूतिकामुत्थाप्य नापयित्वा नाम करोति जननाशौचत्राद्वस्त्रशरीरादिगोचरां शुद्धिं सूतिकायाः संपाद्य पिता नाम करोतीत्यन्वयः । तदुक्तं-अहन्येकादशे नामेति । अत्राप्येकादशाहपदं सूतकान्तोपलक्षणं, तेन क्षत्रियादेरपि सूतकनिवृत्त्यनन्तरमेव नामकरणम् । कथमित्यपेक्षायामाह ब्राह्मणान् भोजयित्वेति । एतस्य नामकरणपूर्वाङ्गत्वादादौ वैश्वदेवपूर्वकमाभ्युदयिकं श्राद्धं कुर्यात् । तत इतरान् ब्राह्मणान्नामकरणाङ्गत्वेन भोजयेत् । कीदृशं तदित्याह 'ब्यक्षरं तद्धितं । अत्राज्झल्समुदायस्याक्षरत्वम् , द्वे अक्षरे यस्य तथक्षरं, चत्वारि अक्षराणि यस्य त्तत्तादृशं वाशब्दो विकल्पार्थः । पुनः कीदृशं घोपवदादि घोपवदक्षरं आदौ यस्य तत्तादृशं, वर्गाणां प्रथमद्वितीयाः शषसाचाऽघोपाः । तद्भिन्नहलां घोषवत्त्वम् । पुनः कीदृशं 'अन्तरन्तस्थम् । अन्तर्मध्ये अन्तस्था यस्य तत्तादृशम् । यरलवा अन्तस्थाः । पुनः कीदृक् 'दीर्घाभिनिष्ठानं ' दीर्घमक्षरममिनिष्ठानेऽवसाने यस्य तदीर्घाभिनिष्ठानं 'कृतं , राशिचक्रादिविचारेण ज्योतिःशास्त्रे कृतं कर्त्तव्यतया वोधितं, अथवा पितामहादेः कृतं यत्प्रपितामहादिमिः, अथवा रामकृष्णादिदेवतासंवन्धि पुराणादौ कृतमिति श्रुतं, यद्वा कृत्प्रत्ययान्तं, कृतमिति क्रियाविशेषणं वा 'कुर्यात् ' कुमारस्य दक्षिणं कर्णमभिनिधाय पठेदित्यर्थः । कुमार्यास्तु वामश्रवणे जपेदिति शेपः। 'न तद्धितं तद्धितप्रत्ययान्तं न कुर्यात् । कुमार्याः कीदृशं नामेत्यत आह 'अयुजाक्षरं' अयुग्माक्षरम् । 'आकारातं ' आशब्दः अन्ते यस्य 'तद्धितं तद्धितान्तं कन्यानाम कुर्यादिति पूर्वानुषड्नः। अपिच 'शर्म · 'वैश्यस्य ' ब्राह्मणक्षत्रियविशां नामकीर्तनानन्तरं शर्मवर्मगुप्तेति यथाक्रमं प्रयोगादौ प्रयोक्तव्यम् । यद्वा केषांचिच्छर्मविशेषाः सन्ति । तत्तदुपस्थापकपदप्रयोगानन्तरं शर्मपदं प्रयोगादौ प्रयोक्तव्यम् । यद्वा केपांचित्कृप्तम् । एवं क्षत्रियादिरपि वोपस्थापकपदविशेषप्रयोगानन्तरं वर्मेतिपदप्रयोगः । एवं वैश्यस्यापि धनविशेषविषयकरक्षणपदप्रयोगानन्तरं गुप्तेतिपदप्रयोगः । शूद्रस्यापि प्रेप्यत्वप्रतिपादकं दासादिपदं नामकीर्तनानन्तरं प्रयोक्तव्यमिति नामकरणं यथाकुलाचारं वा ।