________________
१७२ पारस्करगृह्यसूत्रम् ।
[सप्तदशी करिष्ये इति संकल्प्य तदङ्गत्वेन चतुर्थे मासि शुभे दिने मातृपूजाभ्युदयिके विधाय मात्रा अङ्के कृतं कुमारं गृहाहिरानीय तच्चक्षुर्देवहितमितिमन्त्रेण शिशोः सूर्यस्योदीक्षणं पिता कारयति ॥ १७ ॥
(गदाधरः)-' दशम्या''करोति' प्रसवाद्दशम्यां राज्यामतीतायामेकादशेऽहनि सूतिकागृहात्सूतिकामुत्थाप्य श्राद्धव्यतिरेकेण त्रीन् ब्राह्मणान्मोजयित्वा पिता कुमारस्य नाम संज्ञां संव्यवहाराथै करोति । अन्यस्मिन्नपि संस्कारे पितुरेवोत्सर्गात्कर्तृत्वम् । इह पितुर्ग्रहणादन्यत्रापि नियमोऽवगम्यते । अत्र दशम्यामिति सूतकान्तोपलक्षणम् । तथाच मदनरत्ने नारदीये-सूतकान्ते नामकर्म विधेयं स्वकुलोचितमिति । ततश्च यस्य यावन्ति दिनानि सूतकं तदन्तदिने कार्यमिति हरिहरः । सूत्रकारवचनादेकादशेऽहन्येवेत्यन्ये । गोभिलसूत्रेदशराने व्युष्टे नामकरणमिति । याज्ञवल्क्यःअहन्येकादशे नामेति । मदनरत्ने विशेषः-द्वादशे दशमे वाऽपि जन्मतोऽपि त्रयोदशे । षोडशे विशतौ चैव द्वाविंशे वर्णतः क्रमात् । कारिकायाम्-एकादशे द्वादशे वा मासे पूर्णेऽथवा परे । अष्टादशेऽहनि तथा वदन्त्यन्ये मनीषिणः ॥ शतराने व्यतीते वा पूर्ण संवत्सरेऽथवा । ज्योतिर्निवन्धे गर्ग:अमासंक्रान्तिविट्यादौ प्राप्तकालेऽपि नाचरेत् । एकादशेऽहनि नामकरणाशक्तौ स्मृत्यन्तरोक्तद्वादशाहादिकालो ग्राह्यः । तदुक्तं कारिकायाम्-मुख्यकाले यदा नामधेयं कर्तुं न शक्यते । उक्तानामन्यतमस्मिन्दिने स्यात्तु गुणान्विते ॥ कीदृशं नाम कार्यमित्यत आह-ब्यक्षरं चतुरक्षरं वा' नाम कुर्यादिति शेपः । द्वे अक्षरे यस्य वत् ब्यक्षरं चत्वार्यक्षराणि यस्य तचतुरक्षरमनयोर्विकल्पः । 'घोषव''न्न तद्धितम् ' घोषवदादि घोषवदक्षरमादौ यस्य तत् घोपवन्तो वर्गान्तास्त्रयो वर्णा यरलवा हश्चोच्यन्ते । ते च-गघड जान डढण दधन बभम यरलव ह इति । अन्तरन्तस्थमन्तमध्ये अन्तस्थाः यस्य तत् । अन्तस्था यरलवा उच्येन्ते एते नानो मध्ये कर्तव्या इत्यर्थः । दीर्घाभिनिष्ठानमभिनिष्ठानं समाप्तिरवसानं दीधैं यस्य तत् । दी? गुरुरुच्यते । कृतं कुर्यादिति । कृदिति प्रत्ययसंज्ञा तदन्तं कुर्यात् । अपरे पितामहादिकृतं वर्णयन्ति । न तद्धितम् तद्धितप्रत्ययान्तं कुमारस्य नाम न कुर्यात् । ततश्चेहङ् नाम कार्यम् । भद्रकोरीति | स्त्रिया नानि विशेषमाह ' अयुजा "तद्धितम् । अयुजानि विषमाणि त्र्यादीन्यक्षराणि यस्मिन्नान्नि तत् आकारान्तं आकारोऽन्ते यस्य तत् तद्धितं तद्धितप्रत्ययान्तं च स्त्रियै स्त्रिया नाम कुर्यादित्यर्थः । 'शर्म ब्राह्मणस्य' शर्मशब्दः सुखनीयवचनः सुखनीयं ब्राह्मणस्य नाम कर्तव्यम् यथा शुभंकरः प्रियंकर इति कर्कः । ब्राह्मणस्य नाम्नि शर्मेत्यनुषको भवतीति भर्तृयज्ञहरिहरौ । 'वर्म क्षत्रियस्य ' वर्मशब्दः शौर्यवचनः शौर्ययुक्त क्षत्रियस्य नाम कार्यमिति कर्कः । क्षत्रियनानि वर्मेलनुषड्न इत्यन्ये । 'गुप्तेति वैश्यस्य ' गुप्तशब्द आन्यत्वाभिधायी वैश्यस्य नाम भवतीति कर्कः । गुप्तेति नान्नि अनुषङ्ग इत्यन्ये । मनुः-शर्मान्तं वा. ह्मणस्य स्याद्वान्तं क्षत्रियस्य तु । वैश्यस्य धनसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ।। चतुर्थे मासि निष्क्रमणिका ' कुमारस्य जननाचतुर्थे मासि निष्क्रमणिका गृहाद्वहिर्नयनं कर्तव्यम् । ज्योतिर्निवन्धेतृतीये वा चतुर्थे वा मासि निष्क्रमणं भवेत् । ततस्तृतीये कर्तव्यं मासि सूर्यस्य दर्शनम् ॥ चतुर्थे मासि कर्तव्यं शिशोश्चन्द्रस्य दर्शनम् । अत्र 'सूर्येन्द्वोः कर्मणी ये च तयोः श्राद्धं न विद्यते' इति छन्दोगपरिशिष्टात् छन्दोगानां निष्क्रमणे वृद्धिश्राद्धं नास्तीति कल्पतरुः । व्यासः--मैत्रे पुष्यपुनवसुप्रथमभे पौष्णेऽनुकूले विधौ हस्ते चैव सुरेश्वरे च मृगमे तारासु शस्तासु च । कुर्यानिष्क्रमणं शिशोर्बुधगुरौ शुक्रेनरिक्तातिथौ कन्याकुम्भतुलामृगारिभवने सौम्यग्रहालोकिते ॥ मदनरत्ने--अन्नप्राशनकाले वा कुर्यान्निष्क्रमणक्रियाम् । 'सूर्यमुदीक्षयति तञ्चक्षुरिति । गृहाद्वहिर्नयनानन्तरं पिता कुमारं सूर्य दर्शयति तचक्षुरिति मन्त्रेण । सूर्यमुदीक्षस्वेति प्रैप इति गर्गपद्धतौ तन्मृग्यम् ॥ इति सप्तदशी कण्डिका ॥ १७॥