________________
anusar ]
प्रथमकाण्डम् |
१७३
( अथ पदार्थक्रमः ) - जन्मत एकादशे द्वादशे वा यथाचारं नियतदिने वा नामकरणं कार्यम् । नियतकालेऽपि विष्टिवैधृतिव्यतीपातग्रहणसंक्रान्त्यमावास्याश्राद्धदिनेषु न कार्यम् । नियतकाले क्रियमाणेषु गुरुशुक्रास्तवाल्यवार्थकवक्रातिचारमलमासादिनिपेधो नास्ति । नियतकालातिक्रमे तु ज्योतिःशास्त्रोक्ते शुभे काले कार्यम् । सर्वथाऽत्र पूर्वाह्नः प्रशस्तः । प्राणानायम्य देशकालौ स्मृत्वाऽस्य शिशोर्वीजगर्भसमुद्भवैनोनिवर्हणायुरभिवृद्धिव्यवहारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ नामकरणं करिष्य इति संकल्प्य मातृपूजापूर्वकमाभ्युदयिकं कृत्वा ब्राह्मणत्रयभोजनं कार्यम् । ततः स्वकुलदेवताभक्त इति नाम कृत्वा जन्मकालीनमासनाम कुर्यात् । तच — कृष्णोऽनन्तो ऽच्युतश्चक्री वैकुण्ठोऽथ जनार्दनः उपेन्द्रो यज्ञपुरुषो वासुदेवस्तथा हरिः । योगीशः पुण्डरीकाक्षो मासनामान्यनुक्रमात् । अत्र यथाचारं चैत्रादिर्मार्गशीर्षादिर्वा क्रमः । ततोऽवकहडाख्यज्योतिःशास्त्रोक्तचक्रानुसारेण जन्मनक्षत्रपादप्रयुक्ताक्षरादि नाम । ततो व्यावहारिकं स्वेष्टं नामेति । अत्रायं दाक्षिणात्यशिष्टाचार: --- तण्डुलान् कांस्यादिपात्रे प्रसार्य तदुपरि सुवर्णशलाकया कुलदेवताप्रयुक्तममुकभक्त इत्यादि नामचतुष्टयं लेख्यम् । ततो देवताभ्यो नम इति संपूज्यामुकनाम्ना त्वममुकोऽसीति स्वदक्षिणस्थमातुरुत्सङ्गस्थशिशोर्दक्षिणे कर्णे कथयित्वा मनोजूतिरित्यादिमन्त्रपाठान्ते विप्रैर्नाम सुप्रतिष्ठितमस्त्वित्युक्तेऽमुकनाम्नाऽमुकनामाऽयं भवतोऽभिवादयते इत्युक्त्वा नामकर्ता प्रतिनाम विप्रानभिवादयेत् । ते चायुष्मान् भवत्वमुक इति वदेयुरिति । ततः कर्ता देवताभ्यो ब्राह्मणेभ्यश्च नत्वा दशसंख्याकान् विप्रान् भोजयेद्दक्षिणां च दात् । विप्राशिषच ग्राह्याः । कुमार्या अपि नामकरणममन्त्रकं कार्यम् । इति नामकरणे पदार्थ - क्रमः । नात्र गर्गमते विशेषः ॥ ॥ अथ खट्टारोहः । पारिजाते - खट्टारोहस्तु कर्तव्यो दशमे द्वादशेऽपि वा । षोडशे दिवसे वाऽपि द्वाविंशे दिवसेऽपि वा । ज्योतिर्निबन्धे — कत्रये वैष्णवरेवतीषुदितिद्वये (?) चाश्विनक ध्रुवेपु । कुर्याच्छिशूनां नृपतेश्च तद्वदान्दोलनं वै सुखिनो भवन्ति । तत्रैवम्-आन्दोलाशयने पुंसो द्वादशो दिवसः शुभः । त्रयोदशस्तु कन्याया न नक्षत्रविचारणा । अन्यस्मिन्दिवसे चेत्स्यात्तिर्यगास्ये प्रशस्यते । तत्र नामकरणदिने पोडशे द्वात्रिंशेऽन्यस्मिन्वा ज्योतिविदादिष्टे शुभे काले यथाचारं कुलदेवतादिपूजां विधायालंकृतं शिशुं हरिद्राद्यलंकृते पर्यके मात्राद्याः सौभाग्ययुक्ताः स्त्रियो योगशायिनं हरिं स्मरन्त्यो गीतवाद्यादिसमकालं प्राक्शिरसं न्यसेयुः । स्वस्वाचारप्राप्तं चान्यदपि कार्यम् ॥ ॥ अथ दुग्धपानम् । नृसिहः – एकत्रिंशद्दिने चैव पयः शङ्खेन पाययेत् । अन्नप्राशननक्षत्रे दिवसोयराशिषु || ॥ अथ ताम्बूलभक्षणम् । चण्डेश्वरः - सार्द्धमासद्वये दद्यात्ताम्बूलं प्रथमं शिशोः । कर्पूरादिकसंयुक्तं विलासाय हिताय च । मूलार्कचित्रकरतिष्यहरीन्द्रभेपु पौष्णे तथा मृगशिरोऽदितिवासरेषु । अर्केन्दुजीवभृगुबोधनबासरेषु ताम्बूलभक्षण विविर्मुनिभिः प्रदिष्टः ॥ ॥ कुमारस्यास्मिन्नेव मासे शुभदिने रात्रौ चन्द्रदर्शनं कारयेत् । चन्द्रार्कयोरिंगीशानां दिशां च वरुणस्य च । निक्षेपार्थमिमं दद्मि ते त्वां रक्षन्तु सर्वदा । अप्रमत्तं प्रमत्तं वा दिवारात्रमथापि वा । रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः । एवं शिशुरक्षणार्थं देवान् प्रार्थयेत् ॥ 11 अथोपवेशनविधिः । प्रयोगपारिजाते -- पञ्चमे च तथा मासि भूमौ तमुपवेशयेत् । तत्र सर्वे ग्रहाः शस्ता भौमोऽप्यत्र विशेषतः । उत्तरात्रितयं सौम्यं पुष्यक्षै शक्रदैवतम् । प्राजापत्यं च हस्तश्च शस्तमाश्विनमित्रभम् । पश्चममासे शुक्लपक्षे शुभतिथ्यादौ पूर्वाह्णे खस्तिवाचनं कृत्वा तत्र शङ्खतूर्यादि - माङ्गलिकध्वनौ क्रियमाणे शिशुमुपवेशयेदित्येतैर्मन्त्रैः । रक्षैनं वसुधे देवि सदा सर्वगतं शुभे । आयु:प्रमाणं निखिलं निक्षिपस्व हरिप्रिये । अचिरादायुषस्त्वस्य ये केचित्परिपन्थिनः । जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् । धारिण्यशेपभूतानां मातस्त्वमधिका ह्यसि । कुमारं पाहि मातस्त्वं ब्रह्मा तदनुमन्यतामिति । ततो ब्राह्मणान्पूजयित्वाऽऽशिषो वाचयित्वा नीराजनाद्युत्सवं कुर्यात् ।
।